संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ कार्तिकमास:| विष्णुप्रबोधोत्सवविधि: अथ कार्तिकमास: गोवर्धनसहितगोपालपूजाविधि: भातृभोजनविधि: कृष्माण्डदानविधि: विष्णुप्रबोधोत्सवविधि: शायितलक्ष्मीसहितविष्णुप्रतिमादानविधि: चातुर्मास्यनियमव्रतसमाप्तिप्रकार: विष्णुप्रबोधोत्सवतुलसीविवाहविधि: विष्णुशिवपूजनविधि: दीपदानविधि: त्रिपुरोत्सवविधि: भैरवपूजनविधि: कार्तिकमास: - विष्णुप्रबोधोत्सवविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत विष्णुप्रबोधोत्सवविधि: Translation - भाषांतर ॥ विष्णुप्रबोधोत्सवविधि: ॥स च एकादश्यां द्वादश्यां वा, पूर्वरात्रौ दिवा वा कार्य: । आचम्य देशकालौ स्मृत्वा, मम महापातकाद्यशेषपापनिवृत्तिपूर्वकश्रीमहाविष्णुप्रसादसिद्धिद्वरा श्रीपरमेश्वरप्रीत्यर्थं कृतविष्णुशयनोत्सवाङ्गभूतं कार्तिकशुक्लैकादश्यां विष्णुपबोधोत्सवं करिष्ये । तदङ्गत्वेन महाविष्णुपूजनं करिष्ये । देवं विविधोपचारै: सम्पूज्य, यथासम्भववीणदिमङ्गलवाद्यगीतघण्टावादनादिभि: देवं प्रबोधयेत् । तत्र मन्त्रा:- योजागारत० ऋ० २ । इदं विष्णुर्वि०सुरे । ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्यसोमादिभिर्वन्दितवन्दनीय । बुध्यस्व देवेश जगन्निवास मन्त्रप्रभावेण सुखेन देव ॥ इयं तु द्वादशी देव प्रबोधार्थं विनिर्मिता । त्वयैव सर्वलोकानां हितार्थं शेषशायिना ॥ उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ॥ त्वयि सुप्ते जगन्नाथ जगत्सुसं भवेदिदम् । उत्थिते चेष्टते सर्वमुत्तिष्ठोत्तिष्ठ माधव ॥ एवं उत्थाप्य, चरणं पवि० । गता मेघा वियच्चैव निर्मलं निर्मला दिश: । शारदानि च पुष्पाणि गृहाण मम केशव ॥ पुष्पाञ्जलिं दद्यात् । आवाहनं न० । अनेन विष्णुप्रबोधोत्सवाख्येन कर्मण तेन श्रीभगवान् महाविष्णु: प्रीयताम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP