संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १८०१ - १८२० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १८०१ - १८२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १८०१ - १८२० Translation - भाषांतर ३३. पर्वतःकैलास रे पशुपतिस्थितिपात्रमात्रसंरूढगर्वमिह पर्वत सन्त्यजाशु ।दृष्टोऽसि किं नहि सलीलसमुत्थितैकपौलस्त्यहस्तकमलोपरि पुष्कराभः ॥१८०१॥दामोदरस्य ।मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणंकरीन्द्रं पौलोमीपतिरपि च लेभे जलनिधेः ।त्वया किं तल्लब्धं कथय मथितो मन्दरगिरेशरण्यः शैलानां यदयमदयं रत्ननिलयः ॥१८०२॥कामदेवस्य । (शा.प. १०६८)दृष्टा न द्विरदावली न चमरीपुच्छानिलः सेवितोनैवासादि कदापि मौलिसविधे छत्रायमाणः शशी ।नीताः क्षौणिभृतो न पादपदवीं धिग्दैवमम्भोनिधौमग्नस्यैव गिरीन्द्रपुत्र भवतो मैनाक यातं वयः ॥१८०३॥वैद्यगदाधरस्य ।एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमाद्अस्तं याति कलानिधिस्तदनयोरस्तः प्रशस्तोऽचलः ।को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुनर्यातं यः कुरुते भवानिव स दुष्प्रापोऽयमुच्चैः शिराः ॥१८०४॥पुण्डरीकस्य । (शा.प. १०७९, सूक्तिमुक्तावलि ३६.१५)ध्वान्तास्कन्दितलोकलोचनजगज्जीवातुमुद्गत्वरंसूरं मूर्ध्नि दधातु पूर्वशिखरी नैवात्र चित्रोदयः ।प्राप्तास्तं दिवसे गतायुषि परिक्षीणांशुमेतं पुनःकुर्वन्मौलिगतं करोति चरमश्चित्रं धरित्रीधरः ॥१८०५॥मुद्राङ्कस्य ।३४. मलयः किं तेन हेमगिरिणा रजताद्रिणा वायत्र स्थिता हि तरवस्तरवस्त एव ।वन्दामहे मलयमेव यदाश्रयेणशाकोटनिम्बकुटजा अपि चन्दनानि ॥१८०६॥कस्यचित्(स्व१००६)चम्पकतरुणा सार्धंस्पर्धा शाकोटकस्य युक्तैव ।अस्मिन्मलयमहीभृतिसर्वे किल चन्दनं तरवः ॥१८०७॥मुष्टिकस्य ।मातङ्गाच्छतशः पुषाण शतशो व्यालीसुतान्संवृणुप्रीणीथाः शतशस्तु गण्टदृषदः श्रीखण्डशैलेच्छया ।आस्वर्गस्थलमामहीतलमथापातालमाविष्कृतंत्वत्कीर्तिस्तु न चन्दनक्षितिरुहादन्यः समालोक्यते ॥१८०८॥भट्टवेतालस्य ।भ्रातश्चन्दनशैल मुञ्च जडतां विस्तारयन्सौरभंगच्छन्नेव विलासिभिर्मरुदयं निर्वाजमालिङ्ग्यताम् ।तिष्ठन्नेव पटीरकोटरदरीदर्वीकरोत्तम्भितस्फारोत्फुल्लफणासहस्रचुलुकग्रासेन निर्वर्त्यते ॥१८०९॥कस्यचित।इतस्तावन्नेत्रे वलय मलयाद्रे निधिरपाम्अपारस्त्वत्पादप्रणयपरतन्त्रो निवसति ।अथात्मानं किं न स्मरसि कुलशैलं किमयशःपताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ॥१८१०॥वसुकल्पस्य ।३५. शरभःउन्मुक्तक्रमहारिशैलशिखरात्क्रामन्तमन्यो धरःकोऽत्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।तस्मादुद्गमकेलिलङ्घनकलादुर्वीतलादुद्व्रजत्वद्वासाय स एव कीर्तिकनकज्योत्स्नो गिरीणां पतिः ॥१८११॥वल्लणस्य । (सु.र. १०५६)यस्यानुद्धुरगन्धवातकणिकातङ्कार्तिनानादरीकोणोदञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः ।दृप्यद्दुर्जयगन्धसिन्धुरजयोत्खातेन का मे स्तुतिःस्मेरोऽयं शरभः परां हृदि घृणामायाति जातस्मयः ॥१८१२॥तस्यैव । (सु.र. १०४६)अपि मृगपतिना करीन्द्रकुम्भस्थलदलनोद्गतपौरुषेण यस्य ।भयचकितदृशा प्रनष्टमुच्चैः स हि शरभीकुलराजचक्रवर्ती ॥१८१३॥माधवस्य । यः पृथ्वीवलयेषु विर्कमकथासीमास्थितिर्लाघवक्रीडान्यक्कृतमारुतिर्मृगपतेर्निःसीमदर्पज्वरः ।तादृक्तादृगुदञ्चदञ्चितचयैराश्चर्यकारी दिशां ईशानां सरभः कथं स हि भवेदर्वाग्गिरां गोचरः ॥१८१४॥मकरन्दस्य ।नखज्योत्स्नागुच्छस्नपितगजगण्डस्थलभिदांमृगेन्द्राणां जेतुस्तव समरभूमिषु शतशः ।हते वा नीते वा बत लघुतरां शोच्यपदवींशुनीनां नाथेऽस्मिन्सरभ रभसस्यानवसरः ॥१८१५॥कस्यचित।३६. सिंहः मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः ।तस्य द्वयमपि क्रीडा क्रीडादलितदन्तिनः ॥१८१६॥कस्यचित। (शा.प. ९०१)किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैःपुत्रेणापि वनान्तरे विचलता यैः सार्धमुत्त्रस्यति ।एकेनापि करीन्द्रकुम्भदलनव्यापारशक्तात्मनासिंही दीर्घपराक्रमेण बलिना पुत्रेण गर्वायते ॥१८१७॥भानोः ।उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास्तत्तेजश्च तदूर्जितं स च नगोन्माथी निनादो महान।आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुनासर्वं विश्वजयैकसाधनमिदं लब्धं न किंचित्कृतम् ॥१८१८॥कस्यचित। (सु.र. १०३५)विस्रं वपुः परवधप्रवणं च करम्तिर्यक्तयैव विदितः सदसद्विवेकः ।इत्थं न किंचिदपि चारु मृगाधिपस्यतेजस्तु तत्किमपि येन जगद्वराकम् ॥१८१९॥वसुन्धरस्य । (सु.र. १०९१)असंज्ञाः खल्वेते जलशिखिमरुद्धूसनिचयाःप्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमदः ।प्रसीद प्रारम्भाद्विरम विनयेथाः क्रुधमिमांहरे जीमूतानां ध्वैरियमुदीर्णो न करिणाम् ॥१८२०॥अमरसिंहस्य । (सु.र. १०७१) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP