संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १७६१ - १७८० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १७६१ - १७८० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १७६१ - १७८० Translation - भाषांतर २५. सर्पःछिद्रानुसारनिपुणत्वमिदं त्वदीयंदृष्ट्वा गतौ कुटिलतां वदने विषं च ।मन्ये सरीसृâ भवानुचितं मनुष्यप्राणापहारविषये विधिना नियुक्तः ॥१७६१॥कस्यचित।एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद्आस्ये निजाङ्गुलिमयं खलु कोऽपि सर्पः ।अत्रैव यस्य विषमेण विषेण दग्धास्ते त्वादृशा निरसवः पतिताः सहस्रम् ॥१७६२॥नाचोकस्य ।यद्वीक्षसे शिखिमग्निभुवः सहेलंयद्वा विलोकयसि तार्क्ष्यमवज्ञयैव ।लीढौषधिपरिवृढोऽसि यदृच्छया तद्वन्दामहे हरभुजङ्ग तवैव जन्म ॥१७६३॥वदियगदाधरस्य ।अलमभिमुखैर्बद्धैर्भोगैरलं भ्रमिभिर्दृशोरलमविरलैर्गर्जोद्गारैरलं विषवृष्टिभिः ।किमिह भुजगाः कोपावेगैरमीभिरमुद्रितैर्ननु भगवतस्तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ॥१७६४॥तस्यैव । क्षुद्रास्ते भुजगाः शिरांसि नमयत्यादाय येषामिदंभ्रातर्जाङ्गुलिक त्वदाननमिलन्मन्त्रानुबिद्धं रजः ।जीर्णस्त्वेष फणी न यस्य किमपि त्वादृग्गुणीन्द्रव्रजाकीर्णक्ष्मातलधावनादपि भजत्यानम्रभावं शिरः ॥१७६५॥उमापतिधरस्य ।२६. भेकःअपि नदथ निकामं दर्दुराः किं सुवर्णद्युतिभरमुपनीता नूतनैर्वारिपूरैः ।अयमचिरविनाशी शोचनीयस्तु भावी स चिरमवटसीम्नि प्राच्य एव क्रयो वः ॥१७६६॥नाकोकस्य ।इयत्पृथ्वीमात्रं तदनु च नभोमण्डलमियद्इयान्पातालान्तो जलमपि पृथिव्यामियदिति ।इति ज्ञात्वा कूपे विदितविषयो नायमपरःपरं मुग्धो भेकः प्रबलतररावं प्रकुरुते ॥१७६७॥जयनन्दिनः ।किं नाम दर्दुर दुरध्यवसाय सायंकायं निपीड्य निनदं कुरुषे रुषेव ।किं तानि केलिरसितानि सितच्छदानाम्आकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥१७६८॥कस्यचित। (सूक्तिमुक्तावलि ३६.४९)श्रुत्वा कुम्भभुवो मुनेरिह दुराचारं कमप्यद्भुतंसिन्धोरन्धुकुटुम्बि दर्दुरकुलं हर्षादिदं ध्यायति ।गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकीशिशोर्अत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥१७६९॥जलचन्द्रस्य ।भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पाननेदातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।यच्चाधोमुखमक्षिणी विदधता नागेन तूष्णीं स्थितंतन्मन्ये विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥१७७०॥तस्यैव । (स्व१०१९, शा.प. ११७७)२७. पद्मम्दर्पोत्सेकभृतामसाधु चरितं प्रायेण लक्ष्मीभृताम्आमूलं गुणसंग्रहात्तु नलिन त्वच्चेष्टितं किं स्तुमः ।यच्छुष्के सरसि प्रयासि विदशां संवासमर्यादया सम्पूर्णे कमनीयकोमलदलं भासि प्रवृद्धाङ्कुरम् ॥१७७१॥वसन्तदेवस्य ।कासारशोषिणि नवोदयमानमुग्धसद्वर्तिकानिवहदाहिनि दारुणेऽपि ।मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्यस्मेरं सुखं जयति चित्रचरित्रमब्जम् ॥१७७२॥योगेश्वरस्य ।धिक्कुर्मोऽस्य मधुव्रतस्य चरितं दोषातनीं दुर्दशांदृष्ट्वा यस्तव पद्मषण्डकुमुदैर्धत्ते रहस्ताण्डवम् ।श्लाघ्यस्तं पुनरेक एव यदिह प्रातः समभ्यागतेतान्येवोल्लसितानि सैव सखिता तच्चैव कोषार्पणम् ॥१७७३॥वैद्यगदाधरस्य ।अत्रैव सरसि जातं विकसितम्अत्रैव निर्भरं नलिनैः ।कालवशागततुहिनैर्विलीनमत्रैव हा कष्टम् ॥१७७४॥कस्यचित।कान्तिस्ते यदि निर्मला यदि गुणा लक्ष्मीर्यदि स्थायिनीमा गाः पद्म मदं तथापि गलिता ह्येते शरद्वासराः ।संस्पर्शेन तुषारवारिपृषतामालूनमूर्तेः सरोमध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥१७७५॥उमापतिधरस्य । २८. भ्रमरःशाखिनि शाखिनि कुसुमं कुसुमे कुसुमे मधुकरकुलानि ।विरलं सन्मधु कुसुमं विरलो रसतत्त्वविन्मधुपः ॥१७७६॥वीरस्य ।अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।मुघ्दामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥१७७७॥विद्यापतेः । (Kउवल्. ८९, द.रू.. उन्देर्४.३३, सा.द.. ३.१७७)मधुकरगणश्चूतं त्यक्त्वा गत्नवमालिकांपुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।तदपि सुचिरं स्थित्वा कुन्दे प्रयाति सरोरुहंपरिचितगुणद्वेषी लोको नवं नवमीहते ॥१७७८॥कस्यचित। (स्व७४०, शा.प. ८२९)येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनांसोऽयं भृङ्गयुवा करीरविटपे बध्नाति दृष्टिं कुतः ॥१७७९॥कस्यचित। (शा.प. ८३७)अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना निरानन्दः कुन्दे सह च सहकारैर्न रमसे ।कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैर्असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥१७८०॥कस्यचित। (सु.र. १०७४) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP