संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ४७ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ४७ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ४७ Translation - भाषांतर गरुड उवाच ।भगवन्देवदेवेश कृपया परया वद ।दानं दानस्य माहात्म्यं वैतरण्याः प्रमाणकम् ॥१॥श्रीकृष्ण उवाच ।या सा वैतरणी नाम यममार्गे महासरित् ।अगाधा दुस्तरा पापैर्दृष्टमात्रा भयावहा ॥२॥पूयशोणिततोयाढ्या मांसकर्दमसकुंला ।पापिनञ्चागतान्दृष्ट्वा नानाभयसमावृता ॥३॥क्वाथ्यते सत्वरं तोयं पात्रमध्ये घृतं यथा ।क्रिमिभिः सङ्कुलं पूयं वज्रतुण्डैः समावृतम् ॥४॥शिशुमारैश्च मकरैर्वज्रकर्तरिकायुतैः ।अन्यैश्च जलजीवैश्च हिंसकैर्मांसभेदिभिः ॥५॥उद्यान्ति द्वादशादित्याः प्रलयान्ते तथा हि ते ।तपन्ति तत्र वै मर्त्याः क्रन्द मानास्तु पापिनः ॥६॥हा भ्रातः पुत्र तातेति प्रलपन्ति मुहुर्मुहुः ।विचरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ॥७॥चतुर्विधैः प्राणिगणैर्दृष्टा व्याप्ता महानदी ।तरन्ति गोप्रदानेन त्वन्यथा च पतन्ति ते ॥८॥मां नरा येऽवमन्यन्ते चाचार्यं गुरुमेव च ।वृद्धानन्यांश्चापि मूढास्तेषां वासस्तु तत्र वै ॥९॥पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ।परित्यजन्ति ये मूढास्तेषां वासस्तु सन्ततम् ॥१०॥विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ।स्त्रीबालविकलादीनां वधं कृत्वा पतन्ति हि ।पच्यन्ते तत्र मध्ये तु क्रन्दमानास्तु पापिनः ॥११॥शान्तं बुभुक्षितं विप्रंयो विघ्नायोपसर्पति ।क्रिमिभिर्भक्ष्यते तत्र यावदाभूतसंप्लवम् ॥१२॥ब्राह्मणाय प्रतीश्रुत्य यमार्थं न ददाति तम् ।आहूय नास्ति यो ब्रूयात्तस्य वासस्तु तत्र वै ॥१३॥अग्निदो गरदश्चैव कूटसाक्षी च मद्यपः ।यज्ञविध्वंसकश्चैव राज्ञीगामी च पैशुनः ॥१४॥कथाभङ्गकरश्चैव स्वयन्दत्ता पहारकः ।क्षेत्रसेतुविभेदी च परदारप्रधर्षकः ॥१५॥ब्राह्मणो रसविक्रेता तथा यो वृषलीपतिः ।गोधनस्य तृषार्तस्य वाप्या भेदं करोति यः ॥१६॥कन्याविदूषकश्चैव दानं दत्त्वानुतापकः ।शूबद्रस्तु कपिलापायी ब्राह्मणो मांसभोजनः ॥१७॥एते वसन्ति सततं मा विचारं कृथाः क्वचित् ।कृपणो नास्तिकः क्षुद्रः स तस्यां निवसेत्खग ॥१८॥सदामर्षो सदा क्रोधी निजवाक्यप्रमाणकृत् ।परोक्त्युच्छेदको नित्यं वैतरण्या वसेच्चिरम् ॥१९॥यस्त्वहङ्कारवान्पापी स्वविकत्थनकारकः ।कृतघ्नो गर्भसन्तापी वैतरण्यां स मज्जति ॥२०॥कदापि भाग्ययोगेन तरणेच्छा भवेद्यदि ।सानुकूला भवेद्येन तदाकर्णय काश्यप ॥२१॥अयने विषुवे पुण्ये व्यतीपाते दिनोदये ।चन्द्रसूर्योपरागे वा संक्रान्तौ दर्शवासरे ॥२२॥अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ।यदा तदा भवेद्वापि श्राद्धा दानं प्रति ध्रुवम् ॥२३॥तदैब दानकालः स्याद्यतः सम्पत्तिरस्थिरा ।अनित्यानि शरीराणि विभवो नैव शाश्वतः ॥२४॥नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंगहः ।कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ॥२५॥स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहनीम् ।कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ॥२६॥कार्पासद्रोणशिखरे आसीनं ताम्रभाजने ।यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।इक्षुदण्डमयं बद्ध्वा प्लवं सुदृढबन्धनैः ॥२७॥उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।कृत्वा प्रकल्पयेद्विप्रश्छत्रोपानहसंयुतम् ॥२८॥अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।इममुच्चारयेन्मन्त्रं संगृह्य सजलान्कुशान् ॥२९॥यमद्वारे महाघोरे श्रुत्वा वैतरणीं तदीम् ।तर्तुकामो ददाम्येनां तुभ्यं वैतरणीं नमः ॥३०॥गावो मे अग्रतः सन्तु गावो मे सन्तु पार्श्वतः ।गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥३१॥विष्णुरूप द्विजश्रेष्ठ मामुद्धर महीसुर ।सदक्षिणा मया दत्ता तुभ्यं वैतरणीनमः ॥३२॥धर्मराजञ्च सर्वेशं वैतरण्याख्यधेनुकाम् ।सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥३३॥पुच्छं संगृह्य धेन्वाश्च अग्रे कृत्वा तु वै व्दिजम् ।धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ॥३४॥उत्तारणाय देवेशि वैतरण्ये नमोऽस्तु ते ।अनुव्रजेत्तु गच्छन्तं सर्वं तस्य गृहं नयेत् ॥३५॥एवं कृते वैनतेय सा सरित्सुतरा भवेत् ।सर्वान्कामानवाप्नोति यो दद्याद्भुवि मानवः ॥३६॥सुकृतस्य प्रभावेण सुखञ्चेह परत्र च ।स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥३७॥मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।स्वहस्तेन ततो देयं मृते कः कस्य दास्यती ॥३८॥दानधर्मविहीनानां कृपणैर्जीवेतक्षितैः ।अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ॥३९॥अवश्यमेव यास्यन्ति प्राणाः प्राघुणि (घूर्णि) का इव ॥४०॥इतीदमुक्तं तव पक्षिराज विडम्बनं जन्तुगणस्य सर्वम् ।प्रेतस्य मोक्षाय तदौद्ध्वन्दैहिकं हिताय लोकस्य चरेच्छुभाय तु ॥४१॥सूत उवाच ।एवं विप्राः समाद्दिष्टो विष्णुना प्रभविष्णुना ।गरुड प्रेतचरितं श्रुत्वा सन्तुष्टिमागतः ॥४२॥व्रततीर्थादिकं सर्वं पुनः पप्रच्छ केशवम् ।ध्यात्वा मनसि सर्वेशं सर्वकारणकारणम् ॥४३॥ऋषयः सर्वमेवैतज्जन्तूनां प्रभवादिकम् ।मरणं जन्म च तथा प्रेतत्वञ्चौर्ध्वदैहिकम् ॥४४॥मया प्रोक्तं वै मुक्त्यै निदानं चैव सर्वशः ।लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥४५॥धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।क्षमा जयति न क्रोधो विष्णुर्जयति नासुराः ॥४६॥विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः ।येषामेव स्थिरा बुद्धिर्न तेषां दुर्गतिर्भवेत् ॥४७॥मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः ।मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥४८॥हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ।भागीरथी हरिर्विप्राः सारमेतज्जगत्त्रये ॥४९॥इति सूतमुखोद्गीर्णां सर्वशास्त्रार्थमण्डिताम् ।वैष्णविं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥५०॥प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् ।प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥५१॥अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः ॥५२॥इति श्रीगारुडे महापु उत्तरखण्डे द्वितीदृ धर्मकादृप्रेतदृश्रीकृष्णगरुडसंवादे कर्मविपाकादिनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP