कार्तिकमास: - भैरवपूजनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ कार्तिककृष्णाष्टम्यां भैरवपूजनविधि: ॥

अष्टमी प्रदोषव्यापिनी ग्राह्या । दिनद्वये चेत्पुर्वा । मध्याह्नव्यापिनीति केचित् । अस्यां उपोषणं भैरवपूजनं जागरणं च कार्यम् । मध्याह्ने कालोदकतीर्थं स्नात्वा, पितृन् सन्तर्प्य, पूजां कुर्यात् । आचम्य देश० मम वार्षिकोत्पन्नविघ्नविनाशनार्थं श्रीकालभैरवप्रीत्यर्थं  यथामिलितद्रव्यै: पूजनमहं करिष्ये । क्षेत्रस्यप० श्रीकालभैरवाय नम इति नाममन्त्रेण यथासम्भारविस्तरै: पूजनं कार्यम् । यस्य स्मृ० । अनेन पूजनेन श्रीकालभैरव: प्रीयताम् ॥

तत: नवम्यां भैरवाय अष्टौ वटकान् महानैवेद्यं च समर्प्य, अष्टौ ब्राह्मणान् मिष्टान्नेन भोजयित्वा, यथाशक्त्या विशिष्टदक्षिणया ताम्बूलादिना च सन्तोष्य, सुह्णद्युतो भुञ्जीत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP