संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय ४ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय ४ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय ४ Translation - भाषांतर अथेदानीं प्रवक्ष्यामि धातुशोधनमारणम् ।अनुभूतं मया किंचित्किंचित्शास्त्रानुसारतः ॥१॥-अष्टधातवः-सुवर्णं रजतं चेति शुद्धलोहमुदीरितम् ।ताम्रं चैवाश्मसारं च नागवंगौ तथैव ॥२॥पूतिलोहं निगदितं द्वितीयं रसवेदिना ।संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम् ।एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति हि ॥३॥-सुवर्णभेदाः-सुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम् ।अन्ये त्रयः सुवर्णस्य प्रकाराः सन्ति नोदिताः ॥४॥-गोल्दःः रसज-रसजं रसवेधेन जायते हेम सुन्दरम् ।तच्चतुर्दशवर्णाढ्यं सर्वकार्यकरं परम् ॥५॥-खनिजःः ओरिगिन्-पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित् ।दृश्यते खनिजं प्राज्ञैस्तच्चतुर्दशवर्णकम् ॥६॥-गोल्दःः शोधन-रूप्यादियोगेन यदा मिश्रं स्वर्णं हि जायते ।हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरैः ॥७॥हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत् ।खटिकापटुचूर्णं च कांजिकेन प्रमर्दयेत् ॥८॥पत्राणि लेपयेत्तेन कल्केनाथ प्रयत्नतः ।आरण्योत्पलकैः कार्या कोष्ठिका नातिविस्तृता ॥९॥मध्ये तत्संपुटं मुक्त्वा वह्निं प्रज्वालयेत्ततः ।एवं पुटत्रयं दत्त्वा शुद्धं हेम समुद्धरेत् ॥१०॥न तु शुद्धस्य हेम्नश्च शोधनं कारयेद्भिषक् ।अन्येषामेव लोहानां शोधनं कारयेद्भिषक् ॥११॥-गोल्दःः मारणःः निरुत्थ-ततः स्वर्णभवं पत्रं तापितं हि विनिक्षिपेत् ।ज्वालामुखीरसे षष्ठी पुटैर्भस्मीभवत्यलम् ॥१२॥गुरुणा कथितं सम्यक्निरुत्थं जायते ध्रुवम् ।रोगान्हिनस्ति सकलान्नात्र कार्या विचारणा ॥१३॥-गोल्दःः मारणःः निरुत्थ-हेम्नः पत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत् ।पुराम्बुभस्मसूतेन लेपयित्वाथ शोषयेत् ॥१४॥संपुटे च ततो रुन्ध्यात्पुटयेद्दशभिः पुटैः ।म्रियते नात्र संदेहो निरुत्थं भस्म जायते ॥१५॥-गोल्दःः मारण-हेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै वज्रीदुग्धकहिङ्गुहिङ्गुलसमैरेकत्र पिष्टीकृतैः ।सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥१७॥-गोल्दःः मारण-लोहपर्पटीकाबद्धं मृतं सूतं समांशकम् ।विद्रुते हेम्नि निक्षिप्तं स्वर्णभूतिप्रभं भवेत् ॥१७॥तद्भस्म पुरतोयेन दरदेन समन्वितम् ।मर्दयेद्दिनं एकं तु संपुटे धारयेत्ततः ॥१८॥पुटितं दशवारेण स्वर्णं सिंदूरसन्निभम् ।जायते नात्र संदेहो रंजनं कुरुते ध्रुवम् ।देहं लोहं च मतिमान्सुधनी साधयेदिदम् ॥१९॥-गोल्दःः मृतःः मेदिच्- प्रोपेर्तिएस्-एतत्स्वर्णभवं करोतिच रजः सौन्दर्यतां वै सदा रोगान्दैवकृतान्निहन्ति सकलान्येवं त्रिदोषोद्भवान् ।यः सेवेत नरः समान्द्विदशकान्वृद्धश्च नो जायते दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि ॥२०॥-सिल्वेरःः सुब्त्य्पेस्-रूप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा ।कृत्रिमं च त्रयो भेदाः कथिताः पूर्वसूरिभिः ॥२१॥-सिल्वेरःः खनिज-भूधरे कुत्र चेत्प्राप्तं खन्यमाने च खनिजम् ।-सिल्वेरःः सहज-कैलासशिखराज्जातं सहजं तदुदीरितम् ॥२२॥-सिल्वेरःः कृत्रिम-रसवेधेन यज्जातं वङ्गात्तत्कृत्रिमं मतम् ।-सिल्वेरःः शुद्धःः परीक्षा-यद्रूप्यं वह्निना तप्तं उज्ज्वलं हि विनिःसरेत् ।तच्छुद्धं कलधूतं हि सर्वकार्यकरं परम् ॥२३॥-सिल्वेरःः शोधन-ताम्रादिसंसर्गभवं त्वशुद्धं रूप्यं हि मिश्रं खलु दोषलं च ।तच्छोधयेद्वै भसितस्य मूष्यां सीसेन सार्धं रजतं तु ध्मापयेत् ॥२४॥ताराच्च षड्गुणं नागं ध्मापयेद्यत्नतः सुधीः ।शनैर्विधम्यमानं हि दोषशून्यं प्रजायते ॥२५॥अनेनैव प्रकारेण शोधयेद्रजतं सदा ।सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम् ॥२६॥-सिल्वेरःः मारण-भागमेकं तु रजतं सूतभागचतुष्टयम् ।मर्दयेद्दिनमेकं तु सततं निम्बुवारिणा ॥२७॥पेषणाज्जायते पिष्टीर्दिनैकेन तु निश्चितम् ।मूषामध्ये तु तां मुक्त्वा अधोर्ध्वं गंधकं न्यसेत् ॥२८॥वालुकायंत्रमध्यस्थां दिनैकं तु दृढाग्निना ।पाचितां तु प्रयत्नेन स्वांगशीतलतां गताम् ॥२९॥तालेनाम्लेन सहितां मर्दितां हि शिलातले ।ततो द्वादशवाराणि पुटान्यत्र प्रदापयेत् ॥३०॥अनेन विधिना सम्यक्रजतं म्रियते ध्रुवम् ।-सिल्वेरःः मारण-तारमाक्षिकयोश्चूर्णं अम्लेन सह मर्दयेत् ॥३१॥विंशत्पुटेन तत्तारं भूतीभवति निश्चितम् ।-रेपेअतेद्मारण-पुटाधिक्यं हि लोहानां सम्यक्स्याद्गुणकारि च ।रंजनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत् ॥३२॥-सिल्वेरःः मृतःः मेदिच्- प्रोपेर्तिएस्-शुद्धं भस्मीकृतं रूप्यं सारघाज्यसमन्वितम् ।नेत्ररोगानपि सदा क्षवजान्गुदजानपि ॥३३॥पित्तजान्काससम्भूतान्पाण्डुजानुदराणि च ।दोषजानपि सर्वांश्च नाशयेदरुचिं सदा ॥३४॥-चोप्पेरःः सुब्त्य्पेस्-ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम् ।नेपालदेशजादन्यन्म्लेच्छं तत्कथितं बुधैः ॥३५॥-चोप्पेरःः शोधन-सीसकेन समं ताम्रं रजतेनैव शोधयेत् ।पश्चान्मारणकं सम्यक्कर्तव्यं रसवादिना ॥३६॥-चोप्पेरःः मारणम्-कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत् ।कुक्कुटाख्ये पुटे सम्यक्पुटयेत्तदनंतरम् ॥३७॥सूतगंधकयोः पिष्टिः कार्या चातिमनोरमा ।विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत् ॥३८॥स्थालीमध्ये निरुन्ध्याथ पचेद्यामचतुष्टयम् ।पञ्चदोषविनिर्मुक्तं शुल्बं तेनैव जायते ॥३९॥-चोप्पेरःः मारण-रवितुल्येन बलिना सूतकेन समेन च ।तालकेन तदर्धेन शिलया च तदर्धया ॥४०॥चूर्णं कज्जलसंकाशं कारयेन्मतिमान्भिषक् ॥४१॥शरावसंपुटस्यान्तः पत्राण्याधाय यत्नतः ।उपर्युपरि पत्राणि कज्जलीं च निधापयेत् ॥४२॥यामैकं पाचयेदग्नौ गर्भयन्त्रोदरान्तरे ।स्वांगशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत् ॥४३॥लेहयेन्मधुसंयुक्तं अनुपानैर्यथोचितैः ।-चोप्पेरःः मारण (?) ।सोमनाथ (?)-शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नतः ॥४४॥तत्समांशस्य गंधस्य पारदस्य समस्य च ॥४५॥तालकस्य तदर्धस्य शिलायाश्च तदर्धतः ।लांगलीचित्रकव्योष तालमूलीकरञ्जकैः ॥४६॥विषशम्याकातिविषा सैंधवैश्च समांशकैः ।जंबीरस्य द्रवेणाथ चूर्णं चातिद्रवीकृतम् ॥४७॥तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नतः ।सूचीवेध्यानि पत्राणि रसेनालेपितानि च ॥४८॥कल्कमध्ये विनिःक्षिप्य दिनसप्तकमेव हि ।चूर्णीकृतं तु मध्वाज्यैः कणाद्वयसमन्वितम् ॥४९॥लेहितं वल्लमात्रं हि जरामृत्युविनाशनम् ।कथितं सोमदेवेन सोमनाथाभिधं शुभम् ॥५०॥-चोप्पेरःः मारण-शुद्धं शुल्वं गंधकं वै समांशं पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम् ।मध्ये शुल्बं स्थापनीयं प्रयत्नात्तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् ॥५१॥स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्नयापि ।चुल्ल्यां च कुर्यादथ वह्निमेव यामत्रयेणैव सुपाचितं भवेत् ॥५२॥शीतीभूतं दोषहीनं तदेव कृत्वा चूर्णं गालितं वस्त्रखण्डे ।सेव्यं सम्यक्चैकवल्लप्रमाणं कासं श्वासं हन्ति गुल्मप्रमेहान् ॥५३॥-चोप्पेरःः मृतःः मेदिच्- उसे-वल्लं एकं ताम्रभस्म पूर्वाह्णे भिषजाज्ञया ।परिणामभवं शूलं तथा चाष्टविधं च रुक् ॥५३*॥उदरं पाण्डुशोफं च गुल्मप्लीहयकृत्क्षयान् ।अग्निसादक्षयकृतान्मेहादीन्ग्रहणीगदान् ॥५४॥जयेद्बहुविधान्रोगाननुपानप्रभेदतः ।पिप्पलीमधुना सार्धं सर्वदोषहरं परम् ॥५५॥अर्शोऽजीर्णज्वरादींश्च निहन्ति च रसायनम् ।वृद्धिश्वसनकासघ्नं जरामृत्युविनाशनम् ॥५६॥-इरोनःः सुब्त्य्पेस्-यथोत्तरं स्याद्गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक् ।कांतं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ॥५७॥-कान्तःः सुब्त्य्पेस्-कांतं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च ।संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञैः ॥५८॥-रोमकम्-खन्यां संखन्यमानायां पाषाणा निःसरन्ति ये ।तेभ्यो यद्द्रावितं लोहं रोमकं तत्प्रचक्षते ॥५९॥-भ्रामकम्-यत्र क्वापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपलः ।तस्माज्जातं तु यल्लौहं भ्रामकं तदिहोच्यते ॥६०॥-चुम्बकम्-विंध्याचले भवेदश्मा लोहं चुम्बति चाद्भुतम् ।न मुञ्चत्येव सततं शिवभक्तिं यथानुगः ॥६१॥-द्रावकम्-हिमाद्रौ लभ्यते दुःखाद्यः स्पृष्टो द्रावयेदयः ।सुवर्णादींश्च तद्वद्धि तत्कांतं द्रावकं भवेत् ॥६२॥-कान्तःः परीक्षाःः शुद्ध-शुद्धे कांतभवे पात्रे शृतं दुग्धं हि नोद्गिरेत् ।पानीयं क्वथितं चास्मिन्हिंगुगंधसमं भवेत् ॥६३॥तैलबिंदुर्जले क्षिप्तो न चातिप्रसृतो भवेत् ।लेपोऽपि नैव जायेत शुद्धकांतस्य लक्षणम् ॥६४॥मुंडाच्छतगुणं तीक्ष्णं तीक्ष्णात्कांतं महागुणम् ।कोटिसंख्यागुणं प्रोक्तं चुंबकं द्रावकं तथा ॥६५॥-इरोनःः शोधन-शशरक्तेन लिप्तं हि सप्तवारेण तापितम् ।कांतादिसर्वलोहं हि शुध्यत्येव न संशयः ॥६६॥-इरोनःः शोधन-सामुद्रलवणैस्तद्वल्लेपितं त्रिफलाजले ।निर्वापितं भवेच्छुद्धं सत्यं गुरुवचो यथा ॥६७॥-इरोनःः मारण-लोहचूर्णं घृताक्तं हि क्षिप्त्वा लोहस्य खर्परे ।अग्निवर्णप्रभं यावत्तावद्दर्व्या प्रचालयेत् ॥६८॥खल्वे च विपचेत्तद्वत्पञ्चवारं अतः परम् ।वरोदकैः पुटेल्लोहं चतुर्वारं इदं खलु ॥६९॥सुपेषितं वारितरं जायते नात्र संशयः ।अनेन विधिना कार्यं सर्वलोहस्य साधनम् ॥७०॥जायते सर्वरोगानां सेवितं पलितापहम् ।-इरोनःः मारण-लोहचूर्णं पलद्वंद्वं गुडगंधौ समांशकौ ॥७१॥खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम् ।पेषणं तु प्रकर्तव्यं पुटः पश्चात्प्रदीयते ॥७२॥अनेन विधिना सम्यग्भस्मीभवति निश्चितम् ।सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥७३॥श्वेता पुनर्नवापत्र तोयेन दशसंख्यकाः ।पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥७४॥-इरोनःः मारण-अथापरः प्रकारोऽत्र कथ्यते लोहमारणे ।लोहचूर्णसमं गंधं मर्दयेत्कन्यकाद्रवैः ॥७५॥पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम् ।म्रियते नात्र संदेहो ह्यनुभूतं मयैव हि ॥७६॥-इरोनःः भस्मनःः मेदिच्- उसे-निरुत्थं लोहजं भस्म सेवेतात्र पुमान्सुधीः ।व्योषवेल्लाज्यमधुना टंकमानेन मिश्रितम् ॥७७॥जरां च मरणं व्याधिं हन्यात्पुत्रप्रदायकम् ।जरादोषकृतान्रोगान्विनिहन्ति शरीरिणाम् ॥७८॥-तिनःः सुब्त्य्पेस्-बंगं तु द्विविधं प्रोक्तं खुरं मिश्रं तथैव च ।-खुरःः फ्य्स्- प्रोपेर्तिएस्-यच्छुद्धं सरलं शुभ्रं खुरं तदभिधीयते ॥७९॥-खुरःः शोधन-भल्लातकभवे तैले खुरं शुध्यति ढालितम् ।-तिनःः मिश्रकःः शोधन-पुनर्नवासिन्धुचूर्ण विषयुक्तं प्रढालितम् ।तक्रमध्ये त्रिवारं हि मिश्रं बंगं विशुध्यति ॥८०॥-तिनःः मारण-छाणोपरि कृते गर्ते चिंचात्वक्चूर्णकं क्षिपेत् ।कर्षमानां बंगचक्रीं तत्रोपरि निधापयेत् ॥८१॥चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्ततः ।छगणेन विशुष्केण पुटाग्निं दापयेत्ततः ॥८२॥स्वांगशीतं समुद्धृत्य सर्वकार्येषु योजयेत् ।अनेन विधिना शेषं अपक्वं मारयेद्ध्रुवम् ॥८३॥-तिनःः मारण-अथापरः प्रकारो हि वक्ष्यते चाधुना मया ।शुद्धबंगस्य पत्राणि समान्येव तु कारयेत् ॥८४॥अजाशकृत्वरा तुल्या चूर्णिता च निशा तथा ।चतुरस्रमथो निम्नं गर्तं हस्तप्रमाणकम् ॥८५॥कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक् ।ततः शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम् ॥८६॥पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत् ।तस्योपरि च पत्राणि समानि परितो न्यसेत् ॥८७॥चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत् ।पुटयेदग्निना सम्यक्स्वांगशीतं समुद्धरेत् ॥८८॥मृतं बंगं ततः पश्चान्मर्दयेत्पूरवारिणा ।समांशं रससिन्दूरं अनेन सह मेलयेत् ॥८९॥खल्वे दृढतरं पिष्ट्वा काचकूप्यां निवेशयेत् ।विपचेदग्नियोगेन यामषोडशमात्रया ॥९०॥हेमप्रभं मृतं बंगं जायते रसवङ्गकम् ।-तिनःः मृतःः मेदिच्- प्रोपेर्तिएस्-बंगं वातकरं रूक्षं तिक्तं मेहप्रणाशनम् ।मेदःकृम्यामयघ्नं हि कफदोषविषापहम् ॥९१॥सर्वरोगान्हरत्याशु शक्तिदायि गुणाधिकम् ॥९२॥यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम् ।अशीतिर्वातजान्रोगान्तथा मेहांश्च विंशतिः ।हन्ति भक्षणमात्रेण सप्तकैकेन नान्यथा ॥९३॥-तिनःः मृतःः मेदिच्- प्रोपेर्तिएस्-बंगं वातकरं रूक्षं प्रोक्तं मेहप्रणाशनम् ।कृमिमेदामयघ्नं हि कफदोषविषापहम् ॥९४॥-लेअदःः परीक्षाःः गूद्क़ुअलित्य्-छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावं अथोज्ज्वलम् ।कृष्णवर्णं बहिः शुद्धं नागं हितमतोऽन्यथा ॥९५॥-लेअदःः शोधन-दालयेच्च रसे नागं सिन्दुवारहरिद्रयोः ।एवं नागो विशुद्धः स्यान्मूर्च्छास्फोटादि नाचरेत् ॥९६॥-लेअदःः मारण-शुद्धनागस्य पत्राणि सदलान्येव कारयेत् ।शिलां वासारसेनापि मर्दयेद्याममात्रकम् ॥९७॥पत्राण्यालेपयेत्तेन ततः संपुटके न्यसेत् ।पुटेन विपचेद्धीमान्वाराहेण खराग्निना ।एवं कृते त्रिवारेण नागभस्म प्रजायते ॥९८॥-लेअदःः मारण-अथापरप्रकारेण नागमारणकं भवेत् ।लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत् ॥९९॥चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजैः ।अधस्ताज्ज्वालयेत्सम्यखठाग्निं म्रियते ध्रुवम् ।रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत् ॥१००॥जायते सर्वकार्येषु रोगोच्छेदकरं सदा ।नागस्य मारणं प्रोक्तं बहुधा बहुभिर्बुधैः ॥१०१॥सर्वथा सूतनागस्य शंभोश्च मरणं नहि ॥१०२॥-लेअदःः मृतःः मेदिच्- प्रोपेर्तिएस्-प्रमेहान्वातजान्रोगान्धनुर्वातादिकान्गदान् ।विंशतिश्लेष्मजांश्चैव निहन्ति च न संशयः ॥१०३॥-ब्रस्सःः सुब्त्य्पेस्-पित्तलं द्विविधं प्रोक्तं रीतिका काकतुंडिका ।-रीतिकाःः परीक्षा-तप्ता तुषजले क्षिप्ता शुक्लवर्णा तु रीतिका ॥१०४॥-काकतुण्डीःः परीक्षा-निक्षिप्ता कांजिके कृष्णा सा स्मृता काकतुण्डिका ॥१०५॥-ब्रस्सःः परीक्षाःः गूद्क़ुअलित्य्-पीताभा मृदु चेद्गुर्वी साराङ्गी हेमवर्णिका ।मसृणाङ्गी तु सुस्निग्धा शुभा रीतीति कथ्यते ॥१०६॥-ब्रस्सःः परीक्षाःः बद्क़ुअलित्य्-दुर्गन्धा पूतिगन्धा वा खरस्पर्शा च पाण्डुरा ।घनघाताक्षमा रूक्षा रीतिर्नेष्टा रसायने ॥१०७॥-ब्रस्सःः शोधन-तापिता चैव निर्गुंडी रसे क्षिप्ता प्रयत्नतः ।पञ्चवाराणि चायाति शुद्धिं रीतिस्तु तत्क्षणात् ॥१०८॥-ब्रस्सःः मारण-शिलागंधकसिन्धूत्थ रसैश्चातिप्रमर्दितैः ।रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुनः ।सद्यो भस्मत्वमायान्ति ततो योज्या रसायने ॥१०९॥-ब्रस्सःः रीतिकाःः मृतःः मेदिच्- प्रोपेर्तिएस्-रक्तपित्तहरा रूक्षा कृमिघ्नी रीतिका मता ।-ब्रस्सःः काकतुण्डिकाःः मृतःः मेदिच्- प्रोपेर्तिएस्-काकतुंडा कुष्ठहरा सोष्णवीर्या सरा मता ॥११०॥-ब्रोन्ज़ेःः प्रोदुच्तिओन्-चतुर्भागेन रविणा भागैकं त्रपु चोत्तमम् ।जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम् ॥१११॥-ब्रोन्ज़ेःः शोधन-तप्तं कांस्यं गवां मूत्रे सप्तवारेण शुध्यति ।-ब्रोन्ज़ेःः मारण-हरितालकगंधाभ्यां म्रियते पञ्चभिः पुटैः ॥११२॥-ब्रोन्ज़ेःः मृतःः मेदिच्- प्रोपेर्तिएस्-मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम् ।शुद्धे कांस्यभवे पात्रे सर्वमेव हि भोजनम् ।पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम् ॥११३॥-वर्तलोहःः प्रोदुच्तिओन्-लोहकांस्यार्करीतिभ्यो जातं तद्वर्तलोहकम् ।तदेव विडलोहाख्यं विद्वद्भिः समुदाहृतम् ॥११४॥-वर्तलोहःः शोधन-हयमूत्रे द्रुतं सम्यक्निक्षिप्तं शुद्धिमृच्छति ।-वर्तलोहःः मारण-गन्धतालेन पुटितं म्रियते वर्तलोहकम् ॥११५॥-वर्तलोहःः मृतःः मेदिच्- प्रोपेर्तिएस्-श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा ।नेत्ररोगप्रशमनं गलरोगनिबर्हणम् ॥११६॥पथ्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम् ।क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम् ॥११७॥संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि ।अन्यानि शास्त्राणि सुविस्तराणि निरीक्ष्य यत्नात्कृतमेव सम्यक् ॥११८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP