संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय १३ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय १३ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय १३ Translation - भाषांतर -वीर्यस्तम्भकरी वटी-श्रीवासमस्तकीनाग केसरं च लवंगकम् ।कंकोलं तुलसीबीजं खुरासान्यहीफेनकम् ॥१॥जावित्रिकाब्धिशोषं च करभागुरुकुंकुमम् ।कङ्कोलकतुगाक्षीरी जातीफलसमांशकान् ॥२॥सर्वाण्येवं विचूर्ण्याथ नालिकेरोदरे क्षिपेत् ।दुग्धमध्ये विपाच्यैनं दिनान्येवं हि पञ्च च ॥३॥नालिकेरफलाद्ग्राह्यं मर्दयेन्मधुना सह ।गुटिका कोलमात्रा हि भक्षणीया निशामुखे ॥४॥वीर्यस्तंभं करोत्युग्रं चतुर्यामावधिं तथा ॥५॥-शुक्रस्तम्भकरी वटी-लवंगं शुद्धकर्पूरं जातीपत्रं फलं तथा ।कुङ्कुमं स्वर्णबीजं च धूर्तपर्णं प्रसूनकम् ॥६॥मूलं त्वक्चाब्धिशोषस्य सर्वाण्येकत्र मर्दयेत् ।गोदुग्धे शोधनीयं च भागमेकं प्रकल्पयेत् ॥७॥भृङ्गीपत्त्रभवं चूर्णं भागैकं स्वर्णगैरिकम् ।भावनां पोस्ततोयेन एकविंशतिसंख्यया ॥८॥कारयेन्मतिमान्वैद्य शुक्रस्तंभकरीं वटीम् ॥९॥-रेतस्तम्भकरी वटी-जातीफलार्ककरहाटलवङ्गशुण्ठीकङ्कोलकेशरकणाहरिचन्दनानि एतै समानमहिफेनमनेन चाभ्रं श्वेतं निधाय मधुना वटकान्विदध्यात् ।माषद्वयोन्मितममुं निशि भक्षयित्वा मृष्टं पयस्तदनु माहिषमाशु पीत्वा कुर्वन्तु कामुकजना प्रतिरुद्धपाताश्चेतांसि तानि चकितानि कलावतीनाम् ॥१०॥-वीर्यस्तम्भकरी लेपवटी-स्कन्धदेशाच्च संजातं वीर्यं दर्दुरसंभवम् ।घनसारेण संयुक्तं करहाटस्य चूर्णकम् ॥११॥संमर्द्य कारयेच्चूर्णं वटीं मुद्गप्रमाणकाम् ।संघर्ष्य मुखतोयेन लिंगलेपं प्रकारयेत् ॥१२॥यामार्धं धारयेद्बिन्दुं सत्यं गुरुवचो यथा ॥१३॥-शुक्रस्तम्भकचूर्णम्-पोस्तकं पलमेकं वै शुंठीकर्ष सिता पलैका च ।कर्षमिता त्वक्पयसा पीतं रेतो ध्रुवं धत्ते ॥१४॥श्रीगङ्गाधरभक्तिसक्तमनसो विद्याविनोदाम्बुधे श्रीगोडान्वयपद्मनाभसुधियस्तस्यात्मजेनाप्ययम् ।सद्वैद्येन यशोधरेण कविना विद्वज्जनानन्दकृद्ग्रन्थोऽयं ग्रथित करोतु सततं सौख्यं सतां मानसे ॥१५॥देशानां सुरराष्ट्रं उत्तमतमं तत्रापि जीर्णाभिध प्राकारोऽस्ति स वेदशास्त्रनिरतैर्विप्रैश्च संशोभित ।तस्मिन्शंभुपदारविन्दरतिकृच्छ्रीपद्मनाभ स्वयं तत्पुत्रेण यशोधरेण कविना ग्रंथ स्वयं निर्मित ॥१६॥संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिद्धये वैद्यानामुपजीवनाय विदुषां उद्वेगनाशाय वै ।श्रीमद्दुर्गपुरातनेऽतिनिपुण श्रीपद्मनाभात्मज श्रीमद्भट्टयशोधर कविवरो ग्रन्थ स्वयं निर्ममे ॥१७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP