संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ३६ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ३६ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ३६ Translation - भाषांतर तार्क्ष्यौवाच ।कस्मादनशनं पुण्यमक्षय्यगतिदायकम् ।स्वगृहन्तु परित्यज्य तीर्थे वै म्रियते यदि ॥१॥अप्राप्य तीर्थं म्रियते गृहे वा मृत्यु मागतः ।बूत्वा कुटीचरो यस्तु स कां गतिमवाप्नुयात् ॥२॥संन्यासं कुरुते यस्तु तीर्थे वापि गृहेऽपि वा ।कथं तस्य प्रकर्तव्यमप्राप्तनिधनेऽपि वा ॥३॥नियमे चेत्कृते देव चित्तभङ्गो हि जायते ।केन तस्य भवेत्सिद्धिः कृतेनाप्यकृतेन वा ॥४॥श्रीकृष्ण उवाच ।कृत्वा निरशनं यो वै मृत्युमाप्नोति कोऽपि चेत् ।मानुपीं तनुमुत्सृज्य मम तुल्यो विराजते ॥५॥यावन्त्यहानि जीवेत्व्रते निरशने कृते ।क्रतुभिस्तानि तुल्यानि समग्रवदक्षिणैः ॥६॥तीर्थे गृहे वा संन्यासं नीत्वा चेन्म्रियते यदि ।प्रत्यहं लभते सोऽपि पूर्वोक्तं द्विगुणं फलम् ॥७॥महारोगोपपत्तौ च गृहीतेऽनशने कृते ।पुनर्न जायते रोगो देववद्धि विराजते ॥८॥य आतुरः सन् सन्न्यासं गृह्णाति यदि मानवः ।पुनर्न जायते भूमौ संसारे दुः खसागरे ॥९॥अहन्यहनि दातव्यं ब्राह्मणानाञ्च भोजनम् ।तिलपात्रं यथाशक्ति दीपदानं सुरार्चनम् ॥१०॥एवं वृत्तस्य दह्यन्ते पापान्युच्चावचानि च ।मृतो मुक्तिमवाप्नोति यथा सर्वे महर्षयः ॥११॥तस्मादनशनं नॄणां वैकुण्ठपददायकम् ।तस्मात्स्वस्थे चोत्तरे वा साधयेन्मोक्षलक्षणम् ॥१२॥पुत्त्रद्रव्यादि सन्त्यज्य तीर्थं व्रजति यो नरः ।ब्रह्माद्या देवतास्तस्य भवेयुस्तुष्टिपुष्टिदाः ॥१३॥यस्तीर्थसंमुखो भूत्वा व्रते ह्यनशने कृते ।चेन्म्रियेतान्तरालेऽपि ऋषीणां मण्डले वसेत् ॥१४॥व्रतं निरशन कृत्वा स्वगृहेऽपि मृतो यदि ।स्वकुलानि परित्यज्य एकाकी विचरेद्दिवि ॥१५॥अन्नञ्चैव तथा तोयं परित्यज्य नरो यदि ।पीतमत्पादतोयश्च न पुनर्जायते क्षितौ ॥१६॥कृत्त्यासीनन्तत्तीर्थगतं रक्षन्ति वनदेवताः ।यमदूता विशेषेण न याम्यास्तस्य पार्श्वगाः ॥१७॥तीर्थसेवी नरो यस्तु सर्वकिल्बिषवर्जितः ।तत्र म्रियते दह्येत तत्तीर्थफलभाग्भवेत् ॥१८॥सेवितेऽपि सदा तथि ह्यन्यत्र म्रियते यदि ।शुभे देशे कुले धीमान् स भवेद्वेदविद्द्विजः ॥१९॥कृत्वा निरशनं तार्क्ष्य पुनर्जीवति मानवः ।ब्राह्मणान् स समाहूय सर्वस्वं यत्परित्यजेत् ॥२०॥चान्द्रायणं चरेत्कृत्स्नमनुज्ञातश्च तैर्द्विजैः ।अनृतं न वदेत्पश्चाद्धर्ममेव समाचरेत् ॥२१॥तीर्थे गत्वा च यः कोऽपि पुनरायाति वै गृहम् ।अनुज्ञातः स वै विप्रैः प्रायश्चित्तमथाचरेत् ॥२२॥दत्त्वा वा स्वर्णदानानि गोमहीगजवाजिनः ।तीर्थं यदि लभेद्यस्तु मृत्युकाले स भाग्यवान् ॥२३॥गृहात्प्रचलितस्तीर्थं मरणे समुपस्थिते ।पदेपदे तु गोदानं यदि हिंसा न जायते ॥२४॥गृहे तु यत्कृतं पापं तीर्थस्नानेन शुध्यति ।कुरुते तत्र पापञ्चेद्वज्रलेपसमं हि तत् ॥२५॥क्लिश्येत्स नात्र सन्देहो यावच्चन्द्रार्कतारकम् ।तत्र दत्तानि दानानि जायन्ते चाक्षयाणि वै ॥२६॥आतुरे सति दातव्यं निर्धनैरपि मानवैः ।गावस्तिला हिरण्यञ्च सप्तधान्यं विशेषतः ॥२७॥दानवन्तं नरं दृष्ट्वा हृष्टाः सर्वे दिवौकसः ।ऋषिभिः सह धर्मण चित्रगुप्तेन सर्वदा ॥२८॥आत्मायत्तं धनं यावत्तावद्विप्रे समर्पयेत् ।पराधीनं मृते सर्वं कृपया कः प्रदास्यति ॥२९॥पित्रुद्देशेन यः पुत्त्रैर्धनं विप्रकरेऽर्पितम् ।आत्मानं सधनं तेन चक्रे पुत्रप्रपौत्रकैः ॥३०॥पितुः शतगुणं दत्तं सहस्रं मातुरुच्यते ।भगिन्या शतसाहस्रं सोदर्ये दत्तमक्षयम् ॥३१॥यदि लोभान्न यच्छन्ति प्रमादान्मोहतोऽपि वा ।मृताः शोचन्ति ते सर्वे कदर्याः पापिनस्त्विति ॥३२॥अतिक्लेशेन लब्धस्य प्रकृत्या चञ्चलस्य च ।गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥३३॥मृत्युः शरीगोप्तारं वसुरक्षं वसुन्धरा ।दुश्चारिणीव हसति स्वपतिं पुत्रवत्सलम् ॥३४॥उदासे धार्मिकः सौम्यः प्राप्यापि विपुलं धनम् ।तृणवन्मन्यते तार्क्ष्य आत्मानं वित्तमप्यथ ॥३५॥न चैवोपद्रवास्तस्य मोहजालो न चैव हि ।मृत्युकाले न च भयं यमदूतसमुद्भवम् ॥३६॥समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पवने च षोडश ।महाहवे पष्टिरशीतिर्गोगृहे अनाशके काश्यप चाक्षया गतिः ॥३७॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽनशनमृत गतिनिरूपणं नाम षट्त्रिंशोऽध्यायः References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP