संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय १२ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय १२ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय १२ Translation - भाषांतर -वानरी वटी-आत्मगुप्ताफलं शुष्कं निस्तुषं चाष्टपालिकम् ।माषस्याष्टपलं तद्वज्जलेन परिपेषितम् ॥१॥आर्द्रं कृत्वोभयं सम्यक्शिलापट्टेन पेषयेत् ।कुंकुमं केसरं चैव जातीपत्रं शतावरी ॥२॥गोक्षुरेक्षुरबीजानि लवंगं मरिचं कणा ।शृङ्गाटकं कर्षमितं कुर्यादेवं पृथक्पृथक् ॥३॥सूक्ष्मचूर्णं विधायाथ पूर्वपिष्टे निधापयेत् ।वटकान्कारयेत्पश्चात्कर्षमात्रान्विपाचयेत् ॥४॥घृतप्रस्थत्रयेणैव सुतलथ्य निमज्जयेत् ।माक्षिके घृतमाने वै मुखं रुन्ध्याद्दिनत्रयम् ॥५॥मध्वाज्यमिश्रितं भुञ्ज्यादेकैकं वटकं प्रगे ।सप्तकानि च पञ्चैवं आहारं मधुरं भजेत् ॥६॥दुग्धौदनं तथा रात्रौ क्षारमम्लं च वर्जयेत् ।रेतक्षयी तथा क्लीबो गच्छेच्च प्रमदाशतम् ॥७॥अपुत्र पुत्रमाप्नोति षण्ढोऽपि पुरुषायते ।दृष्टप्रत्यययोगोऽयं सत्यमेतदुदीरितम् ॥८॥-शतावर्यादिवाजीकरोऽवलेह (१)-शतावरीं क्षीरविदारिकां च प्रस्थार्धमानां पृथगेव कुर्यात् ।रसं तथा शाल्मलिमध्यमूलात्प्रस्थं सितार्धाढकमत्र देयम् ॥९॥सुपाचितं वै मृदुवह्निना तथा दर्वीप्रलेपोऽपि हि जायते यथा ।त्वक्पत्रकैला सह केसरेण पलप्रमाणा हि ततो विदध्यात् ॥१०॥लेहे सुशीते मधु बिल्वमात्रं प्रात प्रभक्षेदिह कर्षमात्रम् ॥११॥-शृङ्गातकादिवाजीकरोऽवलेह (२)-शृङ्गाटकस्यापि पलं विधेयं वाराहिकन्दश्च पलप्रमाण ।चूर्णीकृतं गालितमेव वस्त्राद्भृष्टं तथाज्येन सितासमेतम् ॥१२॥लवंगकृष्णागरुकेशराणां पलं प्रदद्याद्दशभागदुग्धम् ।लेहं सुजातं खलु भक्षयेत्तत्कर्षप्रमाणं नितरां प्रभाते ।कामस्य बोधं कुरुते हि शीघ्रं नारीं रमेद्वै चटकायतेऽसौ ॥१३॥-कामदीप्तिकरवाजीकरोऽवलेह (३)-शतावरीगोक्षुरदर्भमूलं शृङ्गाटकं नागबलात्मगुप्ते ।संचूर्ण्य सर्वं पृथगेव पालिकं क्षीरेण पाच्यं दशभागकेन ॥१४॥सिता प्रदेया दशपालिकात्र पाकं विदध्यादपि चाग्नियोगात् ।मधुप्लुतं भक्षितमर्धयामात्कामप्रदीप्तिं कुरुते सदैव ॥१५॥वीर्यस्य वृद्धिं जठराग्निवृद्धिं कामाग्निवृद्धिं सहसा करोति ॥१६॥-माषादिवाजीकरोऽवलेह (४)-माषाणामात्मगुप्ताया बीजानामाढकं नवम् ।जीवकर्षभकौ जीवां मेदां वृद्धिं शतावरीम् ॥१७॥मधुकं चाश्वगन्धां च साधयेत्प्रसृतोन्मिताम् ।रसे तस्मिन्घृतप्रस्थं गव्यं दशगुणं पय ॥१८॥विदारीस्वरसप्रस्थं प्रस्थमिक्षुरसस्य च ।दत्त्वा मृद्वग्निना साध्यं सिद्धसर्पिर्निधापयेत् ॥१९॥शर्करायास्तुगाक्षीर्या क्षौद्रस्य च पृथक्पृथक् ।भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत्पलम् ॥२०॥पलं पूर्वमितो लीढ्वा ततोऽन्नं उपयोजयेत् ।यदीच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ॥२१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP