संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १९८१ - २००० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १९८१ - २००० Translation - भाषांतर ६९. कोकिलःधिक्कुब्जाम्बुजवेत्रवेतसवनान्येतानि यत्ते पिकव्याहारैः पणयादमीषु मधुरैरेभिः किमुन्मुद्रितैः ।नेह त्वत्सुहृदो रसालतरवः श्रुत्वा भवद्भाषितंयेषामस्थित्भिरप्युपात्तमुकुलैराविष्क्रियन्ते मुदः ॥१९८१॥हरेः ।उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासत्भूमौ नोपविशन्ति ये खलु रजः संपर्कतर्कादिव ।तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियंधिक्कष्टं परपुष्टतेति किमपि प्राचां फलं कर्मणाम् ॥१९८२॥तस्यैव ।उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतोमाकन्दानवलोक्य यः प्रतिदिशं सानन्दमुत्कूजितः ।तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावलीवाचालानुपलभ्य कोकिलयुवा जातः स वाचंयमः ॥१९८३॥तस्यैव ।दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतःकादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।दैवाद्यावदसौ रसालविटपिच्छायामनासादयन्निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥१९८४॥रामदासस्य । (शा.प. ८५०, सूक्तिमुक्तावलि १४.१४)परभृतशिशो तावन्मौनं विधेहि नभस्तलोत्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षणध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥१९८५॥अचलसिंहस्य । (सूक्तिमुक्तावलि १४.९, सु.र. १०५१)७०. शुकः प्रतिजागृहि दुस्त्यजं वपुःशुक शोकं ननु मा वृथा कृथाः ।क्व वनं क्व च पञ्जरोदरंतव दोषः स्फुटवादिता न चेत॥१९८६॥अचलसिंहस्य ।अयि शाकुनिक कृतोऽञ्जलिरितरे न कतीह जीवनोपायाः ।हत्वा शुकान्किमेतद्विपिनमसारस्वतं कुरुषे ॥१९८७॥वैद्यगदाधरस्य ।एकत्र प्राकृतैः साम्यमन्यत्र परतन्त्रता ।शुकस्य परितोषाय न वनं न च पत्तनम् ॥१९८८॥उमापतिधरस्य ।अयि खलु बधिराधिराज कीरं तुदसि शलाकनिपातनेन मोहात।अनिशमपि सुधानिधानवाणीं रचयतु मौनमुखोऽस्तु वा समस्ते ॥१९८९॥भ्रातः कीर किमत्र नीरसतरुस्कन्धे मधुस्यन्दिभिर्व्याहारैस्तव वस्तुवर्णितकथाबन्धैर्मुधायं श्रमः ।नैते दाडिमशाखिनः परिणतैर्येषां फलैरन्तरंनिर्भिद्यापि गुणानुरक्तमशठैराविष्क्रियन्ते मुदः ॥१९९०॥लौलिकस्य ।७१. नानापक्षिणःस्वामिन्खञ्जन मुञ्च मुञ्च फनभृद्भोगाधिरोहग्रहंतद्विश्राम्यतु नः फलं किमपि यद्वन्द्येन देयं त्वया ।दैवादेष यदि प्रदीप्तगरलस्त्वां दन्दशूको दशेद्विश्वालोककरी तदा शरदियं स्यादेव दृग्वञ्चिता ॥१९९१॥वैद्यगदाधरस्य ।आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः ।धिग्धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरम् ॥१९९२॥तस्यैव ।अयि चकोरकुटुम्बिनि कातरे तिरय पक्षपुटेन कुटुम्बकम् ।बहु गतं कियदप्यवशिष्यते व्यपगतं तिमिरैरुदितः शशी ॥१९९३॥पापाकस्य ।क्रमगलितैः शिखिपुच्छैर्मण्डनमास्तां वधेन किं शिखिनः ।कुतुकिनि पुनर्न लाभोविषधरविषमे वने भविता ॥१९९४॥कस्यचित। (सूक्तिमुक्तावलि १६.२)भ्राम्यद्भ्योऽपि गृहे गृहे कटुतामप्यालपद्भ्यो गिरंगृध्नुभ्योऽपि बलादमेध्यमथवावज्ञां व्रजद्भ्योऽपि च ।शय्योत्थायमुपासते वसतिमित्येतावतायं न्èणांकाकेभ्यो बलिरस्ति कोकिलबलिः केनापि नाकर्णितः ॥१९९५॥कस्यचित।७२. उच्चावचम्भ्रातः पश्य निकृत्य चन्दनतरूच्छाकोटको रोप्यतेसारासारविचारिणी मतिरिह ग्रामे जनानां कुतः ।तद्यावद्वयमस्य सेकसलिलं वोढुं न मृष्यामहे तावत्सत्वरमेव पामरजन ग्रामादितो गम्यताम् ॥१९९६॥कस्यचित।दन्तैरुपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः शीर्णदेहमपेतमेव करणग्रामेण लुप्ता मतिः ।अस्मिन्नप्रतिकारदारुणजराव्याधौ दयार्द्रात्मना भ्रातर्वैद्य विधीयते तव कियद्यावन्मया भेषजम् ॥१९९७॥उमापतिधरस्य ।पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषःकान्तारद्रुमघर्मदीधितिरपि व्योमार्धमारोहति ।अस्माभिः श्रमविह्वलैरिह तरुच्छायासमालम्बिभिर्न ज्ञाताः परितः किरातशिविरव्याप्ता वनश्रेणयः ॥१९९८॥तीरभुक्तीयसर्वेश्वरस्य ।तद्ब्रह्माण्डमिह क्वचित्क्वचिदपि क्षोणी क्वचिन्नीरदास्ते द्वीपान्तरशालिनो जलधयः क्वापि क्वचित्पर्वताः ।आश्चर्यं गगनस्य कोऽपि महिमा सर्वैरमीभिः स्थितैर्दूरे पूरणमस्य शून्यमिति यन्नामापि नाच्छादितम् ॥१९९९॥केशरस्य । (सु.र. ११९३)समालम्ब्यान्योन्यं मसृणचरणाः कम्पनजुषोन याताः के पारं सति जलधिबन्धे कपिभटाः ।तटादेकोऽर्वाचश्चकितसुरसिद्धस्थितिसमुत्समुत्प्लुत्य प्रायात्परमपरपारं स हनुमान॥२०००॥छित्तिपस्य ।श्रीधरदासकृतेऽस्मिन्सदुक्तिकर्णामृते चतुर्थोऽयम् ।सत्कर्मण्यपदेशप्रवाह उपदेशतां भजतु ॥इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।अपदेशप्रवाहो नाम चतुर्थः । वीचयः ७२ । श्लोकाः ३६० ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP