संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय ७ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय ७ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय ७ Translation - भाषांतर -नव रत्नानि-माणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यं पुष्पकम् ।वज्रं नीलं च गोमेदं वैडूर्यं च क्रमेण हि ॥१॥सुजातिगुणसम्पन्नं रत्नं सर्वार्थसिद्धिदम् ।दाने रसायने चैव धारणे देवतार्चने ॥२॥-रुब्य सुब्त्य्पेस्-पद्मरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम् ।-रुब्य नीलगन्धि-द्वितीयं नीलगन्धि स्याद्घनं रक्तं सुशोभनम् ॥३॥-रुब्य परीक्षा-महच्च कमलच्छायं स्निग्धं स्वच्छं गुरु स्फुटम् ।समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम् ॥४॥-नीलगन्धि फ्य्स्- प्रोपेर्तिएस्-गंगोदकसमुद्भूतं नीलगर्भारुणच्छवि ।माणिक्यं पूर्ववच्छायं नीलगन्धि तदुच्यते ॥५॥-रुब्य परीक्षा बद्क़ुअलित्य्-माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु ।कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥६॥-रुब्य मेदिच्- प्रोपेर्तिएस्-संदीपनं वृष्यतमं हि रूक्षं वातापहं कर्मरुजापहं च ।भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम् ॥७॥-पेअर्ल परीक्षा गूद्क़ुअलित्य्-ह्लादि श्वेतं रश्मिमन्निर्मलं च वृत्तं ख्यातं मौक्तिकं तोयभासम् ।स्निग्धं तौल्ये गौरवं चेन्महत्तल्लिंगैरेतैर्लक्षितं तच्च शुद्धम् ॥८॥-पेअर्ल परीक्षा बद्क़ुअलित्य्-रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च ।क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभि ॥९॥-पेअर्ल मेदिच्- प्रोपेर्तिएस्-कासं श्वासं वह्निमांद्यं क्षयं च हन्याद्वृष्यं बृंहणं पित्तहारि ।दाहश्लेष्मोन्मादवातादिरोगान्हन्यादेवं सेवितं सर्वकाले ॥१०॥-चोरल परीक्षा गूद्क़ुअलित्य्-स्निग्धं स्थूलं पक्वबिम्बीफलाभं वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम् ।ख्यातं सद्भि सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम् ॥११॥-चोरल परीक्षा बद्क़ुअलित्य्-रूक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवर्णं प्रवालम् ।दोषैर्युक्तं कोटरैरावृतं च नेष्टं सद्भिर्भक्षणे धारणे च ॥१२॥-चोरल मेदिच्- प्रोपेर्तिएस्-पित्तास्रघ्नं श्वासकासादिरोगान्हन्यादेवं दुर्निवारं विषं च ।भूतोन्मादान्नेत्ररोगान्निहन्यात्सद्य कुर्याद्दीपनं पाचनं च ॥१३॥-एमेरल्द परीक्षा गूद्क़ुअलित्य्-तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं गात्रै शुद्धं भारवद्रश्मियुक्तम् ।एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥१४॥-एमेरल्द परीक्षा बद्क़ुअलित्य्-नीलं श्वेतं कर्कशं श्यावरूक्षं वक्रं कृष्णं चिप्पटं भारहीनम् ।-एमेरल्द मेदिच्- प्रोपेर्तिएस्-दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं कासं श्वासं सन्निपाताग्निमांद्यम् ॥१५॥शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं पाण्डुरोगं निहन्यात् ॥१६॥-पुष्पराग परीक्षा गूद्क़ुअलित्य्-स्वच्छं स्थूलं पुष्परागं गुरु स्यात्स्निग्धं वर्णे कर्णिकारप्रसूनम् ।तच्चावक्रं मसृणं कोमलं च लिंगैरेतै शोभनं पुष्परागम् ॥१७॥-पुष्पराग परीक्षा बद्क़ुअलित्य्-रूक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याद्वा कापिलं तोयहीनम् ।दोषैर्युक्तं निष्प्रभं पुष्परागं नो सेव्यं तन्नैव देयं द्विजेभ्य ॥१८॥-पुष्पराग मेदिच्- प्रोपेर्तिएस्-कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मंदाग्नीनामेतदेव प्रशस्तम् ।दाहे कृच्छ्रे दीपनं पाचनं च तस्मात्सेव्यं सर्वकालं मनुष्यै ॥१९॥-वज्र सुब्त्य्पेस गेन्देर्-सर्वेषु रत्नेषु सदा वरिष्ठं मूल्यैर्गरिष्ठं विविधं हि वज्रम् ।नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥२०॥पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं द्रव्याद्वीर्यात्पाकतश्च प्रभावात् ।तेषां वर्णा जातयश्च प्रभेदा कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥२१॥श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधै ।स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णा ॥२२॥-पुंवज्र फ्य्स्- प्रोपेर्तिएस्-पुंवज्रं यत्प्रोच्यते चाष्टधारं षट्कोणं चेदिन्द्रचापेन तुल्यम् ।अष्टौ चेत्स्यु फालका भासुरं वै पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् ॥२३॥-स्त्रीवज्र फ्य्स्- प्रोपेर्तिएस्-स्त्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिच्चैवं चिप्पटं कर्कशं च ।-नपुंसक फ्य्स्- प्रोपेर्तिएस्-कोणाग्रं वै कुण्ठितं वर्तुलं च किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥२४॥स्त्री पुमान्नो स्त्री पुमान्यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे ।व्यत्यासाद्वै नैव दत्तं फलं तद्दद्याद्वज्रं वा विना तत्पुमांसम् ॥२५॥वर्णेऽप्येवं यस्य वर्णस्य वज्रं तत्तद्वर्णे शोभनीयं प्रदिष्टम् ।न्यायश्चायं भैरवेण प्रदिष्ट सर्वेष्वेव रत्नवर्गेषु सम्यक् ॥२६॥-वज्र शोधन-यामावधि स्वेदितमेव वज्रं शुद्धिं प्रयातीह कुलत्थतोये ।सिद्धं तथा कोद्रवजे शृते वा वज्रं विशुध्येद्धि विनिश्चितेन ॥२७॥-वज्र मारण वारितर-सुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च ।छुच्छुंदरीस्थं हि विपाचितं पुटे पुटेद्वराहेण च त्रिंशदेवम् ॥२८॥ध्मातं पुनर्ध्माय शतं हि वारान्क्वाथे कुलत्थस्य हि निक्षिपेच्च ।संपेषयेत्तं हि शिलातलेन मनशिलाभि सह कारयेद्वटीम् ॥२९॥क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत् ।वारान्शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन ॥३०॥वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च ।श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्यु कथितो हि सम्यक् ॥३१॥-वज्र मारण-कासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर्विलेपितम् ।स्वेदितं च भिदुरं हि सप्तभिर्वासरै परिनिषेच्य मूत्रके ॥३२॥ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विद ।-वज्र मारण-नीलज्वालावीरुध कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ॥३३॥वज्रं याति स्वैरवह्निप्रदानात्पिष्टैश्चापि क्षोणिनागै प्रलिप्तम् ।विंशद्वारान्संपुटेच्च प्रयत्नादारण्यैर्वा गोमयैस्तद्धठाग्नौ ।वज्रं चैवं भस्मसाद्वीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥३४॥-वज्र मृत मेदिच्- प्रोपेर्तिएस्-आयुप्रदं वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं तथैव ।रसेन्द्रकस्यापि हि बंधकृत्सदा सुधासमं चापमृतिं च हन्यात् ॥३५॥-वज्र मेदिच्- उसे-भूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्ना ।ध्मातं रसादावपि योजनीयं रसायनं तद्भवतीह सम्यक् ॥३६॥भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम् ।वज्रस्य भूति किल पोटलीकृता मुखे धृता दार्ढ्यकरी द्विजानाम् ॥३७॥-वज्ररसायनं षाड्गुण्यसिद्धिदम्-वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम् ।अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥३८॥अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत् ।वैक्रांतभस्मात्र तथाष्टभागकं षडेव भागा हि बलेर्विधेया ॥३९॥षाड्गुण्यसंसिद्धिं उपैति सर्वदा सर्वार्थसंसिद्धिमुपैति सेविते ॥४०॥-सप्फिरे सुब्त्य्पेस्-इन्द्रनीलमथ वारिनीलकं श्वैत्यगर्भितमथापि नीलकम् ।कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरै ।-इन्द्रनील परीक्षा-कान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं तच्चाप्युक्तं शक्रनीलाभिधानम् ॥४१॥-सप्फिरे परीक्षा गूद्क़ुअलित्य्-एकच्छायं स्निग्धवर्णं गुरु स्यात्स्वच्छं मध्ये चोल्लसत्कांतियुक्तम् ।नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैरेतैर्लिङ्गैर्लक्षितं चोत्तमं हि ॥४२॥-सप्फिरे परीक्षा बद्क़ुअलित्य्= जलनील-निर्भारं चेत्कोमलं चास्रगन्धि रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च ।प्रोक्तं वै तद्वारिनीलं भिषग्भिरेतैर्लिंगै सप्तभि क्षेपणीयम् ॥४३॥-सप्फिरे मेदिच्- प्रोपेर्तिएस्-संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्नम् ।दुर्नामपांडुघ्नमतीव बल्यं जूर्तिं जयेन्नीलमिदं प्रशस्तम् ॥४४॥-गोमेद परीक्षा गूद्क़ुअलित्य्-गोमेदकं रत्नवरं प्रशस्तं गोमेदवद्रागयुतं प्रचक्षते ।सुस्वच्छगोमूत्रसमानवर्णं गोमेदकं शुद्धमिहोच्यते खलु ॥४५॥दीप्तं स्निग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च ।एभिर्लिङ्गैर्लक्षितं वै गरीय सर्वास्वेतद्योजनीयं क्रियासु ॥४६॥-गोमेद परीक्षा बद्क़ुअलित्य्-विच्छायं वा चिप्पिटं निष्प्रभं च रूक्षं चाल्पं चावृतं पाटलेन ।निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम् ॥४७॥-गोमेद मेदिच्- प्रोपेर्तिएस्-गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्नं कफनाशनं च ।संदीपनं पाचनमेव रुच्यं अत्यंतबुद्धिप्रविबोधनं च ॥४८॥-वैडूर्य परीक्षा गूद्क़ुअलित्य्-स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं वा ।यज्ञोपवीतोपमशुद्धरेषास्तिस्रश्च संदर्शयतीह शुभ्रा ॥४९॥-वैडूर्य परीक्षा बद्क़ुअलित्य्-कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छवि ।रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विडूर्यकम् ॥५०॥-वैडूर्य मेदिच्- प्रोपेर्तिएस्-रक्तपित्तशमनं विडूर्यकं बुद्धिवर्धनकरं च दीपनम् ।पित्तरोगमलमोचनं सदा धारयेच्च मतिमान्सुखावहम् ॥५१॥-सर्वरत्नेषु दोषा-घर्षश्च बिंदुश्च तथैव रेषा त्रासश्च पानीयकृता सगर्भता ।सर्वेषु रत्नेषु च पञ्चदोषा साधारणास्ते कथिता मुनीन्द्रै ॥५२॥ये क्षेत्रतोयप्रभवाश्च दोषा सर्वेषु रत्नेषु गलन्ति सम्यक् ॥५३॥तेषां च शुद्धिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं स्यात् ।-जेwएल शोधन-अम्लेन वै शुध्यति माणिक्याख्यं जयन्तिकाया स्वरसेन मौक्तिकम् ॥५४॥क्षारेण सर्वेण हि विद्रुमं च गोदुग्धतस्तार्क्ष्यमुपैति शुद्धिम् ।धान्यस्याम्लै पुष्परागस्य शुद्धिं कौलत्थे वै क्वाथ्यमानं हि वज्रम् ॥५५॥नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाया रसेन ।वैडूर्यं चेदुत्तमाक्वाथयुक्तं यामैकैकं स्वेदितं शुद्धिमेति ॥५६॥-रत्नमारणम्-तालगंधकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु ।वज्रवर्ज्यमपि चाष्टभि पुटै रत्नभस्म भवतीति निश्चितम् ॥५७॥-जेwएल द्रावण-रामठं लवणपंचकं सदा क्षारयुग्ममपि चेत्सुपेषितम् ।चूलिकालवणमम्लवेतसं पक्वकुम्भिकफलं तथैव च ॥५८॥चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका ।अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥५९॥गोलमस्य च विधाय निक्षिपेद्रत्नजातिषु वराणि पेषयेत् ।भूर्जपत्रमभिवेष्ट्य गोलके गोलकोपरि निवेष्ट्य मूत्रत ॥६०॥वस्त्रेण संवेष्ट्य तत प्रयत्नाद्दोलाख्ययंत्रेऽथ निवेश्य गोलकम् ।सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि ॥६१॥दिनत्रयं स्वेदनकं विधेयं आहृत्य तस्माद्वरगोलकं हि ।संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥६२॥-द्रुतिलक्षणानि-वर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक् ।लोहस्य वेधं प्रकरोति सम्यक्सूतेन सम्यङ्मिलनं प्रयाति ॥६३॥तदा भवेयु खलु सिद्धता यदा हिंग्वादिवर्गेण मिलन्ति सम्यक् ।यामद्वयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यै ॥६४॥कस्यापि नु सिध्यति वै द्रुतिश्च यदा प्रसन्न खलु पार्वतीश ।न स्याद्यावद्भैरवस्य प्रसादस्तावत्सूते बन्धनं दुर्लभं हि ।तासां मध्ये दुर्लभाभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् ॥६५॥रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुते पातनं ।सर्वेषां हि परीक्षणं च द्रुतय सम्मेलनं वै रसे अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै ॥६६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP