हिंदी सूची|पूजा एवं विधी|नित्यकर्म-विधि:| चाक्षुषोपनिषद् नित्यकर्म-विधि: कर दर्शन प्रात:स्मरण वेदोक्त प्रातःस्मरण सूक्त स्नान की विधि सन्ध्योपासन विधि: तर्पण विधि: सूर्योपस्थान समर्पण नित्य होम विधि: बलिवैश्वदेव विधि: ब्रह्मयज्ञ विधि: संक्षिप्त भोजन विधि: शिवपूजनविधि: विष्णु पूजन विधि: राम पूजनविधि: हनुमत्पूजनविधि: दुर्गापूजनविधि: श्रीविष्णुसहस्रनामस्तोत्रम् शिवमहिम्न: स्तोत्रम् आदित्यहृदयस्तोत्रम् रामरक्षास्तोत्रम् महामृत्युञ्जयस्तोत्रम् अन्नपूर्णास्तोत्रम् चाक्षुषोपनिषद् सप्तश्लोकी दुर्गा सप्तश्लोकी गीता चतु:श्लोकीभागवतम् विधीः - चाक्षुषोपनिषद् जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है । Tags : karmapoojavidhiकर्मपूजाविधीहिन्दी चाक्षुषोपनिषद् Translation - भाषांतर अथ चाक्षुषोपनिषद्ॐ यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विपावहै ।ॐ शान्ति: शान्ति: शान्ति: ।आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम चक्षूरोगनिवृत्तये जन्मान्तरितकृतपापयातयामत्वदोषपरिहारद्वारा अन्धत्वविनाशार्थं दूरद्दष्टिप्राप्तये श्रीसूर्यनारायणप्रीत्यर्थम् उदकाभिमन्त्रणप्राशनपूर्वकं पाठं ( पाठान् ) करिष्ये ।ॐ अथ ह साङ्कृतिर्भगवानादित्यलोकं जगाम । तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् ।ॐ अथातश्चाक्षुषीं पठितां सिद्धां विद्यां चक्षूरोगहरां व्याख्यास्यामो यया चक्षूरोगा: सर्वतो नश्यन्ति चक्षुषो दीप्तिर्भवतीति ।ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्यऋषिर्गायत्री छन्द: श्रीसूर्यो देवता चक्षूरोगनिवृत्तये पाठे (जपे) विनियोग: ।ॐ चक्षुश्च चक्षुश्च चक्षुस्तेज: स्थिरो भव । मां पाहि मां पाहि । त्वरितं चक्षूरोगानू शमय शमय । मम जातरूपं तेजो दर्शय दर्शय ।यथाऽहम् अन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि यानि मम पूर्वजन्मोपार्जितानि चक्षु:-प्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय ।ॐ नम: चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नम: कल्याणकरायामृताय । ॐ नम: श्रीसूर्याय । ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नम: । ॐ खेचराय नम: । ॐ महासेनाय नम: । ॐ महते नम: । ॐ तमसे नम: । ॐ रजसे नम: । ॐ सत्त्वाय नम: । ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरूप: । हंसो भगवाञ्छुचिरूप: ।ॐ विश्वरूपं धृणिं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तम् सहस्ररश्मि: शतधा वर्तमान: पुरुष: प्रजानामुदयत्येष सूर्य: ॥ ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोऽवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुत: श्रीसूर्यनारायण: सुप्रीतोऽब्रवीत् । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवित । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वाऽथ विद्यासिद्धिर्भवति । य एवं वेद स महान् भवतीति ।ॐ वय: सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमाना: ।अप ध्वान्तमूर्णु हि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ॐ पुण्डरीकाक्षाय नम: । ॐ पुष्करेक्षणाय नम: ।ॐ अमलेक्षणाय नम: । ॐ कमलेक्षणाय नम: ।ॐ विश्वरूपाय नम: । ॐ महाविष्णवे नम: ।ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मविद्विषावहै ।ॐ शान्ति: शान्ति: शान्ति: इति चाक्षुषोपनिषत् समाप्त । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP