संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय ११ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय ११ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय ११ Translation - भाषांतर अथात सम्प्रवक्ष्यामि धातूनां कौतुकं परम् ।स्वानुभूतं मया किंचित्श्रुतं वा शास्त्रत खलु ।तदहं सम्प्रवक्ष्यामि यत्कृत्वा ना सुखी भवेत् ॥१॥-हेमकरणविधि (१)-रसकं दरदं ताप्यं गगनं कुनटी समम् ।रक्तस्नुहीपयोभिश्च मर्दयेद्दिनसप्तकम् ॥२॥जलयंत्रेण वै पाच्यं चतुर्विंशतियामकम् ।तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥३॥सहस्रवेधी तत्कल्को जायते नात्र संशय ॥४॥-हेमकरणविधि (२)-एकभागस्तथा सूतो वज्रवल्ल्याथ मर्दित ।खल्वे त्रिनेम्या स्वरसे पञ्चभागसमन्विते ॥५॥वेत्रयष्ट्या च रागिण्या पीतकल्कं प्रजायते ।षोडशांशेन दातव्यं द्रुते ताम्रं सुशोधिते ॥६॥जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥७॥-हेमकरणविधि (३)-सुवर्णमाक्षिकं स्वेद्यं कांजिके दिवसत्रयम् ।चर्मरङ्ग्या रसेनैव मर्दयेद्दिनसप्तकम् ।जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥८॥-हेमकरणविधि (४)-दरदं रोमदेशीयं गोमूत्रेणैव स्वेदयेत् ।दोलायंत्रे चतुर्यामं पश्चाच्छुद्धतमो भवेत् ॥९॥मनशिला पद्मनिभा रक्ता चैव सुशोभना ।स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ॥१०॥याममर्धमितं शुद्धा सर्वकार्येषु योजयेत् ।नवसारस्तथा सूत शोधितोऽग्निसह खलु ॥११॥समभागानि सर्वाणि मर्दयेन्निम्बुकै रसै ।मातलुंगरसेनैव कुमारीस्वरसेन च ॥१२॥सूर्यातपे विमर्द्योऽसौ पाचितो जलयन्त्रके ।दिनानि त्रीणि तीव्राग्नौ ततस्तदवतारयेत् ॥१३॥शतांशं वेधयेत्तारं शुद्धं हेम प्रजायते ।जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥१४॥-हेमकरणविधि (५)-शिलया मारितं नागं कुमार्या स्वरसेन च ।पुटद्वादशयोगेन नागभस्म प्रजायते ॥१५॥शतसंख्यानि वै कुर्यात्पुटान्येवं शरावके ।कुमार्या स्वरसेनैव भावयेद्दिनसप्तकम् ॥१६॥पूर्ववत्पुटनं कार्यं शतसङ्ख्यामितं तथा ।सूतभस्म शिला ताल समं चेन्नागभस्मकम् ॥१७॥त्रिंशद्वनोपलैर्दद्यात्पुटं वाराहसंज्ञितम् ।अनेन विधिना सम्यक्शतसंख्यानि दापयेत् ॥१८॥पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम् ।पश्चाद्दृढे काचमये कूपे द्वात्रिंशयामकम् ॥१९॥वालुकाग्निं प्रदद्याच्च स्वांगशीतं समुद्धरेत् ।तलभस्म गृहीतव्यं वेधयेच्छुल्बतारके ॥२०॥शुद्धहेम भवेत्तेन नात्र कार्या विचारणा ।दृष्टप्रत्यययोगोऽयं कथितो नात्र संशय ॥२१॥-हेमकरणविधि (६)-गोमूत्रे काञ्जिके चाथ कुलत्थे वासरत्रयम् ।ताप्यकं स्वेदयेत्पश्चाल्लोहपात्रे प्रमर्दयेत् ॥२२॥तप्तखल्वेन संमर्द्य सेचयेन्निम्बुजद्रवै ।सैन्धवं दापयेत्पश्चाच्चतुर्थांशं विशेषत ॥२३॥भागैकं ताप्यकं सूताद्भागांस्त्रीनेव कारयेत् ।मर्दयेन्निम्बुनीरेण शुद्धवस्त्रेण गालयेत् ॥२४॥वस्त्रे लग्ना तु या पिष्टी ग्राहयेत्तां भिषग्वर ।एवं कृते द्विस्त्रिवारं ताप्यसत्वं ग्रसेद्रस ॥२५॥पिष्ट्या गोलस्तु कर्तव्यो मूषायां ध्मापयेत्सुधी ।इन्द्रगोपनिभं ग्राह्यं ताप्यसत्वं सुशोभनम् ॥२६॥हीनवर्णसुवर्णेऽपि गद्याणे वल्लमात्रकम् ।तुत्थकं वल्लमात्रं च दत्त्वा हेम प्रगालयेत् ॥२७॥तत्सुवर्णस्य पत्राणि कार्याण्येवं प्रलेपयेत् ।तुत्थकं बीजपूरस्य रसेनापि प्रमर्दयेत् ॥२८॥गैरिकेण समं कृत्वा हेमपत्राणि लेपयेत् ।मन्दवह्नौ च प्रपुटेत्द्वित्रिवारं प्रयत्नत ॥२९॥कुङ्कुमाभं सुवर्णं हि जायते नात्र संशय ।वार्तिकेन्द्रा कुरुध्वं हि सत्यं गुरुवचो यथा ॥३०॥द्वौ वर्णौ वर्धते सम्यक्नात्र कार्या विचारणा ॥३१॥-हेमकरणविधि (७)-शुद्धं ताम्रं ताप्यचूर्णेन तुल्यं द्राव्यं पश्चाड्ढालयेल्लाकुचे हि ।गन्धाच्चूर्णं ताप्यताम्रावशेषं कृत्वा दद्याद्वल्लकं हीनवये ।वर्णोत्कर्षो जायते तेन सम्यक्सत्यं प्रोक्तं नन्दिना कौतुकाय ॥३२॥-हेमकरणविधि (८)-ताप्यं नागं गन्धकं सूतराजो हिंगूलं वै हेम शुद्धं शिला च ।चूर्णं कृत्वा निक्षिपेत्काचकूप्यां आपूर्यान्ते स्वै रसै शाकजैर्वा ॥३३॥अग्निं दद्याल्लावकाख्ये पुटे च शुद्ध कल्को जायते षष्टिसंख्यै ।शुद्धं तारं वेधितं वल्लकेन गद्याणं वै जायते शुद्धहेम ॥३४॥-हेमकरणविधि (९)-अहिरिपुं अहितुल्यं सारितं सूतराजे बलिवसगिरिचूर्णै कान्तपात्रे सुदग्धम् ।सुविहितफणिभागैर्हेमगर्भेण बद्धो भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी ॥३५॥-हेमकरणविधि (१०)-द्वौ भागौ शुद्धताम्रस्य द्वौ भागौ शुद्धहेमजौ ।चतुर एव भागांश्च शुद्धतारस्य कारयेत् ॥३६॥अष्टौ भागा प्रकर्तव्या रसकस्य प्रयत्नत ।अन्धमूषागतं ध्मातं द्रावितं हेम जायते ॥३७॥-हेमकरणविधि (११)-विदितागमवृद्धैर्हि पुटे पक्वं कनीयसि ।त्रिगुणं चूर्णनिर्बद्धं तारमायाति काञ्चनम् ॥३८॥-हेमकरणविधि (१२)-पारदं पलमेकं तु प्रस्थार्धं शुद्धगन्धकम् ।किंशुपत्ररसेनैव रसैर्वा पुष्पसंभवै ॥३९॥सूर्यातपे मर्दयेद्धि षण्मासावधिमात्रकम् ।षोडशांशेन रजतं विध्यते नात्र संशय ॥४०॥सप्तवर्णं भवेद्धेम हट्टविक्रययोग्यकम् ॥४१॥-हेमकरणविधि (१३)-पारदं गंधकं शुल्वं माक्षिकं तुत्थकं तथा ।रसकं दरदं स्वर्ण गैरिकं नवसादरम् ॥४२॥सूरक्षारं शिलां चैव समभागानि मर्दयेत् ।तदर्धं रसकं मुक्त्वा वज्रमूषे निरुन्धयेत् ॥४३॥यथा धूमो न निर्गच्छेत्तथा मुद्रां प्रदापयेत् ।तोलमेकं सुवर्णं हि जायते नात्र संशय ॥४४॥घटिकातुर्यमात्रं हि ध्मापयेत्सततं भिषक् ॥४५॥-हेमकरणविधि (१४)-स्वल्पवर्णसुवर्णस्य गद्याणैकस्य मुद्रिका ।माक्षिकं रसकं तुत्थं गैरिकं नवसादरम् ॥४६॥सूरक्षारं सदरदं टङ्कणेन समन्वितम् ।प्रतिवल्लद्वयं कुर्यात्कासमर्दप्रसूनकै ॥४७॥स्त्रीदुग्धेन च संमर्द्य लेपयेत्तेन मुद्रिकाम् ।सोरक्षारं सदरदं टंकणेन समन्वितम् ॥४८॥सैंधवस्य च भागैकं इष्टिकाभागयुग्मकम् ।स्थालिकायन्त्रमध्यस्थं मध्ये संस्थाप्य मुद्रिकाम् ॥४९॥यामत्रितयपर्यन्तं वह्निं कुर्यात्प्रयत्नत ।स्वांगशीतं तत कृत्वा मुद्रिकां तां समुद्धरेत् ।वेदवर्णास्तु संघर्षाद्वर्धन्ते नात्र संशय ॥५०॥-हेमकरणविधि (१५)-घोषाकृष्टं तु यत्ताम्रं रजतेन समन्वितम् ।तीक्ष्णचूर्णं सदरदं घृष्टं कन्यारसेन वै ॥५१॥पश्चाद्विधेया गुटिका सूक्ष्माश्चैवाढकीसमा ।वापिता द्राविते द्रव्ये सर्वं ताम्रं तु संक्षिपेत् ॥५२॥रूप्यमानं समुत्तार्य समहेम्ना च गालयेत् ।जायते दशवर्णं तु सत्यमेतदुदीरितम् ॥५३॥-हेमकरणविधि (१६)-ताम्रे सप्तगुणं नागं वाहितं पुनरेव हि ।तेन ताम्रेण रसकं सप्तवारं च वाहयेत् ॥५४॥स्वर्णवर्णं हि तत्ताम्रं जायते नात्र संशय ॥५५॥-हेमकरणविधि (१७)-भूनागसत्त्वमूषायां द्रावयेत्स्वर्णमुत्तमम् ।ताप्यसत्वेन संयुक्तं शतवारं पुन पुन ।जपापुष्पनिभं स्वर्णं जायते नात्र संशय ॥५६॥-हेमकरणविधि (१८)-दशवर्णस्य गद्याणे रक्तं तद्धेमवल्लकम् ।द्वौ वर्णौ वर्धत सम्यखट्टविक्रययोग्यकम् ॥५७॥-हेमकरणविधि (१९)-पुष्पकासीसकं रम्यं मर्दयेदर्कपत्रजे ।रसेऽथ च चक्रिकां कुर्याद्रसकस्य पलोन्मिताम् ॥५८॥वेष्टितां पूर्वकल्केन रविघर्मेण शोषयेत् ।त्रिंशद्वनोपलै सम्यक्पुटान्येवं हि विंशति ॥५९॥षोडशांशेन रजतं विध्यते नात्र संशय ।सप्तवर्णसवर्णं हि जायते नात्र संशय ॥६०॥-हेमकरणविधि (२०)-सूतको द्विपल कार्य सुम्बिलश्च चतुष्पल ।चतुष्टंकमिता कार्या स्फटिकी निर्मला शुभा ॥६१॥वृश्चिकालीरसे घृष्टा दिनं एकं तु वार्तिकै ।पश्चाच्च शोषयेत्सर्वं यन्त्रे डमरुके न्यसेत् ॥६२॥गैरिकं स्थापयेत्पूर्वं खटिकां च तथोपरि ।तन्मध्ये गर्तकं कृत्वा गर्तके नवसादरम् ॥६३॥टङ्कमानं प्रकर्तव्यं तस्योपरि च सूतकम् ।सूतकोपरि सारं हि पूर्वोक्तं टंकमानकम् ॥६४॥मुद्रां कृत्वा शोषयित्वा पश्चाच्चुल्ल्यां निवेशयेत् ।अग्निं कुर्यात्प्रयत्नेन यामषोडशमात्रकम् ॥६५॥स्वांगशीतं समुत्तार्य ऊर्ध्वलग्नं तु ग्राहयेत् ।पश्चात्खल्वे निधायाथ वृश्चिकाल्या प्रमर्दयेत् ॥६६॥काचकूप्यां क्षिपेत्सर्वं कूपीं वालुकायन्त्रके ।वह्निं द्वादशभिर्यामै कुर्याच्छीतं समाहरेत् ॥६७॥वल्लमात्रं ततो दद्यात्सार्धटङ्के सुताम्रके ।दृष्टप्रत्यययोगोऽयं नाथसुन्दरभाषित ॥६८॥-रौप्यकरणविधि (१)-लोहचूर्णं पलमितं सुमलक्षारं अभ्रकम् ।टंकणं शाणमानं हि तैलेनैरण्डजेन वै ॥६९॥घर्षयेद्वटिकायुग्मं गोलं कृत्वा धमेत्तत ।भस्त्रया ध्मापयेत्सम्यक्लोहं रसनिभं भवेत् ॥७०॥तल्लोहं त्रिगुणं चैव रसकं कारयेत्सुधी ।लोहं च रसकं पश्चाद्गालितं वज्रमूषया ॥७१॥लोहशेषं समुत्तार्य ताम्रे दद्याच्च वल्लकम् ।गद्याणके भवेत्तारं तत्तारं शुद्धतारके ॥७२॥अर्धभागे भवेच्छुद्धं तारं दोषविवर्जितम् ॥७३॥-रौप्यकरणविधि (२)-खण्डं कर्षप्रमाणं हि सुमलक्षारकस्य हि ।वेष्टितं नरकेशेन द्रुते नागे निमज्जितम् ॥७४॥निर्वापितं निम्बुजले चैकविंशतिवारकम् ।द्रुते शुल्वस्य गद्याणे रक्तिकापञ्चमात्रकम् ॥७५॥कल्कं दद्यात्प्रयत्नेन तारवर्णं प्रजायते ।गद्याणे चतुरो वल्लान्रूप्यं दत्त्वा प्रगालयेत् ।जायते रुचिरं तारं सत्यं एतदुदीरितम् ॥७६॥-रौप्यकरणविधि (३)-शंखं सुम्बलनामानं पलान्यष्टौ प्रकल्पयेत् ।गोजिह्वारससंमिश्रं दिनमेकं प्रमर्दयेत् ॥७७॥निम्बूरसेन धूर्तेन काकमाचीरसेन वै ।गृंजनस्य रसेनैव दिनमेकं प्रमर्दयेत् ॥७८॥अर्कदुग्धेन वै भाव्यं तैलेनैरण्डजेन च ।यवमात्रां गुटीं कृत्वा विशोष्य चातपे खरे ॥७९॥काचकूप्यां विनिक्षिप्य मुद्रयेत्कूपिकामुखम् ।संस्थाप्य वालुकायन्त्रे पचेत्षोडशयामकम् ॥८०॥स्वांगशीतं समुत्तार्य ग्राह्यं सत्वं तदूर्ध्वगम् ।सत्त्वं गद्याणमेकं तु तन्मात्रं तारसंपुटम् ॥८१॥सूतं गद्याणकं स्वच्छं टंकणं वल्लपञ्चकम् ।सूतमात्रं क्षारसत्त्वं सर्वं चैकत्र मर्दितम् ॥८२॥स्वरसेन तु केतक्या गोलं कृत्वा विशोषितम् ।तारसंपुटमध्ये तु धारितं तं च गोलकम् ॥८३॥पश्चात्ताम्रकृतां मूषां अष्टवल्लमितां शुभाम् ।शरावसंपुटस्यान्तर्धारयेत्तदनंतरम् ॥८४॥धान्याभ्रं तुल्यं पंकेन कृत्वा श्रावं तु पूरयेत् ।वाराहाख्यपुटैकेन जायते कल्क उत्तम ॥८५॥ताम्रं द्वादशवल्लं हि रूप्यं वल्लद्वयं तथा ।वंगं वल्लमितं शुद्धं सर्वमेकत्र गालयेत् ॥८६॥चतुर्गुञ्जाप्रमाणं हि दापयेन्मतिमान्भिषक् ।जायते प्रवरं तारं सत्यं एतदुदीरितम् ॥८७॥-रौप्यकरणविधि (४)-अस्थिभक्षमलबंगमारितं तालकाभ्रविषसूतटंकणम् ।वज्रिभानुपयसा सुभावितं स्यान्नरेन्द्र शुभतारपर्वतम् ॥८८॥-रौप्यकरणविधि (५)-वंगं तालकमभ्रकं शशिरसं तीक्ष्णं विषं टंकणम् ।त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम् ॥८९॥आरं द्वादशभागमष्टरविणो बीजं चतुर्थांशकम् ।भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम् ॥९०॥-रौप्यकरणविधि (६)-पारदस्य त्रयो भागा भागैकं रजतस्य हि ।निम्बूरसेन संमर्द्य पिष्टीं कृत्वा प्रयत्नत ॥९१॥कांजिकेन तु तां पिष्टीं स्तम्भयेद्वासरत्रयम् ।सारयेद्बंगमध्ये तु सूतकं तदनंतरम् ॥९२॥सारितं सूतकं तेन तालसत्त्वेन साधयेत् ।तेन वेध्यं द्रुतं ताम्रं षोडशांशेन यत्नत ॥९३॥जायते प्रवरं तारं चंद्रनक्षत्रसन्निभम् ॥९४॥-रौप्यकरणविधि (७)-सूतकस्य त्रयो भागा बंगं भागद्वयं तथा ।मर्दयेद्दिनमेकं तु कांजिकेन समन्वितम् ॥९५॥सर्वेभ्यस्त्रिगुणेनाथ सुम्बलेन प्रमर्दयेत् ।स्नुह्यर्कदुग्धेन समं भावयेद्वासरत्रयम् ॥९६॥यवप्रमाणां गुटिकां रवितापेन शोषिताम् ।काचकूप्यां निधायाथ वह्निं कुर्यात्प्रयत्नत ॥९७॥यामषोडशपर्यंतं वालुकायंत्रके पचेत् ।स्वांगशीतं समुद्धृत्य चोर्ध्वगं सत्वमाहरेत् ॥९८॥षोडशांशेन शुल्बं हि कुन्तवेधेन वेधयेत् ।जायते प्रवरं तारं हट्टविक्रययोग्यकम् ॥९९॥-रौप्यकरणविधि (८)-पलाष्टमात्रं तालं तु द्विकर्षप्रमितं रसम् ।निम्बूरसेन संमर्द्यं वासरैकं प्रयत्नत ॥१००॥पश्चात्तं मर्दयेद्धीमान्तैलेनैरण्डजेन वै ।वालुकायन्त्रमध्यस्थं पचेद्यामांस्तु षोडश ॥१०१॥पश्चात्सत्त्वं समुद्धृत्य मर्दयेदेकवासरम् ।अतसीतिलतैलेन काचकूप्यां निधापयेत् ॥१०२॥पूर्ववत्पाचयेद्वह्नौ स्वांगशीतं समुद्धरेत् ।अनेनैव प्रकारेण पुनरेवं तु कारयेत् ॥१०३॥कूपीतलस्थितं सत्त्वं ग्राह्यं चेत्प्रवरं सदा ।षोडशांशेन शुल्बस्य वेधं कुर्यान्न संशय ॥१०४॥-रौप्यकरणविधि (९)-पारदं टंकमानं तु लवणं द्विगुणं तथा ।खल्वे विमर्दयेत्तावद्यावन्नष्टो रसो भवेत् ॥१०५॥ताम्रं गद्याणकं शुद्धं बंगं वल्लमितं कुरु ।द्रुते ताम्रेऽथ लवणं सूतकेन समन्वितम् ॥१०६॥माषमात्रं प्रदातव्यं चतुर्थांशेन रूप्यकम् ।तद्रूप्ये मर्दितं सूतं क्षेप्तव्यं जलयन्त्रके ॥१०७॥तत्त्रयोदशकं रूप्यं जायते नात्र संशय ॥१०८॥-रौप्यकरणविधि (१०)-तालेन निहतं बंगं तद्बंगेन तु रूप्यकम् ।पचेद्यामाष्टकं सम्यक्कल्क एवं प्रजायते ।वल्लं गद्याणके दद्याद्बंगं स्तम्भयते ध्रुवम् ॥१०९॥-रौप्यकरणविधि (११)-दरदं खण्डश कृत्वा टंकत्रयमितं पृथक् ।वज्रीक्षीरेण तत्स्वेद्यं दोलायंत्रेण वार्तिकै ॥११०॥तारचूर्णं समं लेप्यं लुङ्गतोयसमं तथा ।गोवरै पाचयेत्स्वल्पं एव द्वादशयामकम् ॥१११॥पिष्टिस्तम्भो भवेत्तेन पश्चात्ताररज पृथक् ।कुर्याद्दरदखण्डेन समं सीसं च दापयेत् ॥११२॥गालयेन्मूषिकामध्ये शीतं कृत्वा तु खोटकम् ।भस्म मूषोपरि न्यस्य ध्मापयेच्च शनै शनै ॥११३॥शुद्धशङ्खनिभं रूप्यं निष्कमात्रं हि निसरेत् ॥११४॥-रौप्यकरणविधि (१२)-द्विपलं शुद्धसूतं च द्विपलं रसकस्य च ।तालकं च पलद्वंद्वं सुर्मिलं युग्ममात्रकम् ॥११५॥कूप्यामारोपयेत्सर्वं मुखं ताम्रेण रुन्धयेत् ।वालुकायन्त्रके सम्यक्पचेद्द्वादशयामकम् ॥११६॥कूपीमुखे तु यल्लग्नं सत्त्वं ग्राह्यं प्रयत्नत ।शुल्बे षोडशवेधेन कारयेद्रजतं वरम् ॥११७॥-रौप्यकरणविधि (१३)-सूतकं पलमेकं तु शंखाभं सुर्मिलं पलम् ।एरण्डतैले घृष्टं तद्धारितं खर्परे वरे ॥११८॥अन्धितं ताम्रपात्रेण मुद्रितं सुदृढं कृतम् ।पश्चाच्चुल्ल्यां समारोप्य वह्निं कुर्याच्छनै शनै ॥११९॥सार्धं यामं तत पाच्यं स्वांगशीतं समुद्धरेत् ।ताम्रपात्रे तु यल्लग्नं सर्वं सत्त्वं समाहरेत् ॥१२०॥घृताक्तं टंकणोपेतं गालितं मूषिकामुखे ।देयं तद्वल्लमात्रं हि द्रुते ताम्रे तु सत्त्वकम् ॥१२१॥शंखाभं जायते तारं नात्र कार्या विचारणा ॥१२२॥-रौप्यकरणविधि (१४)-तालं ताम्रं रीतिघोषं समांशं कुर्यादेवं गालितं ढालितं हि ।अम्ले वर्गे सप्तवारं प्रढाल्य पश्चाद्योज्यं तुल्यभागे च रूप्ये ।शुद्धं रूप्यं षोडशाख्यं हि सम्यक्जातं दृष्टं नानृतं सत्यमेतत् ॥१२३॥-रौप्यकरणविधि (१५)-श्वेतं सौवीरकं शुद्धं पाचितं विषमुष्टिना ।स्वच्छे सूतवरे वल्लं निक्षिप्तं रूप्यकृद्भवेत् ॥१२४॥-रौप्यकरणविधि (१६)-शुद्धस्फटिकसंकाशं सुर्मिलं दृश्यते क्वचित् ।मृत्खर्परे पाचितं हि निम्बूकद्रवसंयुतम् ॥१२५॥घटिकाद्वयमानेन शुद्धकल्क प्रजायते ।चतुषष्ट्यंशमानेन वेधयेच्छुल्बकं शुभम् ॥१२६॥जायते प्रवरं तारं सर्वदोषविवर्जितम् ॥१२७॥-रौप्यकरणविधि (१७)-सप्तधातुमयी मूषा क्षारभस्मप्रपूरिता ।कदल्या क्षारकेणैव तथापामार्गसंभवै ॥१२८॥मध्ये पारदकं मुक्त्वा पुनरेवं प्रपूरयेत् ।अनेन विधिना पूर्या द्वितीया मूषिका शुभा ॥१२९॥मुद्रितव्या प्रयत्नेन गोवरे पुटके न्यसेत् ।सूतकं बन्धं आयाति वङ्गाभं तु प्रजायते ।द्रुतद्रावं घातसहं दृष्टमेवं मया खलु ॥१३०॥-कृत्रिममौक्तिककरणम्-नेत्राण्याहृत्य मत्स्यानां पक्त्वा दुग्धेन यामकम् ।पश्चादाकृष्णकणकानाकृष्य किल कण्डयेत् ॥१३१॥तानि शालिसमेतानि तावच्छुभ्राणि कारयेत् ।पश्चादिष्टिकचूर्णेन हस्ते कृत्वा प्रमर्दयेत् ॥१३२॥मौक्तिकानि हि जायन्ते कृतान्येवं मया खलु ॥१३३॥-सूक्ष्ममौक्तिकेभ्यो बृहन्मौक्तिककरणम्-मूषिकां कारयेच्छुद्धां स्फाटिकीं दहनोपलाम् ।मौक्तिकानि तु सूक्ष्माणि निम्बूद्रावे निधापयेत् ॥१३४॥अहोरात्रेण सर्वाणि नवनीतसमानि च ।तस्य पंकस्य गुटिकां मसृणां तु प्रकारयेत् ॥१३५॥पश्चात्तां मूषिकामध्ये चित्राघर्मे द्वियामकम् ।चत्वारि कांस्यभाण्डानि चतुर्दिक्षु गतानि च ॥१३६॥अर्भका पातयेत्सर्वा मध्यभाजनकोपरि ।बध्यते मौक्तिकं श्रेष्ठ तरं सर्वगुणैर्युतम् ॥१३७॥-कृत्रिमप्रवालकरणम्-शुद्धशङ्खस्य चूर्णं हि सूक्ष्मं कृत्वा प्रयत्नत ।अर्धभागं च दरदं चूर्णयेन्मतिमांस्तत ॥१३८॥सद्य सूताविकक्षीरं तेन दुग्धेन मर्दयेत् ।वर्तिं विधाय मतिमान्कार्पासास्थिषु स्वेदयेत् ॥१३९॥स्वांगशीतं समुत्तार्य प्रवालं रुचिरं भवेत् ॥१४०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP