संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ कार्तिकमास:| भातृभोजनविधि: अथ कार्तिकमास: गोवर्धनसहितगोपालपूजाविधि: भातृभोजनविधि: कृष्माण्डदानविधि: विष्णुप्रबोधोत्सवविधि: शायितलक्ष्मीसहितविष्णुप्रतिमादानविधि: चातुर्मास्यनियमव्रतसमाप्तिप्रकार: विष्णुप्रबोधोत्सवतुलसीविवाहविधि: विष्णुशिवपूजनविधि: दीपदानविधि: त्रिपुरोत्सवविधि: भैरवपूजनविधि: कार्तिकमास: - भातृभोजनविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत भातृभोजनविधि: Translation - भाषांतर ॥ शुक्लद्वितीयायां भातृभोजनविधि: ॥द्वितीया च अपराह्णव्यापिनी मध्याह्नव्यापिनी वा ग्राह्या । उभयदिनव्याप्तौ प्रतिपद्युता ग्राह्या । अस्यां आत्रा भगिन्या च यमचित्रगुप्तयमदूतपूजनं, अर्ध्यदानं, भगिन्यै वस्त्रालङ्कारादिदानं, तद्धस्तभोजनं च कार्यम् ॥ ॥ अथ विधि: ॥ आचम्य देश० मम आत्मन: यमलोकगमनावष्टम्भकफलसुखधनधान्यादि प्राप्त्यर्थं श्रीयमचित्रगुप्तयमदूतप्रीत्यर्थं यथामिलितोपचारद्रव्यै: पूजनमहं करिष्ये । गणपतिपूजनादि कृत्वा महीद्यौरित्यादिना कलशस्थापनादिपूर्णपात्रनिधानान्तं कृत्वा तदुपरि लोहमयीषु तिसृषु प्रतिमासु पूगफलेषु वा अग्न्युत्तारणप्राणप्रतिष्ठापूर्वंक व्याहृतिसहितनाममन्त्रै: देवता आवाहयेत् । ॐ भूर्भुव:० यमाय नम: यमं आवाहयामि ।ॐ भूर्भुव:० चित्रगुप्ताय नम: चित्रगुप्तं आ० ।ॐ भूर्भुव:० यमदूतेभ्यो नम: यमदूतान् आवाहयामि । तदस्तु० गृहावै० । ॐ भू० यमाद्यावाहितदेवताभ्यो नम: इति मन्त्रेण षोडशोपचारै: सम्पूज्य, तत: पात्रे गन्धाक्षतपुष्पफलहिरण्योदकं निधाय विशेषार्ध्यां दद्यात् । एह्येहि मार्तण्डज पाशहस्त यमान्तकालोकधरामरेश । भ्रातृद्वितीयाकृतदेवपूजां गृहाण चार्ध्यं भगवन्नमस्ते ॥ श्रीयमादिदेवताभ्यो नम: इदं विशेषार्ध्यं स० । ततो धर्मराजं प्रणमेत्-धर्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज । पाहि मां किङ्करै: सार्धं सूर्यपुत्र नमोऽस्तुते ॥ तत: यमुनां नमेत् यमस्वसर्नमस्तेऽस्तु यमुने लोकपूजिते । वरदा भव मे नित्यं सूर्यपुत्रि नमोऽस्तु ते ॥ आवाहनं० । यस्य स्मृ० । अनेन पू० श्रीयमाद्यावाहितदेवता: प्रीयन्ताम् ॥अस्यां स्वगृहे न भोक्तव्यम् । भगिनीहस्तात् अवश्यं भोक्तव्यम् । तां खर्णलङ्कारवस्त्रादिना पूजयेत् । स्वभगिन्यभावे मित्रभगिन्येव पूज्या । भ्रातुर्भोजने मन्त्र:भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् । प्रीतये यमराजस्य यमुनाया विशेषत: ॥ ज्येष्ठा तु, भ्रातस्तवाग्रजाताहमिति पठेत् । भगिनीभिरपि भ्रातर: ताम्बूलवस्त्रालङ्कारादिभि: पूज्या: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP