संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय २ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय २ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय २ Translation - भाषांतर -पारदबन्ध-अथेदानीं प्रवक्ष्यामि रसराजस्य बंधनम् ।अनुभूतं मया किंचित्गुरूणां हि प्रसादतः ॥१॥-बन्धनः-बंधश्चतुर्विधः प्रोक्तो जलौका खोटपाटकौ ।तथा भस्माभिधः साक्षात्कथितोऽपि रसागमे ॥२॥पक्वबन्धो जलौका स्यात्पिष्टीस्तम्भस्तु खोटकः ।पाटः पर्पटिकाबन्धो भस्म भूतिसमो भवेत् ॥३॥-सुब्स्तन्चेसिन्दुचिन्ग्बन्धन-मूलिकात्र मणिश्चैव स्वर्णकं नागवङ्गके ।चत्वार एते सूतस्य बन्धनस्याथ कारणम् ॥४॥उत्तमो मूलिकाबन्धो मणिबन्धस्तु मध्यमः ।अधमो धातुबन्धस्तु पूतिबन्धोऽधमाधमः ॥५॥द्रुतिबन्धः पञ्चमोऽसौ देहलोहकरः सदा ।अभ्रद्रुतिविशेषेण विज्ञेयोऽसौ भिषग्वरैः ॥६॥-मूलिकाबन्ध-क्रमप्राप्तमिदं वक्ष्ये मूलिकाबन्धनं रसे ।शुद्धो राक्षसवक्त्रश्च रसश्चाभ्रकजारितः ॥७॥इङ्गुदीमूलनिर्यासे मर्दितः पारदस्त्र्यहम् ।तत उद्धृत्य वस्त्रेण बंधनं कारयेद्भिषक् ॥८॥कांजिके स्वेदनं कुर्यान्नियतं सप्तवासरम् ।पाचितं चान्नमध्ये तु कर्तव्यं वत्सरावधि ॥९॥ततो धूर्तफले न्यस्तं स्वेदयेच्छतसंख्यया ।पाचितोऽसौ महातैले धूर्ततैलेऽन्नराशिके ॥१०॥बद्धस्तु तेन विधिना कठिनत्वं प्रजायते ।वंगस्य स्तम्भनं सम्यक्करोत्येव न संशयः ॥११॥धारितोऽसौ मुखे साक्षाद्वीर्यस्तम्भकरः सदा ।मूलिकाबंधनं ह्येकं कथितं पारदस्य वै ॥११*॥-मूलिकाबन्ध (२)-अथापरः प्रकारो हि बन्धनस्यापि पारदे ।नागार्जुनीमूलरसैर्मर्दयेद्दिनसप्तकम् ॥१२॥मुखचर्वणसम्भूतैर्निम्बकाष्ठेन पेषितः ।नवनीतसमस्तेन जायते पारदस्ततः ॥१३॥वस्त्रेण बंधनं कृत्वा फले धौर्ते निवेशयेत् ।गोमयैर्वेष्टितं तच्च करीषाग्नौ विपाचयेत् ॥१४॥लावकाख्ये पुटे सम्यक्क्रमवृद्ध्या शतं पुटेत् ।मासत्रयप्रमाणेन पाचयेदन्नमध्यतः ॥१५॥पश्चात्पुटशतं दद्याच्छगणेनाथ पूर्ववत् ।अनेनैव प्रकारेण बध्यते सूतकः सदा ॥१६॥दृष्टप्रत्यययोगोऽयं कथितः साधकाय वै ।धारितोऽसौ मुखे सम्यक्वीर्यस्तंभकरः परम् ।वंगस्तंभकरोऽप्येवं बद्धः सूतवरोऽप्यलम् ॥१७॥-मूलिकाबन्ध-शुद्धं सुजारिताभ्रं वै सूतकं च विमर्दयेत् ।अर्कमूलरसेनैव वासरैकं प्रयत्नतः ॥१८॥वज्रमूषा ततः कार्या सुदृढा मसृणीकृता ।अर्कमूलभवेनैव कल्केन परिलेपिता ॥१९॥मूषामध्ये रसं मुक्त्वा चान्धयेदन्यमूषया ।यामार्धं ध्मापितः सम्यक्रसखोटः प्रजायते ॥२०॥स्वांगशीतं परिज्ञाय रसखोटं समुद्धरेत् ।वर्षमात्रं धृतो वक्त्रे वलीपलितनाशनः ॥२१॥सर्वसिद्धिकरोऽप्येष मूलिकाबद्धपारदः ।मूलिकाबंधनं सत्यं कृतं नागार्जुनादिभिः ॥२२॥सर्वसिद्धिकरं श्रेष्ठं सर्वकार्यकरं सदा ॥२३॥-मूलिकाबन्ध (४)-शुद्धं रसवरं सम्यक्तथैवाम्बरभक्षितम् ।जलकूम्भीरसैः पश्चान्मर्दयेद्दिनसप्तकम् ॥२४॥तस्याः प्रकल्पयेन्मूषां सूतकं तत्र निक्षिपेत् ।अन्यस्यामन्धमूषायां सूतमूषां निरुन्धयेत् ॥२५॥पुटं तत्र प्रदातव्यं एकेनारण्यकेन च ।पुटान्येवं प्रदेयानि एकैकोत्पलवृद्धितः ॥२६॥अनेनैव प्रकारेण पुटानि त्रीणि दापयेत् ।बन्धमाप्नोति सूतेन्द्रः सत्यं गुरुवचो यथा ॥२७॥-मूलिकाबन्ध (५)-चूर्णीकृतानि सततं धूर्तबीजानि यत्नतः ।सूतराजसमान्येवं ऊर्ध्वयन्त्रेण पातयेत् ॥२८॥एकविंशतिवाराणि ततः खल्वे निधापयेत् ।इङ्गुदीपत्रनिर्यासे मर्दयेद्दिनसप्तकम् ॥२९॥भृंगराजरसेनैव विषखर्परकेन च ।पाठारसेन संमर्द्य लज्जालुस्वरसेन वै ॥३०॥त्र्यहं त्र्यहं च संमर्द्य बन्धमायाति निश्चितम् ।दोलायंत्रेण संस्वेद्य सप्ताहं धूर्तजे रसे ॥३१॥विषमूषोदरे धृत्वा मांसे सूकरसंभवे ।भर्जयेद्धूर्ततैलेन सप्ताहाज्जायते मुखम् ॥३२॥कठिनो वज्रसदृशो जायते नात्र संशयः ।क्षीरं शोषयते नित्यं कौतुकार्थे न संशयः ॥३३॥वीर्यं वंगं स्तम्भयति सत्यं सत्यं न संशयः ।प्रकाराः कथिताः पञ्च सूतराजस्य बंधने ॥३४॥-वज्रसत्त्वेन शतवेधी रसबन्धः (१)-वज्रबंधं द्वितीयं तु क्रमेणैव यथातथम् ।रसशास्त्राणि बहुधा निरीक्ष्य प्रवदाम्यहम् ॥३५॥वज्रसत्वं तथा सूतं समांशं कारयेद्बुधः ।रसपादसमं हेम त्रयमेकत्र मर्दयेत् ॥३६॥वंध्याकर्कोटिकामूल रसेनैवाथ भावयेत् ।तथा धूर्तरसेनापि चित्रकस्य रसेन वै ॥३७॥काम्बोजीरसकेनापि तथा नाडीरसेन वै ।आसां नियामिकानां च रसं वस्त्रेण गालयेत् ॥३८॥सूर्यातपे दिनैकैकं क्रमेणानेन मर्दयेत् ।अंधमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥३९॥लोहसंपुटके पश्चान्निक्षिप्तं मुद्रितं दृढम् ।घटिकाद्वयमानेन ध्मापितं भस्त्रया खलु ॥४०॥स्वांगशीतलकं ज्ञात्वा गृह्णीयातां च मूषिकाम् ।उत्खन्योत्खन्य यत्नेन सूतभस्म समाहरेत् ॥४१॥काचटंकणयोगेन ध्मापितं तं च गोलकम् ।वेधते शतवेधेन सूतको नात्र संशयः ॥४२॥वक्त्रस्थो निधनं हन्याद्देहलोहकरो भवेत् ॥४३॥-वज्रभस्मयोगेन रसबन्धः (७)-वज्रभस्म तथा सूतं समं कृत्वा तु मर्दयेत् ।त्रिनेमिकावज्रवल्ली सहदेवीरसेन च ॥४४॥स्नुहिक्षीरेण सप्ताहं सूर्यघर्मे सुतीव्रके ।रसगोलं सुवृत्तं तु शुष्कं चैवाथ लेपयेत् ॥४५॥काकमाचीरसेनैव लांगलीस्वरसेन हि ।गोजिह्विकारसेनैव सप्तवारं प्रलेपयेत् ॥४६॥वज्रमूषागतं गोलं मुद्रयेद्दृढमुद्रया ।लोहसंपुटमूषायां अन्धितं मध्यसंस्थितम् ॥४७॥सप्तमृत्कर्पटैः सम्यग्लेपितं सुदृढं कुरु ।ध्मापितं दृढमंगारैस्तत्रस्थं शीतलीकृतम् ॥४८॥भित्त्वा मूषागतं सूतं खोटं नक्षत्रसन्निभम् ।सर्वकार्यकरं शुभ्रं रञ्जितं वेधकृद्भवेत् ॥४९॥-अभ्रद्रुत्या रसबन्धः (८)-अभ्रकद्रुतिभिः सार्धं सूतकं च विमर्दयेत् ।समांशेन शिलापृष्ठे यामत्रयमनारतम् ॥५०॥कस्तूरीधनसाराभ्यां कृष्णागरुसमन्वितम् ।शर्करालशुनाभ्यां च रामठेन च संयुतम् ॥५१॥पलाशबीजस्य तथा तत्प्रसूनरसेन हि ।तीक्ष्णांशुनाथ मृदितं द्रुतिभिः सह सूतकम् ॥५२॥मिलत्येव न संदेहः किमन्यैर्बहुभाषितैः ।ततो गुञ्जारसेनैव श्वेतवृश्चीवकस्य च ॥५३॥लांगल्याश्च रसैस्तावद्यावद्भवति बन्धनम् ॥५४॥ततः प्रकाशमूषायां पञ्चांगारैर्धमेत्क्षणम् ।बन्धमायाति वेगेन यथा सूर्योदयेऽम्बुजम् ॥५५॥अभ्रद्रुतिसमायोगे रसेन्द्रो वध्यते खलु ।शिवभक्तो भवेत्साक्षात्सत्यवाक्संयतेन्द्रियः ॥५६॥शिवयोर्मेलनं सम्यक्तस्य हस्ते भविष्यति ।रसागमेषु यत्प्रोक्तं बंधनं पारदस्य च ॥५७॥कथितं तन्मया स्पष्टं नानुभूतं न चेष्टितम् ॥५८॥-वज्रद्रुत्या रसबन्धः (९)-वज्राणां ब्रह्मजातीनां द्रुतिर्वल्लप्रमाणिका ।तोलकं शुद्धसूतं च मर्दयेत्कन्यकारसे ॥५९॥तावत्तं मर्दयेत्सम्यग्यावत्पिष्टी प्रजायते ।कृत्वा मूषां समां शुद्धां दहनोपलनिर्मिताम् ॥६०॥तन्मध्ये पिष्टिकां मुक्त्वा पिष्टीमानं विषं त्वहेः ।पिधानं तादृशं कुर्यान्मुखं तेनाथ रुन्धयेत् ॥६१॥कांस्यभाजनमध्ये तु स्थापयेन्मूषिकां शुभाम् ।भाजनानि च चत्वारि चतुर्दिक्षु गतानि च ॥६२॥चित्रं घर्मप्रसंगेन बन्धमायाति पारदः ।यामात्खरातपे नित्यं शिवेनोक्तं अतिस्फुटम् ॥६३॥वज्रद्रुतिसमायोगात्सूतो बन्धनकं व्रजेत् ।सर्वेषां सूतबन्धानां श्रेष्ठं सत्यमुदीरितम् ॥६४॥-सुवर्णद्रुत्या रसबन्धः (१०)-अथेदानीं प्रवक्ष्यामि सूतराजस्य बन्धनम् ।हेमद्रुतिं रसेन्द्रेण मर्दयेत्सप्तवासरान् ॥६५॥ज्वालामुखीरसेनैव धौतः पश्चाच्च कांजिकैः ।प्रत्यहं क्षालयेद्रात्रौ रसेनोक्तेन वै दिवा ॥६६॥अंधमूषागतं पश्चान्मृदा कर्पटयोगतः ।लेपयेत्सप्तवाराणि भूगर्ते गोलकं न्यसेत् ॥६७॥द्वादशांगुलविस्तीर्णं द्वादशांगुलनिम्नकम् ।खातप्रमाणं कथितं गुरुमार्गेण च स्फुटम् ॥६८॥तत्रोपरि पुटं देयं गजाह्वं छगणेन च ।यामद्वादशकेनैव बध्यते पारदः स्वयम् ॥६९॥हेमद्रुतौ बद्धरसो देहलोहप्रसाधकः ।सर्वसिद्धिकरः श्रीमान्जरादारिद्र्यनाशनः ॥७०॥-सुवर्णेन रसबन्धः-धातुबन्धस्तृतीयोऽसौ स्वहस्तेन कृतो मया ।तदहं कथयिष्यामि साधकार्थे यथातथम् ॥७१॥भूर्जवत्सूक्ष्मपत्राणि कारयेत्कनकस्य च ।तान्येव कोलमात्राणि पलमात्रं तु सूतकम् ॥७२॥मर्दयेन्निम्बुकद्रावैर्दिनमेकमनारतम् ।ततस्तद्गोलकं कृत्वा खर्परोपरि विन्यसेत् ॥७३॥चुल्यामारोपणं कार्यं धान्याम्लेन निषिञ्चयेत् ।पिष्टिस्तंभस्तु कर्तव्यो नियतं त्रिदिनावधि ॥७४॥ततो धूर्तरसेनैव स्वेदयेत्सप्तवासरान् ।श्वेता पुनर्नवा चिंचा सहदेवी च नीलिका ॥७५॥तथा धूर्तवधूश्चैव लांगली सुरदालिका ।सूतबन्धकरा श्रेष्ठा प्रोक्ता नागार्जुनादिभिः ॥७६॥एतासां स्वरसैः पङ्कैर्लेपयेत्सूतगोलकम् ।त्रिगुणैर्भूर्जपत्रैस्तु वेष्टयेत्तदनंतरम् ॥७७॥वस्त्रेण पोटलीं बद्ध्वा स्वेदयेन्निंबुकद्रवैः ।यामत्रयं प्रयत्नेन धौतः पश्चाद्गवां जलैः ॥७८॥ततो धूर्तफलान्तस्थं पाचयेद्बहुभिः पुटैः ।लावकाख्यैः सुमतिमान्शोभनः सूर्यकान्तिवत् ।जायते नात्र संदेहो बद्धः शिवसमो भवेत् ॥७९॥-रौप्येण रसबन्धः-अष्टमांशेन रूप्येन सूतकं हि प्रमर्दयेत् ।चांगेरीस्वरसेनैव पिष्टिकां कारयेद्बुधः ॥८०॥खोटं बद्ध्वा तु विपचेत्धूर्ततैले त्रिवासरान् ।तथा च कंगुणीतैले करवीरजटोद्भवे ॥८१॥जातीफलोद्भवेनापि वत्सनागोद्भवेन च ।भृंग्युद्भवेन च तथा समुद्रशोषकस्य वै ॥८२॥देवदारुभवेनापि पाचयेन्मतिमान्भिषक् ।पश्चात्सुतीक्ष्णमदिरा दातव्या तु तुषाग्निना ॥८३॥दिनानि सप्तसंख्यानि मुखं उत्पद्यते ध्रुवम् ।शुक्रस्तम्भकरः सम्यक्क्षीरं पिबति नान्यथा ॥८४॥-तुत्थेन तुत्थोत्थताम्रेण रसबन्धः-लोहपात्रे सुविस्तीर्णे तुत्थकस्यालवालकम् ।अष्टसंस्कारितं सूतं तस्मिन्निक्षिप्य मात्रया ॥८५॥तुत्थचूर्णेन संछाद्य पूरयेन्निम्बुकद्रवैः ।पिधानेन मुखं रुद्ध्वा लोहपात्रस्य यत्नतः ॥८६॥निर्वाते निर्जने देशे त्रिदिनं स्थापयेत्ततः ।उष्णकांजिकयोगेन क्षालयेद्बहुशो भिषक् ॥८७॥नवनीतसमो वर्णः सूतकस्यापि दृश्यते ।रसखोटं ततो बद्ध्वा स्वेदयेत्कांजिकैस्त्र्यहम् ॥८८॥अश्मचूर्णस्य कणिकाम् अध्ये खोटं निधाय च ।जलसेकः प्रकर्तव्यः शीतीभूतं समुद्धरेत् ॥८९॥अनेनैव प्रकारेण त्रिवारं पाचयेद्ध्रुवम् ।कठिनत्वं प्रयात्येव सत्यं गुरुवचो यथा ॥९०॥ततो धूर्तफलानां हि सहस्रेणापि पाचयेत् ।मुखं उत्पद्यते सम्यक्वीर्यस्तंभकरोऽप्ययम् ॥९१॥-धातुबीजेन रसबन्धः-वंगतीक्ष्णे समे कृत्वा ध्मापयेद्वज्रमूषया ।वङ्गं उत्तारयेत्सम्यक्तीव्राङ्गारैः प्रयत्नतः ॥९२॥अनेनैव प्रकारेण त्रिगुणं वाहयेत्त्रपु ।बीजं शाणप्रमाणं हि सूतं पलमितं भवेत् ॥९३॥मर्दयेत्कन्यकाद्रावैर्दिनमेकं विशोषयेत् ।गोलस्य स्वेदनं कार्यं अहोभिः सप्तभिस्तथा ॥९४॥त्रिफलाक्वाथमध्ये तु त्रियामं स्वेदयेत्सुधीः ।कुमार्याः स्वरसेनैव भृंगराजरसेन हि ॥९५॥भृंगीरसेन च तथा त्रिदिनं स्वेद्यमेव हि ।एकैकेनौषधेनैवं काचकूप्यां निवेशयेत् ॥९६॥खटीपटुशिवाभक्तं पिष्ट्वा वक्त्रं निरुन्धयेत् ।खातं त्रिहस्तमात्रं स्याल्लद्दीपूर्णं तु कारयेत् ॥९७॥मध्ये तु काचघटिकां सुरापूर्णां निवेशयेत् ।भूमिस्थां मासयुग्मेन पश्चादेनां समुद्धरेत् ॥९८॥बद्धं सूतवरं ग्राह्यं शुभ्रं चंद्रप्रभानिभम् ।मुखस्थं कुरुते सम्यक्दृढवज्रसमं वपुः ॥९९॥कामिनीनां शतं गच्छेद्वलीपलितवर्जितः ।देवीशास्त्रानुसारेण धातुबद्धरसोऽप्ययम् ॥१००॥प्रकाशितो मया सम्यक्नात्र कार्या विचारणा ॥१०१॥-कान्तलोहेन रसबन्धः-रसेंद्रः कान्तलोहं च तीक्ष्णलोहं तथैव च ।अभ्रसत्वं तथा ताप्य सत्वं हेमसमन्वितम् ॥१०२॥समांशानि च सर्वाणि मर्दयेन्निम्बुकद्रवैः ।निषेचयेदेकदिनं पश्चाद्गोलं तु कारयेत् ॥१०३॥पक्वमूषा प्रकर्तव्या गोलं गर्भे निवेशयेत् ।गोजिह्वा काकमाची च निर्गुंडी दुग्धिका तथा ॥१०४॥कुमारी मेघनादा च मधुसैंधवसंयुता ।एतासां स्वरसेनैव स्वेदयेद्बहुशो भिषक् ॥१०५॥यावद्दृढत्वमायाति तावत्स्वेद्यं तु गोलकम् ।वक्त्रे धृतं जरामृत्युं निहन्ति च न संशयः ॥१०६॥सर्वरोगान्निहत्याशु वयः स्तम्भयते ध्रुवम् ।कर्णे कण्ठे तथा हस्ते धारिता मस्तकेऽपि वा ।अभिचारादिदोषाश्च न भवन्ति कदाचन ॥१०७॥चतुर्विधान्येव तु बन्धनानि श्रीसूतराजस्य मयोदितानि ।कुर्वन्ति ये तत्त्वविदो भिषग्वरा राज्ञां गृहे तेऽपि भवन्ति पूज्याः ॥१०८॥इति परमरहस्यं सूतराजस्य चोक्तं रसनिगममहाब्धेर्लब्धं एतत्सुरत्नम् ।सकलगुणवरिष्ठा वादिनः कौतुकज्ञा निजहृदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञाः ॥१०९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP