संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ कार्तिकमास:| गोवर्धनसहितगोपालपूजाविधि: अथ कार्तिकमास: गोवर्धनसहितगोपालपूजाविधि: भातृभोजनविधि: कृष्माण्डदानविधि: विष्णुप्रबोधोत्सवविधि: शायितलक्ष्मीसहितविष्णुप्रतिमादानविधि: चातुर्मास्यनियमव्रतसमाप्तिप्रकार: विष्णुप्रबोधोत्सवतुलसीविवाहविधि: विष्णुशिवपूजनविधि: दीपदानविधि: त्रिपुरोत्सवविधि: भैरवपूजनविधि: कार्तिकमास: - गोवर्धनसहितगोपालपूजाविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत गोवर्धनसहितगोपालपूजाविधि: Translation - भाषांतर ॥ शुक्लप्रतिपदि गोवर्धनसहितगोपालपूजाविधि: ॥प्रतिपत् यदि दशमुहूर्ता तदा तस्यामेव सर्वाणि कार्याणि कर्तव्यानि । ततो न्य़ूने पूर्वत्रैव । पात: अभ्यङ्गपूर्वकं मङ्गलस्नानं विधाय, सुवासिनीभि: नीराजनं कारयित्वा, नववस्त्राणि अलङ्कारांश्च धृत्वा, गोमयेन अन्नकूटेन वा गोवर्धनं कृत्वा, तत्सहितगोपालपूजनं गोबलीवर्दपूजनं च कार्यम् । आचम्य, देश० मम गोकोटिप्राप्तिद्वारा श्रीगोपालप्रीत्यर्थं यथामिलितषोडशोपचारद्रव्यै: गोवर्धनसहितगोपालपूजनं गोबलीवर्दपूजनं च करिष्ये । गणपतिपूजनादिप्रोक्षणान्त विधाय, गोवर्द्धनसहितश्रीगोपालाय नम:, गवे नम:, बलीवर्दाय नम: इति नाममन्त्रै: आवाहनादिषोडशोपचारै: सम्पूज्य, महानैवेद्यं समर्प्य, प्रार्थयेत्-गोपालमृर्ते विश्वेश शक्रोत्सवविभेदक । गोवर्धनकृतच्छत्र पूजां मे हर गोपते ॥ गोवर्धनधराधार गोकुलत्राणकारण । बहुबाहुकृतच्छाय गवां कोटिप्रदो भव ॥ गां प्रार्थयेत्-लक्ष्मीर्या लोकपालानां धेनुरुपेण संस्थिता । घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ॥ अग्रत: सन्तु मे गावो गावो मे सन्तु पृष्ठत: । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ यस्प स्मृ० । अनेन पूजनेन श्रीगोपाल: प्रीयताम् ॥तद्दिने गा: भूषयित्वा ताभ्य: तृणदिकं दद्यात् । दोहनभारवाहनादिकं वर्जयेत् । अत्र प्रात: सर्वैर्जनै: द्यूतं कार्यम् । तत्र यस्य जय: स्यात् तस्य संवत्सरं जयो ज्ञेय: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP