संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ४

उत्तरभागः - अध्यायः ४

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


यम उवाच॥
श्रृणु मे वचनं नाथ पितामह पितामह॥
मरणादधिकं देव यत्प्रतापस्य खंडनम् ॥१॥

निस्पृहो नाचरेद्यस्तु नियोगं पद्मसंभव॥
अन्धकूपे निपतति स चाशु नरके ध्रुवम् ॥२॥

नियोगी न नियोगं यः करोति कमलासन॥
प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः ॥३॥

योऽश्नाति लोभाद्वित्तानि प्रजाभ्यो वा महीपतेः॥
नियोगी नरकं याति यावत्कल्पशतत्रयम् ॥४॥

आत्मकार्यपरो यस्तु स्वामिनं च विलुंपति ।
भवेद्वेश्मनि मंदात्मा आखुः कल्पशतत्रयम् ॥५॥

नियोगी यस्तु वै भूत्वा आत्मवेश्मनि भोक्ष्यति॥
भृत्यान्वै कर्मकरणे राज्ञो मार्जारतां व्रजेत् ॥६॥

सोऽहं देव तवादेशात् प्रजा धर्मेण शासयन्॥
पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा ॥७॥

सम्यग्विचार्य मुनिभिर्घर्मशास्त्रादिभिर्विभो॥
कल्पादौ वर्तमानस्य यावद्यावद्दिनं तव ॥८॥

सोऽहं त्वदीयेन विभो नियोगेनैव शक्नुयाम्॥
कर्तुं रुक्मांगदेनाद्य पराभूतो हि भूभुजा ॥९॥

भयाद्यस्य जगन्नाथ पृथिवी सागरांबरा॥
न भुंक्ते वासरे विष्णोः सर्वपापप्रणाशने ॥१०॥

विहाय सर्वधर्मांस्तु विहाय पितृपूजनम्॥
विहाय देवपूजां च तीर्थस्नानादिकव्सक्रियाम् ॥११॥

योगसांख्यावुभौ त्यक्त्वा ज्ञानं ज्ञेयं च मानद॥
त्यक्त्वा स्वाध्यायहोमांश्च कृत्वा पापानि भूरिशः ॥१२॥

प्रयांति वैष्णवं लोकमुपोष्य हरिवासरम्॥
मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः ॥१३॥

तेषामपीह पितरः पितॄणां पितरस्तथा॥
तथा मातामहा यांति मातुर्ये जनकादयः ॥१४॥

तेषामपि जनेतारो जनितॄणां हि पूर्वजाः॥
एतद्दुःखं पुनर्देव मम मर्मविभेदनम् ॥१५॥

प्रियायाः पितरो यांति मार्जयित्वा लिपिं मम॥
पितॄणां बीजतो यस्माद्धात्र्या कुक्षौ धृतो यतः ॥१६॥

यदेकः कुरुते कर्म तदेकेनैव भुज्यते॥
ततोऽन्यस्य कृतं ब्रह्मन्बीजं धात्रीसमुद्भवम् ॥१७॥

तारयेत्स उभौ पक्षौ यत्पिंडो यस्य विग्रहः॥
न भार्याया भवेद्वीजं न भार्या कुक्षिधारिणी ॥१८॥

कथं तस्या जगन्नाथ पक्षो याति परं पदम्॥
जामातुः पुण्यमाहात्म्यत्तेन मे शिरसो रुजा ॥१९॥

न मे प्रयोजनं देव नियोगेनेदृशेन वै॥
एकादश्युपवासी यः स मां त्यक्त्वा व्रजेद्धरिम् ॥२०॥

कुलत्रयं समुद्धृत्य आत्मना सह पद्मज॥
त्यक्त्वा तु मामकं मार्गं प्रयाति हरिमंदिरम् ॥२१॥

न यज्ञैस्तादृशैर्देव गतिं प्राप्नोति मानवः॥
न तीर्थैर्नापि दानैर्वा न व्रतैर्विष्णुवर्जितैः ॥२२॥

न जले पावके वापि मृतः प्राप्नोति तां गतिम्॥
योगेन संप्रणष्टो वा भृगुपातेन वा विधे ॥२३॥

तादृशीं न गतिं याति यादृशीं वैष्णवव्रती॥
गतिं मतिमतां श्रेष्ठ सत्यमेतदुदीरितम् ॥२४॥

हरेर्दिने धातृफलांगलिप्तो विमुक्तवांछारसभोजनो नरः॥
प्रयाति लोके धरणीधरस्य विदुष्टकर्मापि मनुष्यजन्मा ॥२५॥

सोऽहं निराशो भुवि हीनकर्मा तवागतः पादसरोजयुग्मम्॥
विज्ञप्ति मात्राभयदाप्तिकालं कुरुष्व सर्गस्थितिनाशहेतोः ॥२६॥

मास्युस्तदा पापकृतो विहीना यन्मामकैर्भूतगणैर्मनुष्याः॥
नियंत्रिताः श्रृंखलरज्जुबंधनैः समीपगा मे वशगा भवेयुः ॥२७॥

भग्नस्तु मार्गो रवितापयुक्तो यद्विष्णुसंघैरतितीव्रहस्तैः॥
विमुच्य कुंभीं सकलो जनौघः प्रयाति तद्धाम परात्परस्य ॥२८॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमवाक्यं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : May 08, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP