हिंदी सूची|पूजा एवं विधी|नित्यकर्म-विधि:| आदित्यहृदयस्तोत्रम् नित्यकर्म-विधि: कर दर्शन प्रात:स्मरण वेदोक्त प्रातःस्मरण सूक्त स्नान की विधि सन्ध्योपासन विधि: तर्पण विधि: सूर्योपस्थान समर्पण नित्य होम विधि: बलिवैश्वदेव विधि: ब्रह्मयज्ञ विधि: संक्षिप्त भोजन विधि: शिवपूजनविधि: विष्णु पूजन विधि: राम पूजनविधि: हनुमत्पूजनविधि: दुर्गापूजनविधि: श्रीविष्णुसहस्रनामस्तोत्रम् शिवमहिम्न: स्तोत्रम् आदित्यहृदयस्तोत्रम् रामरक्षास्तोत्रम् महामृत्युञ्जयस्तोत्रम् अन्नपूर्णास्तोत्रम् चाक्षुषोपनिषद् सप्तश्लोकी दुर्गा सप्तश्लोकी गीता चतु:श्लोकीभागवतम् विधीः - आदित्यहृदयस्तोत्रम् जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है । Tags : karmapoojavidhiकर्मपूजाविधीहिन्दी आदित्यहृदयस्तोत्रम् Translation - भाषांतर अथ आदित्यहृदयस्तोत्रम् ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो द्दष्ट्वा युद्धाय समुपस्थितम् ॥१॥देवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपागम्याव्रवीद्राममगस्त्यो भगवांस्तदा ॥२॥राम राम महावाहो श्रृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जपावहं जपन्नित्यमक्षयं परमं शिवम् ॥४॥सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥६॥सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: ।एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥७॥एष ब्रह्मा च विष्णुश्च शिव: स्कन्ध: प्रजापति: ।महेन्द्रो धनद: कालो यम: सोमो ह्यपापति: ॥८॥पितरो वसव: साध्या अश्विनौ मरुतो मनु: ।वायुर्वह्नि: प्रजा: प्राण ऋतुकर्ता प्रभाकर: ॥९॥आदित्य: सविता सूर्य: खग: पूषा: गभस्तिमान् ।सुर्वणसद्दशो भानुर्हिरण्यरेता दिवाकर: ॥१०॥हरिदश्व: सहस्रार्चि: सप्तसप्तिर्मरीचिमान् ।तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डर्कोऽशुमान् ॥११॥हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: ।अग्निगर्भोऽदिते: पुत्र: शङ्ख: शिशिरनाशन: ॥१२॥व्योमनाथस्तमोभेदी ऋग्यजु: सामपारग: ।घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गम: ॥१३॥आतपी मण्डली मृत्यु: पिङ्गल: सर्वतापन: ।कविर्विश्वो महातेजारक्त: सर्वभवोद्भव: ॥१४॥नक्षत्रग्रहताराणामधिपो विश्वभावन: ।तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥१५॥नम: पूर्वाय गिरये पश्चिमायाद्रवे नम: ।ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥१६॥जयाय जयभद्राय हर्यश्वाय नमो नम: ।नमो नम: सहस्रांशो आदित्याय नमो नम: ॥१७॥नम: उग्राय वीराय सारङ्गाय नमो नम: ।नम: पद्यप्रवोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥१९॥तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥२०॥तप्तचामीकराभाय हरये विश्वकर्मणे ।नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥नाशयत्येष वै भूतं तमेव सृजति प्रभु: ।पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥२२॥एप सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: ।एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥देवाश्च क्रतवश्चैष क्रतूनां फलमेव च ।यानि कृत्यानि लोकेषु सर्वेषु परमप्रभु: ॥२४॥एवमापत्सु कृच्छेषु कान्तारेषु भयेषु च ।कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥२५॥पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति ॥२६॥अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥एतच्छुत्वा महातेजा नष्टशोकोऽभवत्तदा ।धारयामास सुप्रीतो राघव: प्रयतात्मवान् ॥२८॥आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत् ।सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥३०॥अथरविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्तरेति ॥३१॥इति वाल्मीकीयरामायणोक्तं आदित्यहृदयस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP