संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः| अध्यायः ६१ श्री नारदीयमहापुराणम् : उत्तरभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ उत्तरभागः - अध्यायः ६१ `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण अध्यायः ६१ Translation - भाषांतर वसुरुवाच॥एवं तदा विधिसुते कृष्णं रामेण संगतम्॥सुभद्रां च महाभागाः संस्तुवंति मुदान्विताः ॥१॥देवो ऊचुः॥जय जय लोकपाल जय पद्मनाभ भूधरणा॥जय जय चादिदेव बहुकारणा ॥२॥जय जय वासुदेव जय सच्चरण सत्करण॥जय जय दिव्यमीन जयत्रिदशवर ॥३॥जय जय जलधिशयन जय जय योगेश जय देवधरा॥जय जय विश्वमूर्ते जय चक्रधरा ॥४॥जय जय भूतनाथ जय श्रीनिवास जय जय योगिवर॥जय जय सूर्यनेत्र जय देव वराह ॥५॥जय जय कैटभारे जय जय वेदवर॥जय जय कूर्मरूप जय यज्ञवर ॥६॥जय जय कमलनाभ जय शैलधर॥जय जय योगेश जय वेगधर ॥७॥जय जय विश्वमूर्ते जय चक्रधर॥जय जय भूतनाथ जय धरणीधर ॥८॥जय जय शेषशायिञ्जय पीतवास॥जय सोमकान्त जय योगवास जय जय ॥९॥दहनचक्र जय धर्मवास जय जय॥गुणनिधान जय श्रीनिवास जय जय ॥१०॥गरुडासन जय सुखनिवास जय जय॥जय जय धर्मकांत जय जय मतिनिवास ॥११॥जय जय गहनगेहनिवास॥जय जय योगिगम्य जय मखनिवास ॥१२॥जय जय वेदवेद्य जय शांतिकर॥जय जय योकिचिंत्य जय पुष्टिकर ॥१३॥जय जय ज्ञानमूर्ते जय कमलाकर॥जय जय भाववेद्य जय मुक्तिकर ॥१४॥जय विमलदेह जय जय सत्त्वनिलय॥जय जय गुणसमूह जय जय यज्ञकर ॥१५॥जय जय गुणविहीन जय जय मोक्षकर॥जय जय भूहिरण्य जय जय कांतियुत ॥१६॥जय लोकशरण जय जय लक्ष्मीपते॥जय पंकजाक्ष जय जय सृष्टिकर ॥१७॥जय योगयुत जयातसीकुसुमश्यामदेह॥जय जय समुद्राविष्टदेह जय लक्ष्मीपंकजभोगदेह ॥१८॥जय जय भक्तिभावन लोकगेय॥जय लोककांत जय परमशांत ॥१९॥जय जय परमसार जयचक्रधर॥जय भोगियुत जय नीलांबर ॥२०॥जय सांख्यनुत जय कलुषहर॥जय कृष्ण जगन्नाथ जय संकर्षणानुज ॥२१॥जय जय पद्मपलाशाक्ष जय वांछितफलप्रद॥जय मालावृतोरस्क जय चक्रगदाधर ॥२२॥जय पद्मालयाकांत जय विष्णो नमोऽस्तु ते॥एवं स्तुत्वा तदा देवाः शक्राद्या दृष्टमानसाः ॥२३॥सिद्धचारणगंधर्वा ये चान्ये स्वर्गवासिनः॥दृष्ट्वा स्तुत्वा नमस्कृत्य तद्गतेनान्तरात्मना ॥२४॥कृष्णं रामं सुभद्रां च यांति स्वं स्वं निवेशनम्॥कपिलाशतदानेन यत्फलं पुष्करे स्मृतम् ॥२५॥तत्फलं कृष्णमालोक्य मंचस्थं सहलायुधम्॥कन्याशतप्रदानेन यत्फलं समुदाहृतम् ॥२६॥तत्फलं कृष्णमालोक्य मंचस्थँ लभते नरः॥शतनिष्कसुवर्णेन भूमिदानेन यत्फलम् ॥२७॥तत्फलं चान्नदानेन सर्वातिथ्येन यत्फलम्॥वृषोत्सर्गेण विधिवद् ग्रीष्मे तोयप्रदानतः ॥२८॥तिलधेनुप्रदानेन गजाश्वरथदानतः॥चांद्रायणेन चीर्णेन तथा मासोपवासतः ॥२९॥यत्फलं सर्वतीर्थेषु व्रतैर्दानैश्च यत्फलम्॥ससुभद्रौ रामकृष्णौ तल्लभेद्वीक्ष्यमंचगौ ॥३०॥तस्मान्नरोऽथवा नारी पश्येत्तं पुरुषोत्तमम्॥स्नानशेषेण कृष्णस्य तोयेन यदि मोहिनि ॥३१॥वंध्या मृतप्रजा वापि दुर्भगाग्रहपीडिताः॥राक्षसाद्यैर्गुहीता वा तथा रोगैश्च संहताः ॥३२॥सद्यस्ताः शुद्धिमायांति विधिना ह्यभिषेचिताः॥प्राप्नुंवितीप्सितान्कामान्यान्यान्वांछंति सुप्रभे ॥३३॥पुण्यानि यानि तोयानि संत्यन्यानि धरातले॥तानि स्नातावशेषस्य कलां नार्हंति षोडशीम् ॥३४॥तस्मात्स्नानावशेषेण जलेन जलशायिनः॥अभ्युक्षेत्सर्वगात्राणि सर्वकामप्रदेन च ॥३५॥स्नातं पश्यंति ये कृष्णं व्रजंतं दक्षिणामुखम्॥ब्रह्महत्यादिभिः पापेर्मुच्यंते ते न संशयः ॥३६॥शास्त्रेषु यत्कलं प्रोक्तं त्रिः प्रदक्षिणया भुवः॥दृष्ट्वा नरो लभेत्कृष्णं तत्फल दक्षिणामुखम् ॥३७॥तीर्थयात्राफलं यत्तु पृथिव्यां समुदाहतम्॥दृष्ट्वा यांतं लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥३८॥ गंगाद्वारे च कुब्जाम्ने कुरुक्षेत्रेऽर्कपर्वणि॥पुष्करादिषु चान्येषु यत्फलं स्नानतः स्मृतम् ॥३९॥यत्फलं दक्षिणास्यं तु कृष्णं यांतं निरीक्ष्य च॥अत किं बहुनोक्तेन यत्फलं पुण्यकर्मणः ॥४०॥वेदशास्त्रपुराणेषु भारते संहितादिषु॥तत्फलं वीक्ष्य दक्षास्यौ सुभद्रौ बलकेशवौ ॥४१॥गुंडिचामंडपं यांतं ये पश्यंति रथे स्थितम्॥सभद्रं सबलं कृष्णं ते यांति भवनं हरेः ॥४२॥गुंडिचायानसमये फाल्गुन्यां विषुवे तथा॥सकृद्यात्रां नरः कृत्वा विष्णुलोकं प्रगच्छति ॥४३॥यावतीः कुरुते मर्त्त्यो यात्राः श्रीपुरुषोत्तमे॥तावत्कल्पं विष्णुलोके वसेदिति विनिश्चयः ॥४४॥यात्रा द्वादश संपूर्णा यदा स्युर्विधिनंदिनि॥तदा प्रतिष्ठां कुर्वीत विधिना पापनाशिनि ॥४५॥ज्येष्ठमासि सिते पक्षे ह्येकादश्यां समाहितः॥गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥४६॥आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा॥ततः स्नानं प्रकुर्वीत विधिबोधितवर्त्मना ॥४७॥स्नात्वा सम्यक्ततो देवानृषींश्चापि पितॄन्स्वकान्॥संतर्पयेत्तथान्यांश्च नामगोत्रोक्तिपूर्वकम् ॥४८॥उत्तीर्य वाससी धौते निर्मले परिधाय च॥उपस्पृश्य विधानेन तथोपकस्थाय भास्करम् ॥४९॥वेदमातरमावर्त्य पुण्यामष्टोत्तरं शतम्॥सौरमन्त्रांस्तथा चान्यांस्त्रिः परीत्य नमेद्रविम् ॥५०॥वेदोक्तं त्रिषु वर्णेषु स्नानं जप्यमुदाहृतम् ॥५१॥स्त्रीशूद्रयोर्वरारोहे वेदोक्तविधिवर्जितम्॥ततो व्रजेन्मंदिरस्थं भक्त्या श्रीपुरुषोत्तमम् ॥५२॥प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि॥घृतेन स्नापयेद्देवं क्षीरेण तदनंतरम् ॥५३॥मधुगंधोदकेनापि तीर्थचंदनवारिणा॥ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् ॥५४॥चंदनागुरुकर्पूरैः कुंकुमेन विलेपयेत्॥पूजयेत्परया भक्त्या पद्मैश्च पुरषोत्तमम् ॥५५॥संपूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम्॥धूपं चागुरुसंयुक्तं देहे देवस्य चाग्रतः ॥५६॥गुग्गुलं च सुनिष्पूतं दहेदूघृतसमन्वितम्॥दीपं प्रज्वालयेद्भक्त्या यथाशक्ति घृतेन वै ॥५७॥अन्याँश्च दीपकान्दद्याद्द्वादर्शैव समाहितः॥गोघृतेन तु देवेशि तिलतैलेन वा पुनः ॥५८॥नैवेद्यं पायसा पूपशष्कुलीवेटकानि च॥मोदकं फाणिकं चान्यत्फलानि च निवेदयेत् ॥५९॥एवं पंचोपचारेण संपूज्य पुरुषोत्तमम्॥ॐ नमः पुरुषोत्तमायेति जपेदष्टोत्तरं शतम् ॥६०॥ततः प्रसादयेद्देवं दंडवत्प्रणिपत्य चत॥ततोऽचर्येद्गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः ॥६१॥नानयोरंतरं यस्माद्विद्यते विधिर्नंदिनि॥देवस्योपरि कुर्वीत मंडपं सुसमाहितः ॥६२॥नानापुष्पैः सुविशदं विचित्रं मंडलं पुरः॥कृत्वावधारणं पश्चाज्जागरं कारयेन्निशि ॥६३॥कथां च वासुदेवस्य गीतिकां चापि कारयेत्॥ध्यायन्पठन्स्तुवन्देवं प्रणयेद्रजनीं बुधः ॥६४॥ततः प्रभाते विमले द्वादश्यां द्वादशैव तु॥निमंत्रयेद्व्रतस्नातान्ब्रह्मणान्वेदपारगान् ॥६५॥इतिहासपुराणज्ञाञ्छो त्रियान्संयतेंद्रियान्॥स्नात्वा सम्यग्विधानेन धौतवासा जितेंद्रियः ॥६६॥स्नापयेत्पूर्ववद्भक्त्या तत्रस्थं पुरुषोत्तमम्॥गंधैः पुष्पैः स्तूपहारैर्नैवेर्द्यैदैर्पिकैस्तथा ॥६७॥उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः॥जाप्यस्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः ॥६८॥संपूज्यैवं जगन्नाथं ब्राह्मणान्पूजयेत्ततः॥द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च ॥६९॥छत्रोपानद्युगं चार्प्य कांस्यपात्रं च भक्तितः॥ततस्तान्भोजयेद्विप्रान्भोज्यंम पायसपूर्वकम् ॥७०॥पक्वान्नं भक्ष्यभोज्यं च सगुडं शर्करान्वितम्॥ततो भुक्त्वा सुसंतृप्तान्ब्राह्मणान्सुस्थमानसान् ॥७१॥द्वादशैवोदकुंभांश्च ग्राहयेत्तान्समोदकान्॥दक्षिणां च यथाशक्ति विष्णुतुल्यं विरिंचिजे ॥७२॥सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चन्यैर्वरैर्बुधः॥संपूज्य तान्नमस्कृत्य इमं मंत्रमुदीरयेत् ॥७३॥सर्वव्यीपी जगन्नाथः शंखचक्रगदाधरः॥अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥७४॥इत्युच्चार्य ततो विप्रांस्त्रिः परिक्रम्य सादरम्॥प्रणम्य शिरसा भक्त्या साचार्यांस्तान्विसर्जयेत् ॥७५॥ततस्तान्ब्राह्मणान्भक्त्या चासीमांतमनुव्रजेत्॥अनुव्रज्य तु तान्विप्रान्नमस्कृत्य निवर्त्य च ॥७६॥बांधवैः स्वजनैर्युक्तस्ततो भुंजीतवाग्यतः॥एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम् ॥७७॥अश्वमेधसहस्रस्य राजसूयशतस्य च॥अतीतं शतमुद्धृत्य पुरुषाणां नरोत्तमः ॥७८॥भविष्यच्च शतं देवि दिव्यरूपधरोऽव्ययः॥सर्वलक्षणसंपन्नः सर्वालंकारभूषितः ॥७९॥सर्वकामसमृद्धात्मा गुणरूपवयोऽन्वितः॥स्तूयमानोऽथ गंधर्वैरप्सरोभिः समंततः ॥८०॥विमानेनार्कवर्णेन कामगेन स्थिरेण च॥पताकाध्वजयुक्तेन शतसूर्यप्रभेण च ॥८१॥उद्योतयन्दिशः सर्वा आकाशे विगतक्लमः॥युवा महाबलो धीमान्विष्णुलोकं स गच्छति ॥८२॥तत्र कल्पशतं यावद्भुङ्कते भोगान्यथेप्सितान्॥स्तुतो मुनिवरैर्देवि तिष्ठेश्च विगतज्वरः ॥८३॥यथा देवो जगन्नाथः शंखचक्रगदाधरः॥तथाऽसौ मुदितो देवि धृत्वा रूपं चतुर्भुजम् ॥८४॥भुक्त्वा तत्र वरान्भोगान्क्रीडित्वा सुचिरं सति॥तदंते ब्रह्मसदनमायात्यखिलकामदम् ॥८५॥सिद्धविद्याधरैश्चापि शोभितं सुरकिन्नरैः॥कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः ॥८६॥रुद्रलोकं समायाति मुखदं सेवितं सुरैः॥सिद्धविद्याधरै र्यक्षैर्भूषितं दैत्यदानवैः ॥८७॥अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः॥तदंते याति गोलोकं सर्वभोगसमन्वितम् ॥८८॥सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम्॥तत्र सप्ततिकल्पं तु भुक्त्वा भोगानभीप्सितान् ॥८९॥पश्चादायाति वै लोकं प्राजापत्यमनुत्तमम्॥षष्टिकल्पं सुखं तत्र भुक्त्वा नानाविधं मुदा ॥९०॥तदंते शक्रभवनं नानाश्चर्यं समाव्रजेत्॥आगत्य तत्र पंचाशत्कल्पं भुक्त्वा सुखं नरः ॥९१॥प्रपद्यतेऽमरगृहान्विमानैः समलङ्कृतान्॥चत्वारिंशत्कत्ल्पकालं भोगान्भुक्त्वा सुदुर्लभान् ॥९२॥नाक्षत्रं लोकमायाति नानासौख्य समन्वितम्॥तत्र भुक्त्वा वरान्भोगांस्त्रिंशत्कल्पं यथेप्सितान् ॥९३॥तस्माद्गच्छति तं लोकं शशांकस्य विरिंचिजे॥यत्र तिष्ठति सोमोऽसौ सर्वदेवैरलंकृतः ॥९४॥तत्र विंशतिकल्पं तु भुक्त्वा भोगं सुदुर्लभम्॥आदित्यस्य ततो लोकमायाति सुरपूजितम् ॥९५॥तत्र भुक्त्वा शुभान्भोगन्दशकल्पं सुनिर्वृतः॥तस्मादायाति भवनं गंधर्वाणां सुदुर्लभम् ॥९६॥तत्र भोगान्समस्तांश्च कल्पमेकं यथासुखम्॥भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥९७॥चक्रवर्ती महावीर्यो गुणैः सर्वैरलंकृतः॥कृत्वा राज्यं तु धर्मेण यज्ञैरिष्ट्वा सदक्षिणैः ॥९८॥तदंते योगिनां लोकं गत्वा मोक्षप्रदं शिवम्॥तत्र भुक्त्वा वरान्भोगान्यावदाभूतसंप्लवम् ॥९९॥तस्मात्पुनरिहायातो जायते योगिनां कुले ॥१००॥प्रवरे वैष्णवे भद्रे दुर्लभे साधुसंमते॥चतुर्वेदी विप्रवरो ब्रह्मयज्ञपरः सति ॥१०१॥वैष्णवं योगमासाद्य कैवल्यं मोक्षमाप्नुयात्॥एवं यात्राफलं तुभ्यं प्रोक्तं श्रीपुरुषोत्तमे ॥१०२॥भुक्तिमुक्तिप्रदं नॄणां किमन्यच्छ्रोतुमिच्छसि ॥१०३॥इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तमक्षेत्रमाहात्म्ये पुरुषोत्तमक्षेत्रयात्रा फलवर्णनंनामैकषष्टितमोऽध्यायः ॥६१॥ N/A References : N/A Last Updated : May 09, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP