संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः २९

उत्तरभागः - अध्यायः २९

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


काष्ठीलोवाच॥
एवं सा राक्षसी सुभ्रु हस्तिनीरूपधारिणी॥
त्रिभिर्मुहूर्तैः संप्राप्ता काशीं विश्वेशमंदिरम् ॥१॥

उवाच तां पुरीं प्राप्य भर्तारमसितेक्षणा॥
इयं पापतरोः कांत कुठारा परिकीर्तिता ॥२॥

षडूर्मिकांचनस्यैषा कांत प्रोक्ता दुरोदरी॥
कर्मबीजोपशमनी सर्वेषां गतिदायिका ॥३॥

आद्यं हि वैष्णवं स्थानं पुराणाः संप्रचक्षते॥
नावैष्णवे स्थले मुक्तिः सर्वस्य तु कदाचन ॥४॥

माधवस्य पुरी चेयं पूर्वमासीद्द्विजोत्तम॥
मुक्तिदा सर्वजंतूनां सर्वपापप्रणाशिनी ॥५॥

एकदा शंकरो देवो द्रष्टुं प्रागात्पितामहम्॥
सर्वलोकैककर्तारं भ्राजमानं स्वतेजसा ॥६॥

गत्वा तत्र महादेवो ब्रह्माणं जगतां गुरुम्॥
नमस्कृत्य स्थितो ह्यग्रे वेदपाठं निशामयन् ॥७॥

चतुर्भिरद्भुतैवक्त्रैश्चतुरो निगमान्मुदा॥
उद्गिरंतं जगन्नाथं दृष्ट्वा प्रीतोऽभवत्तदा ॥८॥

अथ तत्पंचमं वक्त्रं ब्रह्मणो भूतनायकः॥
प्रगल्भं तमुपालक्ष्य क्षणाज्जातः समत्सरः ॥९॥

स क्रोधजन्मा विप्रेंद्र तस्य प्रागल्भ्यमक्षमन्॥
चकर्त तन्नखाग्रेण खस्थं वक्त्रं त्रिलोचनः ॥१०॥

तच्छिन्नं ब्रह्मणः शीर्षं संलग्नं करपल्लवे॥
वामे निर्धूतमानिशं न निवृत्तं द्विजोत्तम ॥११॥

ब्रह्मा तु दुःखितो भूत्वा तस्थौ स्थाणुं व्यलोकयन्॥
रुद्रोऽपि लज्जितो भूत्वा निर्ज्जगाम त्वरान्वितः ॥१२॥

बहुधा यतमानोऽपि तच्छिरः क्षेप्तुमातुरः॥
न शशाक परित्यक्तुं तदद्भुतमभून्महत् ॥१३॥

चिंतया व्याकुलो भूत्वा सस्मार गरुडध्वजम्॥
तेन संस्मृतमात्रस्तु शीघ्रमाविरभूच्च सः ॥१४॥

तं दृष्ट्वा देवदेवेशं विष्णुं सर्वगतं द्विज॥
ननाम शिरसा नम्रो निष्प्रभो वृषभध्वजः ॥१५॥

तं तथातुरमालक्ष्य भीतं ब्रह्मद्रुहं हरिः॥
समाश्वास्या ब्रवीद्वाक्यं तत्तोषपरिकारकम् ॥१६॥

शंभो त्वया कृतं पापं यच्चिन्नं ब्रह्मणः शिरः॥
तत्फलं भुंक्ष्व संर्वज्ञ कियत्कालं कृतं स्वयम् ॥१७॥

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्॥
नाभुक्तं क्षीयते कर्म ह्यपि जन्मशतैः प्रिय ॥१८॥

किं करोमि क्व गच्छामि त्वां दृष्ट्वा दुःखितं हरम्॥
प्राणा विकलतां यांति मम त्वद्दुःखदर्शनात् ॥१९॥

यानि कानि च पापानि महांति महतां गते॥
न तानि ब्रह्महत्यायाः समानीति मतिर्मम ॥२०॥

यस्त्वं सर्वस्य लोकस्य गुरुर्धर्मोपदेशकः॥
ब्रह्महत्याभिभूतस्तु क्षणं स्थातुं न च क्षमः ॥२१॥

एषा घोरतरा हत्या मीनगंध्या जरातुरा॥
लेलिहाना सुरेशान ग्रहीतुं त्वानुधावति ॥२२॥

तस्मान्नैकत्र भवता स्थेयं द्वादशबत्सरम्॥
अटनीयं हितार्थाय पापनाशाभिकाम्यया ॥२३॥

अटित्वा द्वादशाब्दानि तीर्थेषु सकलेषु च॥
प्रक्षालयन्करं वामं भिक्षां गृह्णन्कपालके ॥२४॥

शुद्धिं यास्यसि देवेश पापादस्मात्सुदारुणात्॥
इत्युक्तो विष्णुना विप्र स्थाणुः सर्वगतोऽभवत् ॥२५॥

कपालमोचनार्थं हि पाणिं प्रक्षालयन् जले॥
वर्षत्रयं भ्रमित्वा तु प्राप्तो बदरिकाश्रमम् ॥२६॥

भिक्षार्थं देवदेवस्य धर्मपुत्रस्य मानद॥
द्वारस्थो देहि भिक्षां मे विष्णो इत्यवदन्मुहुः ॥२७॥

ततो नारायणो देवो दृष्ट्वा द्वारि स्थितं हरम्॥
गृहाण भिक्षामित्युक्त्वा प्रददौ दक्षिणं करम् ॥२८॥

ततो हरो हरिं दृष्ट्वा भिक्षां दातुं समुद्यतम्॥
प्राहरद्दक्षिणं पाणिं त्रिशूलेन द्विजोत्तम ॥२९॥

तत्त्रिशूलक्षताद्धारास्तिस्रो लोकभयंकराः॥
प्रस्थद्वादशहस्ताश्च निर्गताश्चित्रवर्णिकाः ॥३०॥

एका क्षतजधारा तु कपाले न्यपतत्तदा॥
द्वितीया तन्मुखे प्राप्ता पयस्याथ तृतीयका ॥३१॥

जलधारा शिवं प्राप्ता हरस्य हेतुरग्रतः॥
ता धारास्त्रीणि वर्षाणि संसेव्य विधिवद्धरः ॥३२॥

किंचित्प्रीतो ययौ क्षेत्रं कुरोः पुण्यकरं द्विज॥
तत्र गत्वा हरः स्थाणुर्भूतस्तत्र पपात च ॥३३॥

ब्रह्मह्रदे त्रिवर्षाणि मग्रो ब्रह्मह्रदांबुनि॥
वर्षत्रये गते तत्र क्षतार्द्धांगो विनिःसृतः ॥३४॥

चिरं तुष्टाव देवेशं विष्णुं सर्वगुहाशयम्॥
ततस्तुष्टो जगन्नाथो वरं तस्मै ददौ तु सः ॥३५॥

गच्छ काशीमितो भ्रांत्वा तीर्थानि बहुशो हर॥
ततो हरिं नमस्कृत्य परीत्य बहुधा तथा ॥३६॥

क्रमात्तीर्थाटनं कुर्वन्नविमुक्तपुरीं गतः॥
अविमुक्तस्य सीमायां प्राविशद्वीक्ष्तय धूर्जटिः ॥३७॥

नापश्यत्तामनुप्राप्तां ब्रह्महत्यां बहिः स्थिताम्॥
ततोऽसौ वैष्णवं ज्ञात्वा क्षेत्रं दुरितनाशनम्॥
तुष्टाव प्रयतो भूत्वा माधवं वंद्यमीश्वरम् ॥३८॥

जय जय जगदीश नाथ विष्णो जगदानंदनिधान वेदवेद्य॥
मधुमथन नृसिंह पीतवासो गरुडाधिष्ठित माधवादिदेव ॥३९॥

व्रजरमण रमेश राधिकेश त्रिदशेशाखिलकामपूर कृष्ण॥
सुरवरकरुणार्णवार्तिनाशिन्नलिनाक्षाधिपते विभो परेश ॥४०॥

यदुकु लतिलकाब्धिवास शौरे कुधरोद्धारविधानदक्ष धन्विन्॥
कलिकलुषहरांघ्रिपद्मयुग्म गृणदात्मप्रद कूर्म कश्यपोत्थ ॥४१॥

कुकुपतिवनपावकाखिलेज्यास्रपकालासितवस्त्र बुद्ध कल्किन्॥
भवभयहर भक्तवश्य गोप प्रणत्तोद्धारक पुण्यकीर्तिनाम् ॥४२॥

धरणिभरहरासुरारिपूज्य प्रकृतीशेश जगन्निवास राम॥
गुणगणविलसच्चराचरेश त्रिगुणातीत सनातनाग्रपूज्य॥
निजजनपरिरक्षितान्तकारे कमलाङ्घ्रे कमनीय पद्मनाभ॥
कमलकर कुशेशयाधिवास प्रियकामोन्मथन त्र्यधीशवंद्य ॥४३॥

अघहर रघुनाथ यादवेश प्रियभूदेव परात्परामरेज्य॥
हलधर दुरितापह प्रणम्य त्रिगुणव्याप्त जगत्त्रिकालदक्ष ॥४४॥

दनुजकुलविनाशनैककर्मन्ननघारूढफणीश कंसकाल॥
रविशशिनयन प्रगल्भचेष्ट प्रधुतध्वांत नवांबुदाभ मेश ॥४५॥

मख मखधर मातृबद्धदामन्नवनीतप्रिय बल्लवीगणेश॥
अघबकवृषकेशिपूतनांत त्रिशिरोवालिदशास्यभेदकारिन् ॥४६॥

नरकमुरविनाश बाणदोः कृत्त्रिपुरारीज्य सुदाममित्र सेव्य॥
भवतरणिवहित्रपादपद्म प्रकटैश्वर्य पुराण पूर्णबाहो ॥४७॥

बहुजनिसुकृताप्य मंगलार्ह श्रुतिवेद्य श्रुतिधाम शांतशुद्ध॥
तव वरद वरेण्यमंघ्रियुग्मं शरणं प्राप्तमघार्दितं प्रपाहि ॥४८॥

नहि मम गतिदं पुराणपुंसोऽन्यदिति प्रार्थनया प्रसीदऽमेद्य ॥४९॥

इति स्तुतो जगन्नाथो भक्त्या देवेन शंभुना॥
आविर्बभूव सहसा माधवो भक्तवत्सलः ॥५०॥

तं दृष्ट्वा दंडवद्भूमौ निपपात हरो हरिम्॥
पुनरुत्थाय विप्रेंद्र ननाम विधृतांजलिः ॥५१॥

तमुवाच हृषीकेशः प्रणतं भूतनायकम्॥
वरं वृणु प्रदास्येऽहं संतुष्टः स्तोत्रतस्तव ॥५२॥

तच्छ्रुत्वा भगवद्वाक्यं भूतेशो ब्रह्यहत्यया॥
पीडितात्मा जगादेदं भुक्तिमुक्तिप्रदं हरिम् ॥५३॥

इच्छामि वसितुं क्षेत्रे तव चक्रगदाधर॥
त्वत्क्षेत्रसीमाबाह्यस्था ब्रह्महत्या यदीक्ष्यते ॥५४॥

क्षेत्रदानेन कारुण्यं कुरु मे गरुडध्वज॥
मम निर्गमने ब्रह्महत्या मां पुनरेष्यति ॥५५॥

त्वत्क्षेत्रे संस्थितोऽहं तु पूजां प्राप्स्ये जगत्त्रये॥
इत्युक्त्वा ह्यभवत्तूष्णीं देवदेवं वृषध्वजः ॥५६॥

तथेति प्रतिपेदे च क्षीरसागरजाप्रियः॥
ततः प्रभृति विप्रेंद्र शैवं क्षेत्रं निगद्यते ॥५७॥

क्षेत्रं तु केशवस्येदं पुराणं कवयो विदुः॥
कृपया संपरीतस्य माधवस्य द्विजोत्तम ॥५८॥

नेत्राभ्यां निर्गतं वारि तेन बिंदुसरोऽभवत्॥
माधवस्याज्ञया तत्र सस्नौ देवो वृषध्वजः ॥५९॥

स्नातमात्रे हरे तत्तु कपालं पाणितोऽपतत्॥
कपालमोचनं नाम तत्तीर्थं ख्यातिमागतम् ॥६०॥

बिंदुमाधवनामासौ दत्वा स्वं धाम शूलिने॥
भक्तिभावेन शंभुस्तु निबद्धस्तत्र संस्थितः ॥६१॥

यं तु ब्रह्मादयो देवाः स्वःस्थाः पश्यति सर्वदा॥
सूर्यायुतसमप्रख्य दिगंबरनिषेवितम् ॥६२॥

विघ्नानि शूलिना कांत कृतान्यस्य निषेवणे॥
यैर्विघ्नैरभिभूतास्तु स्तुत्वा विष्णुं शिवार्चकाः ॥६३॥

सर्वे लोकाः स्थिता ह्यत्र शिवः काशीति चिंतकाः॥
शिवस्य चिंतनाद्विप्र शैवाः सर्वे निराकुलाः ॥६४॥

प्रयांति शिवलोकं वैजरामृत्युविवर्जितम्॥
बहुपुण्ययुताः संतो निवसंत्तयत्र नीरुजः ॥६५॥

यज्ञशिष्टाशिनः काशीकांत ऋद्धिसमन्विताः॥
नात्र स्नानं प्रशंसंति न जपं न सुरार्चनम् ॥६६॥

नापि दानं द्विजश्रेष्ठ मुक्त्वैकं देहपातनम्॥
मृत्युं प्रात्युं नरः कामं कृतकृत्यो भवेद्ध्रुवन् ॥६७॥

सेयमासादिता विप्रर पुरी प्रासादसंकुला॥
भोगिनीमपि मोक्षाय किं पुनर्व्रतधारिणाम् ॥६८॥

निक्षिप्यतामियं बाला काशीशस्येह मंदिरे॥
वियोजिता तु या पूर्वं तेन दुष्टेन रक्षसा ॥६९॥

आत्मनः सुरतार्थाय कुमारी नियमान्विता॥
एष प्रभावोऽपि हितः क्षेत्रस्यास्य द्विजोत्म । २९-७०॥

विनश्यंतीह कर्माणि शुभान्यप्यशुभानि च॥
भूतव्यभविष्याणि ज्ञानाज्ञानकृतानि च ॥७१॥

एषा पुरी कर्मविनाशनाय कृष्णेन पूर्वं हि विनिर्मिताभूत्॥
यस्यां मृता दुःखमनंतमुग्रं भुंजंति मर्त्या यमयातनां नो ॥७२॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने राक्षसीचरिते काशीवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP