विधीः - प्रात:स्मरण

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


(१) गणेशजी की स्तुति
प्रात: स्मरामि गणनाथमनाथबन्धुं
सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-
माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥१॥
प्रातर्नमामि चतुराननवन्द्यमान-
मिच्छानुकूलमखिलं च वरं ददानम् ।
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं
पुत्रं विलासचतुरं शिवयो: शिवाय ॥२॥
प्रातर्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं वरकुञ्जरास्यम् ।
अज्ञानकाननविनाशनहव्यवाह-
मुत्साहवर्द्धनमहं सुतमीश्वरस्य ॥३॥
श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।
प्रातरुत्थाय सततं य: पठेत्प्रयत: पुमान् ॥
(सद्धर्मचिन्तामणि)

(२) शिवजी की स्तुति
प्रात: स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्विकेशम् ।
खट्‌वाङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातनमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातनमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं च विकारशून्यं
संसाररोगहरमौषधमद्वितीयम् ॥३॥
प्रात: समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।
ते दुःखजातं बहुजन्मजातं हित्वा पदं यान्ति तदेव शम्भो: ॥४॥
(सद्धर्मचिन्तामणि)

(३) नारायण की स्तुति
प्रात: स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमञ्जनाभम् ।
ग्राहाभिमूतवरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंस: ।
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवणविप्रपरायणस्य ॥२॥
प्रातर्भजामि भजतामभयङ्करं तं
प्राक्‌सर्वजन्मकृतपापभयापहत्यै ।
यो ग्राहवक्त्रपतिताङघ्रिगजेन्द्रधोर-
शोकप्रणाशनकरो धृतशङखचक्र: ॥३॥
श्लोकत्रयमिदं पुण्यं प्रात: प्रात: पठेन्नर: ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरि: ॥४॥
(आचारमयूख)

(४) सूर्य की स्तुति
प्रात: स्मरामि खलु तत्सवितुर्व रेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।
सामानि यस्य किरणा: प्रभवादिहेतुं
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥
प्रातर्नमामि तरणिं तनुवाङञनोभि-
र्ब्रह्मेन्द्रपूर्वकसुरैविवुधैर्नुतमचिंतं च ।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं च ।
तं सर्वलोककलनात्मककालमूर्त्तिं
गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥
श्लोकत्रयमिदं भानो: प्रात: प्रात: पठेत्तु य: ।
स सर्वव्याधिविनिर्मुक्त: परं सुखमवाप्नुयात् ॥४॥
(सद्धर्मचिन्तामणि)

(५) दुर्गा की स्तुति
प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्‌रत्नवन्मकरकुण्डलहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां
रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्ड-
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां
चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥२॥
प्रातर्भजामि भजतामभिलापदात्रीं
धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारवन्धनविमोचनहेतुभूतां
मायां परां समधिगम्य परस्य विष्णो: ॥३॥
श्लोकत्रयमिदं देव्याश्चण्डिकाया: पठेन्नर: ।
सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥४॥
(सद्धर्मचिन्तामणि)

(६) राम की स्तुति
प्रात: स्मरामि रघुनाथमुखारविन्दं
मन्दस्मितं मधुरभाषि विशालभालम् ।
कर्णावलम्बिचलकुण्डलशोभिगण्डं
कर्णान्तदीर्घनयनं नयनाभिरामम् ॥१॥
प्रातर्भजामि रघुनाथकरारविन्दं
रक्षोगणाय भयदं वरदं निजेभ्य: ।
यद्राजसंसदि विभज्य महेशचापं
सीताकरग्रहणमङ्गलमाप सद्य: ॥२॥
प्रातर्नमामि रघुनाथपदारविन्दं
वज्राङ्कशादिशुभरेखि सुखावहं मे ।
योगीन्द्रमानसमधुव्रतसेव्यमानं
शापापहं सपदि गौतमधर्मपत्न्या: ॥३॥
प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि सकलं शमलं निहन्ति ।
यत्पार्वती स्वपतिना सह मोक्षकामा
प्रीत्या सहस्त्रहरिनामसमं जजाप ॥४॥
प्रात: श्रये श्रुतिनुतां रघुनाथमूर्तिं
नीलाम्बुदोत्पलसितेतररत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाढयां
ध्येवां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥५॥
य: श्लोकपञ्चकमिदं प्रयत: पठेद्धि
नित्यं प्रभातसमये पुरुष प्रबुद्ध: ।
श्रीरामकिङ्करजनेषु स एव मुख्यो
भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥६॥
(आह्विककर्मप्रकाश)
(७) ऋषियों की स्तुति
भृगुर्वसिष्ठ: क्रतुरङ्गिराश्च मनु: पुलस्त्य: पुलहश्च गौतम: ।
रेभ्यो मरीचिश्च्यवनश्च दक्ष: कुर्वन्तु सर्वे मम सुप्रभातम् ॥१॥
सनत्कुमार: सनक: सनन्दन: सनातनोऽप्यासुरिपिङ्गलौ च ।
सप्त स्वरा: सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥२॥
सप्तार्णवा: सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।
भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥
पृथ्वी सगन्धा सरसास्तथाप: स्पर्शी च वायुर्ज्वलितं च तेज: ।
नभ: सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्र भातम् ॥४॥
इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा श्रृणुयाच्च तद्वत् ।
दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥५॥

(८) पुण्यश्लोकजनों की स्तुति
पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिर: ।
पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दन: ॥१॥
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।
कृप: परशुरामश्च सप्तैते चिरजीविन: ॥२॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।
जीवेद्वर्षशतं सोऽदी सर्वव्याधिविवजित: ॥३॥
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा ।
पञ्चकं ना-(नर:) स्मरेन्नित्यं महापातकनाशनम् ॥४॥
उमा उषा च वैदेही रमा गङगेति पञ्चकम् ।
प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥५॥
सोमनाथो वैजनाथो धन्वन्तरिरथाश्विनौ ।
पञ्चैतान्य: स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥६॥
हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् ।
पञ्चकं वै स्मरेन्नित्यं घोरसङकटनाशनम् ॥७॥
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।
पञ्चैतान् संस्मरेन्नित्यं भवबाधा विनश्यति ॥८॥
रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपि: ।
पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥९॥
(पद्मपुराण)

(९) नवप्रहों की स्तुति
ब्रह्मा मुरारिस्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम् ॥
(वामनपुराण)

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP