संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय १ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय १ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय १ Translation - भाषांतर शशिकलाकलितं हि शुभाननं शिवनिधानमथो ऋषिपूजितम् ।जननपालनसंहरणात्मकं हरिहरं प्रथमं प्रणमाम्यहम् ॥१॥कुमुदकुन्दसिताम्बरधारिणीं विमलमौक्तिकहारसुशोभिताम् ।सकलसिद्धगणैरपि सेवितां अहरहः प्रणमामि च शारदाम् ॥२॥वदनकुंजरं अभ्रदलद्युतिं त्रिनयनं च चतुर्भुजवामनम् ।कनकरत्नसुशोभितशेखरं गणपतिं प्रथमं प्रणमाम्यहम् ॥३॥गिरिशधाम सदा महदद्भुतं सकलरोगविघातकरं परम् ।सकलसिद्धिसमूहविशारदं प्रणतपापहरं भवपारदम् ॥४॥प्रथमं पारदोत्पत्तिं कथयामि यथातथम् ।ततः शोधनकं तस्य तथाष्टादश कर्म च ॥५॥चतुर्धा बंधविज्ञानं भस्मत्वं सूतकस्य च ।धातूनां शोधनं चैव मारणं गुणवर्णनम् ॥६॥अष्टौ महारसाः सम्यक्प्रोच्यन्तेऽत्र मया खलु ।तथा चोपरसानां हि गुणाः शोधनमारणम् ॥७॥द्रुतिपातं च सर्वेषां कथयामि सविस्तरम् ।रत्नानां गुणदोषश्च तथा शोधनमारणम् ॥८॥क्रामणं रंजनं चैव द्रुतिमेलानकं रसे ।रसांश्च शतसंख्याकान्कथयामि सविस्तरात् ॥९॥औषधीनां समाख्याता भेदाश्चत्वार एव च ।दिव्यौषध्यो रसौषध्यः सिद्धौषध्यस्तथा पराः ॥१०॥महौषध्य इति प्रोक्ता यंत्राण्यथ पुटानि च ।मूषाश्चैव हि धातूनां कौतुकानि समासतः ॥११॥वाजीकरणयोगाश्च शुक्ररतंभकरास्त ।नातिसंक्षेपविस्तारात्ग्रंथेऽस्मिन्परिकल्पिताः ॥१२॥-सूतोत्पत्ति हिमालयात्पश्चिमदिग्विभागे गिरीन्द्रनामा रुचिरोऽस्ति भूधरः ।तत्सन्निधानेऽतिसुवृत्तकूपे साक्षाद्रसेंद्रो निवसत्ययं हि ॥१३॥कुमारिकारूपगुणेन युक्ता स्वलंकृता वाहवरेऽधिरूढा ।तत्रागता कूपमवेक्षमाणा निवर्तिता सा महता जवेन ॥१४॥प्रधावितः सूतवरश्चतुर्षु ककुप्सु भूमौ पतितो हि नूनम् ॥१५॥परितः पर्वतात्सम्यक्क्षेत्रं द्वादशयोजनम् ।विस्तीर्णं च सुवृत्तं हि सूतकस्य समीरितम् ॥१६॥तन्मृदः पातने यंत्रे पातितः खलु रोगहा ।जायते रुचिरः साक्षादुच्यते पारदः स्वयम् ॥१७॥कूपाद्विनिःसृतः सूतश्चतुर्दिक्षु गतो द्विजः ।क्षत्रियो वैश्यशूद्रौ च चतुर्णां जायते खलु ॥१८॥श्वेता कृष्णा तथा पीता रक्ता वै जायते छविः ।प्राच्यां याम्यां प्रतीच्यां च कौबेर्यां च दिशि क्रमात् ॥१९॥श्वेतः श्वेतविधाने स्यात्कृष्णो देहकरस्तथा ।पीतवर्णः स्वर्णकर्ता रक्तो रोगविनाशकृत् ॥२०॥सर्व एकीकृता एव सर्वकार्यकराः सदा ।सेविताः सर्वरोगघ्नाः सर्वसिद्धिविधायकाः ॥२१॥इत्थं सूतोद्भवं ज्ञात्वा न रोगैवार्ध्यते खलु ।शोधितो मारितश्चैव क्रामितः सारितः शुभः ॥२२॥-पारद्ना आठ्संस्कारथवा कर्म्-स्वेदनं मर्दनं चैव मूर्च्छनं स्यात्तदुत्थितम् ।पातनं रोधनं सम्यक्नियामनसुदीपने ॥२३॥तथाभ्रकग्रासमान चारणं च क्रमेण हि ।गर्भद्रुतिर्बाह्यद्रुतिः प्रोक्तं जारणकं तथा ॥२४॥सारणं क्रामणं प्रोक्तं वेधकर्म च रंजनम् ।सेवनं पारदस्याथ कर्माण्यष्टादशैव हि ।उद्देशतो मयात्रैव नामानि कथितानि वै ॥२५॥-पारददोषाः-दोषाः पञ्च समुद्दिष्टाः पारदानां भिषग्वरैः ।मलो विषं तथा वह्निर्मदो दर्पश्च वै क्रमात् ।मूर्च्छां मृत्युं मदं चैव स्फोटं कुर्युः शिरोभ्रमम् ॥२६॥-पारदकञ्चुकाः-कञ्चुकाः सप्त सूतस्य कथयामि यथार्थतः ।नामानि कथयाम्येषां देवीशास्त्रानुसारतः ॥२७॥मृच्छैलजलशुल्बायो नागवंगसमुद्भवाः ।सूतके कंचुकाः सप्त ततश्चैव विषोपमाः ॥२८॥-मेर्चुर्यःः उसे ओफ़् शोधन-द्वादशैव हि दोषाः स्युर्यैश्च निष्कासिता द्विजैः ।तेषां हि रससिद्धिः स्यादपरे यमसन्निभाः ।तस्माद्दोषापहरणं कर्तव्यं भिषगुत्तमैः ॥२९॥-स्वेदन-तत्र स्वेदनकं कुर्याद्यथावच्च शुभे दिने ।सूतस्य स्वेदनं कार्यं दोलायंत्रेण वार्तिकैः ॥३०॥क्षारौ चाम्लेन सहितौ तथा च पटुपंचकम् ।त्रिकटु त्रिफला चैव चित्रकेण समन्विता ॥३१॥पुष्पकासीससौराष्ट्र्यौ सर्वाण्येव तु मर्दयेत् ।ओषधानि समांशानि रसादष्टमभागतः ॥३२॥कृत्वान्धमूषां तेषां तु तन्मध्ये पारदं क्षिपेत् ।त्रिगुणेन सुवस्त्रेण भूर्जपत्रेण वेष्टयेत् ॥३३॥गुणेन काष्ठखण्डे वै बद्धां तु रसपोटलीम् ।लम्बायमानां भाण्डे तु तुषवारिप्रपूरिते ॥३४॥त्रिदिनं स्वेदयेत्सम्यक्स्वेदनं तदुदीरितम् ॥३५॥-२- मर्दन-अथ मर्दनकं कर्म येन शुद्धतमो रसः ।प्रजायते विस्तरेण कथयामि यथातथम् ॥३६॥खल्वे विमर्दयेत्सूतं दिनानि त्रीणि चैव हि ।अथ खल्वप्रमाणं हि वक्ष्ये तत्र मयाधुना ॥३७॥कलांगुलस्तदायामश्चोत्सेधोऽपि नवांगुलः ।विस्तरेण तथा कुर्यान्निम्नत्वेन षडङ्गुलम् ॥३८॥द्व्यंगुलः पृष्ठविस्तारो मध्येऽतिमसृणीकृतः ।अर्धचन्द्राकृतिश्चापि मर्दकोऽत्र दशांगुलः ॥३९॥सूतः पञ्चपलस्तस्मिन्मर्दयेत्काञ्जिकैस्त्र्यहम् ।बहिर्मलविनाशाय रसराजं तु निश्चितम् ॥४०॥उष्णकांजिकतोयेन क्षालयेत्तदनन्तरम् ॥४१॥-३- मूर्छन-अतःपरं प्रवक्ष्यामि पारदस्य तु मूर्च्छनम् ।मूर्च्छनं दोषरहितं सप्तकञ्चुकनाशनम् ॥४२॥स्वर्जिका यावशूकश्च तथा च पटुपंचकम् ।अम्लौषधानि सर्वाणि सूतेन सह मर्दयेत् ॥४३॥खल्वे दिनत्रयं तावद्यावन्नष्टत्वं आप्नुयात् ।स्वरूपस्य विनाशेन मूर्च्छनं तदिहोच्यते ।निर्मलत्वं अवाप्नोति ग्रन्थिभेदश्च जायते ॥४४॥-४- उत्थापन-अथोत्थापनकं कर्म पारदस्य भिषग्वरैः ।करणीयं प्रयत्नेन रसशास्त्रस्य वर्त्मना ॥४५॥दोलायंत्रे ततः स्वेद्यः पूर्ववद्दिवसत्रयम् ।सूर्यातपे मर्दितोऽसौ दिनमेकं शिलातले ।उत्थापनं भवेत्सम्यक्मूर्छादोषविनाशनम् ॥४६॥-५- पातन-पातनं हि महत्कर्म कथयामि सुविस्तरम् ।त्रिधा पातनमित्युक्तं रसदोषविनाशनम् ॥४७॥ऊर्ध्वपातस्त्वधःपातस्तिर्यक्पातः क्रमेण हि ।-ऊर्ध्वपातनयन्त्र-ऊर्ध्वपातनयंत्रस्य लक्षणं तदिहोच्यते ।मृण्मयी स्थालिका कार्या चोच्छ्रिता तु षडंगुला ॥४८॥मुखे सप्ताङ्गुलायामा परितस्त्रिदशांगुला ।इयन्माना द्वितीया च कर्तव्या स्थालिका शुभा ॥४९॥क्षारद्वयं रामठं च तथा हि पटुपञ्चकम् ।अम्लवर्गेण संयुक्तं सूतकं तैस्तु मर्दयेत् ॥५०॥लेपयेत्तेन कल्केन अधःस्थां स्थालिकां शुभाम् ।उपरिस्थां अधोवक्त्रां दत्त्वा संपुटमाचरेत् ॥५१॥सभस्मलवणेनैव मुद्रां तत्र प्रकारयेत् ।चुल्यां स्थालीं निवेश्याथ धान्याग्निं तत्र कारयेत् ॥५२॥तस्योपरि जलाधानं कार्यं यामचतुष्टयम् ।स्वाङ्गशीतलतां ज्ञात्वा ऊर्ध्वंगं ग्राहयेद्रसम् ॥५३॥ऊर्ध्वपातनयंत्रं हि तदेवं परिकीर्तितम् ।-५-२- अधःपातन-पूर्वोक्तां स्थालिकां सम्यक्विपरीतां तु पंकिले ।गर्ते तु स्थापितां भूमौ ज्वालयेन्मूर्ध्नि पावकम् ॥५४॥यामत्रितयपर्यंतं अधः पतति पारदः ।अधःपातनयंत्रं हि कीर्तितं रसवेदिभिः ॥५५॥-५-३- तिर्यक्पातन-पूर्वोक्तैरौषधैः सार्धं रसराजं विमर्दयेत् ।तिर्यग्घटे रसं क्षिप्त्वा तन्मुखे ह्यपरो घटः ॥५६॥कनीयानुदरे छिद्रं छिद्रे चायसनालिकाम् ।नालिकां जलपात्रस्थां कारयेच्च भिषग्वरैः ॥५७॥अधस्ताद्रसयंत्रस्य तीव्राग्निं ज्वालयेद्बुधः ।यामत्रितयपर्यंतं तिर्यक्पातो भवेद्रसः ॥५८॥यंत्राणां पातनानां च त्रितयं सुकरं खलु ॥५९॥कथितं हि मया सम्यक्रसागमनिदर्शनात् ॥६०॥-६- रोधन-अधुना कथयिष्यामि रसरोधनकर्म च ।यत्कृते च पलत्वं हि रसराजस्य शाम्यति ॥६१॥सिन्धूद्भवं दशपलं जलप्रस्थत्रयं तथा ।धारयेद्घटमध्ये च सूतकं दोषवर्जितम् ॥६२॥पिधानेन यथा सम्यक्मुद्रितं मृत्स्नया खलु ।निर्वाते निर्जने देशे धारयेद्दिवसत्रयम् ॥६३॥अनेनैव प्रकारेण रोधनं कुरु वैद्यराट् ॥६४॥-७- नियामन-अतःपरं प्रवक्ष्यामि पारदस्य नियामनम् ।जलसैंधवसंयुक्तो घटस्थो हि रसोत्तमः ।दिनत्रयं स्वेदितश्च वीर्यवानपि जायते ॥६५॥-८- दीपन-अथेदानीं प्रवक्ष्यामि रसराजस्य दीपनम् ।बुभुक्षा व्यापकत्वं च येन कृत्वा प्रजायते ॥६६॥राजिका लवणोपेता मरिचं शिग्रुटंकणे ।कासीससंयुता कांक्षी कांजिकेन समन्वितैः ॥६७॥दिनानि त्रीणि संस्वेद्य पश्चात्क्षारेण मर्दयेत् ।अनेनैव प्रकारेण दीपनं जायते ध्रुवम् ॥६८॥तीव्रत्वं वेगकारित्वं व्यापकत्वं बुभुक्षुता ।बलवत्त्वं विशेषेण कृते सम्यक्प्रजायते ॥६९॥-८-१- दीपनः मुखोत्पादन-मुखोत्पादनकं कर्म प्रकारो दीपनस्य हि ।कथयामि समासेन यथावद्रसशोधनम् ॥७०॥अष्टादशांशभागेन कनकेन च सूतकः ।निम्बूरसेन संमर्द्यो वासरैकमतःपरम् ॥७१॥क्षारैश्च लवणै रम्यैः स्वेदितः कांजिकेन हि ।क्षालिते कांजिकेनैव वक्त्रं भोक्तुं प्रजायते ॥७२॥-८-२- दीपनः मुखोत्पादन (२)-ताप्यसत्वं कलांशेन हेम्ना तद्द्विगुणेन च ।तप्तं आयसखल्वेन तप्तेनाथ प्रमर्दयेत् ॥७३॥व्यक्तं हि रसचुक्रेण क्षारेण चणकस्य हि ।जंबीरपूरकजलैर्मर्दयेदेकविंशतिम् ॥७४॥वासरे याममेकं तु प्रत्येकं हि विमर्दयेत् ।यातुधानमुखं सम्यक्यात्येव हि न संशयः ॥७५॥द्वितीयो दीपनस्यैवं प्रकारः कथितो मया ।सूतस्याष्टौ च संस्काराः कथिता देहकर्मणि ॥७६॥तथा च दश कर्माणि देहलोहकराणि हि ॥७७॥-९- ग्रासमान-अथेदानीं प्रवक्ष्यामि भक्षणं चाभ्रकस्य हि ।करोटिविधिना सम्यक्कर्तव्यं लोहसंपुटम् ॥७८॥जलयंत्रस्य योगेन विडेन सहितो रसः ।भक्षयत्येव चाभ्रस्य कवलानि न संशयः ॥७९॥-जलयन्त्र-अतो हि जलयंत्रस्य लक्षणं कथ्यते मया ।सुवृत्तं लोहपात्रं च जलं तत्राढकत्रयम् ॥८०॥तन्मध्ये सुदृढं सम्यक्कर्तव्यं लोहसंपुटम् ।लोहसंपुटमध्ये तु निक्षिप्तं शुद्धपारदम् ॥८१॥बिडेन सहितं चैव षोडशांशेन यत्नतः ।चतुःषष्ट्यंशकं चाभ्र सत्त्वं संपुटके तथा ॥८२॥संपुटं मुद्रयेत्पश्चात्दृढया तोयमृत्स्नया ।वह्निमृत्तिकया वापि संधिरोधं तु कारयेत् ॥८३॥चुल्यां निवेश्य तं यंत्रं जलेनोष्णेन पूरितम् ।क्रमादग्निः प्रकर्तव्यो दिवसार्धकमेव हि ॥८४॥एवं कृते ग्रासमानं भक्षयेन्नात्र संशयः ।अनेनैव प्रकारेण षड्ग्रासं भक्षयेद्ध्रुवम् ॥८५॥भक्षिते चाभ्रसत्त्वे तु सर्वकार्येषु सिद्धिदः ।-विडमान-मानं मानविहीनेन कर्तुं केन न शक्यते ॥८६॥तस्मान्मया मानकर्म कथितव्यं यथोदितम् ।चतुःषष्ट्यंशतो बीजं पारदान्मुखकारकम् ॥८७॥पश्चाद्द्वात्रिंशभागेन दातव्यं बीजमुत्तमम् ।ततःषोडशभागेन बीजस्य कवलं न्यसेत् ॥८८॥रसादष्टमभागेन दातव्यं भिषगुत्तमैः ।चतुर्थेनाथ भागेन ग्रास एवं प्रदीयते ॥८९॥तथा च समभागेन ग्रासेनैव च साधयेत् ।बिडेन षोडशांशेन क्षुधितो जायते रसः ॥९०॥यदा जीर्णो भवेद्ग्रासः पातितश्च विडेन हि ॥९१॥-बिड-कासीससिन्धुलवण सौवर्चलसुराष्ट्रिकाः ।गंधकेन समं कृत्वा विडोऽयं वह्निकृद्भवेत् ॥९२॥-१०- चारण-अथ गर्भद्रुतेः कर्म चारणं गुणवर्धनम् ।कथयामि यथातथ्यं रसराजस्य सिद्धिदम् ॥९३॥ताप्यसत्वाभ्रसत्त्वं च घोषाकृष्टं च ताम्रकम् ।समभागानि सर्वाणि ध्मापयेत्खदिराग्निना ॥९४॥भस्त्रिकाद्वितयेनैव यावदभ्रकशेषकम् ।तदभ्रसत्वं सूतस्य चारयेत्समभागिकम् ॥९५॥-११- गर्भद्रुति-अनेनैव प्रकारेण त्रिगुणं जारणं रसे ।गर्भद्रुतेर्जारणं हि कथितं भिषगुत्तमैः ॥९६॥-१२- बाह्यद्रुति-बाह्यद्रुतिविधानं हि कथ्यते गुरुमार्गतः ।अभ्रसत्वं हि मूषायां वज्रवल्लीरसेन हि ॥९७॥सौवर्चलेन संध्मातं रसरूपं प्रजायते ।अभ्रद्रुतेश्च सूतस्य समांशैर्मेलनं कृतम् ॥९८॥तेन बन्धत्वमायाति बाह्या सा कथ्यते द्रुतिः ।बाह्यद्रुतिक्रियाकर्म शिवभक्त्या हि सिध्यति ॥९९॥गुरोः प्रसादात्सततं महाभैरवपूजनात् ।शिवयोरर्चनादेव बाह्यगा सिध्यति द्रुतिः ॥१००॥-१३- जारण-अथ जारणकं कर्म कथयामि सुविस्तरम् ।अभ्रकं ताप्यसत्वं च समं कृत्वा तु संधमेत् ॥१०१॥अभ्रशेषं कृतं यच्च तत्सत्वं जारयेद्रसे ।एवं पूतिद्वयेनैव घनसत्वं हि साधयेत् ॥१०२॥धातुवादविधानेन लोहकृत्देहकृन्न हि ।गजवंगौ महाघोरावसेव्यौ हि निरन्तरम् ॥१०३॥साधितं घनसत्वं तद्रेतितं रजःसन्निभम् ।बुभुक्षितरसस्यास्ये निक्षिप्तं वल्लमात्रकम् ॥१०४॥रसो गद्याणकस्यापि तुर्यभागः प्रकीर्तितः ।ताम्रपात्रस्थमम्लं वै सैंधवेन समन्वितम् ॥१०५॥क्षीरेण सहितं वापि प्रहितं द्विदिनावधि ।जातं तुत्थसमं नीलं कल्कं तत्प्रोच्यते बुधैः ॥१०६॥कल्केनानेन सहितं सूतकं च विमर्दयेत् ।दिनत्रयं तप्तखल्वे धौतः पश्चाच्च कांजिकैः ॥१०७॥स्थापयेत्कांस्यपात्रे तु तदूर्ध्वाधो विडं न्यसेत् ।रसस्याष्टमभागेन संपुटं कारयेत्ततः ॥१०८॥भूर्जपत्रैर्मुखं रुद्ध्वा सूत्रेणैव तु वेष्टयेत् ।संपुटं वाससावेष्ट्य दोलायां स्वेदयेत्ततः ॥१०९॥गोमूत्रेणाम्लवर्गेण कांजिकेन दिनं दिनम् ।अश्मपात्रेऽथ लोहस्य पात्रे काचमयेऽथवा ॥११०॥उष्णकांजिकतोयेन क्षालयित्वा रसं ततः ।दृढे चतुर्गुणे वस्त्रे क्षिप्त्वाधः पीडनाद्रसः ॥१११॥निपतत्यन्यपात्रे तु सर्वोऽपि यदि पारदः ।तदाभ्रं जारितं सम्यक्दण्डधारी भवेद्रसः ॥११२॥ग्रासमाने पुनर्देयं अभ्रबीजमनुत्तमम् ।अष्टग्रासेन सर्वं हि जारयेद्गुरुमार्गतः ॥११३॥एवं कृते समं चाभ्रं सूतके जीर्यति ध्रुवम् ।स्वहस्तेन कृतं सम्यक्जारणं न श्रुतं मया ॥११४॥-मेर्चुर्यःः "अगे" अच्चोर्दिन्ग्तो जारण-समाभ्रे जारिते सम्यक्दण्डधारी भवेद्रसः ।बालश्च कथ्यते सोऽपि किंचित्कार्यकरो भवेत् ॥११५॥द्विगुणे त्रिगुणे चैव कथ्यतेऽत्र मया खलु ।चतुर्गुणेऽभ्रके जीर्णे किशोरः कथ्यते मया ॥११६॥जीर्णे पञ्चगुणे चाभ्रे युवा चैव रसोत्तमः ।षड्गुणे जारिते त्वभ्रे वृद्धश्चैव रसोत्तमः ॥११७॥सप्ताष्टगुणिते चाभ्र सत्वे जीर्णेऽतिवृद्धकः ।सर्वसिद्धिकरः सोऽयं पारदः पारदः स्वयम् ॥११८॥अनेनैव प्रकारेण सर्वलोहानि जारयेत् ॥११९॥-१४- सारण-अथेदानीं प्रवक्ष्यामि वेधवृद्धेश्च कारणम् ।महासिद्धिकरं यत्स्यात्सारणं सर्वकर्मणाम् ॥१२०॥धूर्तपुष्पसमाकारा मूषाष्टाङ्गुलदीर्घिका ।मुखे सुविस्तृता कार्या चतुरंगुलसंमिता ॥१२१॥मृण्मया सापि शुष्का च मध्येऽतिमसृणीकृता ।अन्या पिधानिका मूषा सुनिम्ना छिद्रसंयुता ॥१२२॥शुद्धं सुजारितं सूतं मूषामध्ये निधापयेत् ।-सारणातैल-मत्स्यकच्छपमण्डूक जलौकामेषसूकराः ॥१२३॥एकीकृत्य वसामेषां एवं तैलं तु सारणम् ।भूनागविट्तथा क्षौद्रं वायसानां पुरीषकम् ॥१२४॥तथैव शलभादीनां महिषीकर्णयोर्मलम् ।रसस्य षोडशांशेन चैतेषां कल्कमादिशेत् ॥१२५॥पटेन गालितं कृत्वा तैलमध्ये नियोजयेत् ।-सारणा सारणार्थे कृतं तैलं तस्मिन्तैले सुपाचयेत् ॥१२६॥बीजं च कल्कमिश्रं हि कृत्वा मूषोपरि न्यसेत् ।पिधानेन द्वितीयेन मूषावक्त्रं निरुन्धयेत् ॥१२७॥भस्मना लवणेनैव मूषायुग्मं तु मुद्रयेत् ।मूषिकायास्त्रिभागं हि खनित्वा वसुधां क्षिपेत् ॥१२८॥तदूर्ध्वं ध्मापयेत्सम्यक्दृढांगारैः खराग्निना ।एवं संजारितं बीजं रसमध्ये पतत्यलम् ॥१२९॥बन्धमायाति सूतेन्द्रः सारितो गुणवान्भवेत् ।प्रथमं जारितश्चैव सारितः सर्वसिद्धिदः ॥१३०॥नो जारितः सारितश्च कथं बन्धकरो भवेत् ।गुरूपदेशतो दृष्टं सारणं कर्म चोत्तमम् ॥१३१॥हस्तानुभवयोगेन कृतं सम्यक्श्रुतं नहि ॥१३२॥-१५- क्रामण-अथ क्रामणकं कर्म पारदस्य निगद्यते ।शास्त्रात्कृतं न दृष्टं हि यथावत्क्रामयेद्रसम् ॥१३३॥कर्णमलं महिषीणां स्त्रीदुग्धं टंकणेन सम्मिश्रम् ।एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेच्च दिनम् ॥१३४॥विषं च दरदश्चैव रसको रक्तकान्तकौ ।इन्द्रगोपश्च तुवरी माक्षिकं काकविट्तथा ॥१३५॥कल्कमेतदधोर्ध्वं हि मध्ये सूतं निधापयेत् ।काचचूर्णं ततो दत्त्वा चान्धमूषागतं धमेत् ॥१३६॥अनेन क्रामणेनैव पारदः क्रमते क्षणात् ।इदं क्रामणकं श्रेष्ठं नन्दिराजेन भाषितम् ॥१३७॥ताप्यसत्त्वं तथा नागं शुद्धं क्रामणकं तथा ।बीजानि पारदस्यापि क्रमते च न संशयः ॥१३८॥-१६- वेधन-अथ वेधविधानं हि कथयामि सुविस्तरम् ।येन विज्ञातमात्रेण वेधज्ञो जायते नरः ॥१३९॥धूर्ततैलमहेःफेनं कंगुणीतैलमेव च ।भृङ्गीतैलं विषं चैव तैलं जातीफलोद्भवम् ॥१४०॥हयमारशिफातैलं अब्धेःशोषकतैलकम् ।एतान्यन्यानि तैलानि विद्धि वेधकराणि च ॥१४१॥सिद्धसूतेन च समं मर्दितं वेधकृद्भवेत् ॥१४२॥-वेधभेदाः-लेपवेधस्तथा क्षेपः कुंतवेधस्तथैव च ॥१४३॥धूमाख्यः शब्दवेधः स्यादेवं पञ्चविधः स्मृतः ।-लेपवेध-सूक्ष्माणि ताम्रपत्राणि कलधूतभवानि च ।कल्केन लेपितान्येव ध्मापयेदन्धमूषया ॥१४४॥शीतीभूते तमुत्तार्य लेपवेधश्च कथ्यते ।-क्षेपवेध-द्रुते ताम्रेऽथवा रौप्ये रसं तत्र विनिक्षिपेत् ॥१४५॥विध्यते तेन सहसा क्षेपवेधः स कथ्यते ।-कुन्तवेध-द्रावयेन्नागरूप्यं च ताम्रं चैव तथावरान् ॥१४६॥पारदोऽन्यतमे पात्रे द्रावितेऽत्र नियोजितः ।वेधते कुन्तवेधः स्यादिति शास्त्रविदोऽब्रुवन् ॥१४७॥-धूमवेध-धूमस्पर्शेन जायन्ते धातवो हेमरूप्यकौ ।धूमवेधः स विज्ञेयो रसराजस्य निश्चितम् ॥१४८॥-शब्दवेध-बद्धे रसवरे साक्षात्स्पर्शनाज्जायते रवः ।तथैव जायते वेधः शब्दवेधः स कथ्यते ॥१४९॥-१७- रञ्जन-अथेदानीं प्रवक्ष्यामि रंजनं पारदस्य हि ।रञ्जितः क्रामितश्चैव साक्षाद्देवो महेश्वरः ॥१५०॥रंजनं लोहताम्राभ्यां रसकेन विधीयते ।तथा रक्तगणेनैव कर्तव्यं शास्त्रवर्त्मना ॥१५१॥गन्धरागेण कर्तव्यं पारदस्याथ रंजनम् ।ताम्रेण रक्तकाचेन रक्तसैन्धवकेन च ॥१५२॥अंधमूषागतं सूतं रञ्जयेत्ताम्रकादिभिः ।इष्टिकायन्त्रयोगेन गन्धरागेण रञ्जयेत् ॥१५३॥रसकस्य च रागेण तुलायन्त्रस्य योगतः ।-मेर्चुर्यः रञ्जन-मर्दनात्तीक्ष्णचूर्णेन रञ्जयेत्सूतकं सदा ॥१५४॥-मेर्चुर्यः रञ्जन-ताम्रकल्कीकृतेनैव स्थापयेत्सप्तवासरम् ।रंजनं सूतराजस्य जायते नात्र संशयः ॥१५५॥-मेर्चुर्यः रञ्जन-मृण्मूषा च प्रकर्तव्या रक्तवर्गेण लेपिता ।तन्मध्ये पारदं क्षिप्त्वा ध्मानाद्रञ्जनकं भवेत् ॥१५६॥मया संक्षेपतः प्रोक्तं रंजनं पारदस्य हि ।शास्त्रमार्गेण बहुधा रंजनं हि निदर्शितम् ॥१५७॥-१८- सेवन-अथ सेवनकं कर्म पारदस्य दशाष्टमम् ।कथ्यतेऽत्र प्रयत्नेन विस्तरेण मयाधुना ॥१५८॥यत्नेन सेवितः सूतः शास्त्रमार्गेण सिद्धिदः ।अन्यथा भक्षितश्चैव विषवन्मारयेन्नरम् ॥१५९॥आदौ तु वमनं कृत्वा पश्चाद्रेचनमाचरेत् ।ततो मृताभ्रं भक्षेत पश्चात्सूतस्य सेवनम् ॥१६०॥सम्यक्सूतवरः शुद्धो देहलोहकरः सदा ।सेवितः सर्वरोगघ्नः सर्वसिद्धिकरो भवेत् ॥१६१॥यावन्मानेन लोहस्य गद्याणे वेधकृद्भवेत् ।तावन्मानेन देहस्य भक्षितो रोगहा भवेत् ॥१६२॥राजिकाथ प्रियंगुश्च सर्षपो मुद्गमाषकौ ।रक्तिका चणको वाथ वल्लमात्रो भवेद्रसः ॥१६३॥एषा मात्रा रसे प्रोक्ता सर्वकर्मविशारदैः ।अनुपानेन भुञ्जीत पर्णखण्डिकया सह ॥१६४॥इत्थं संसेविते सूते सर्वरोगाद्विमुच्यते ।सर्वपापाद्विनिर्मुक्तः प्राप्नोति परमां गतिम् ॥१६५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP