संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १९२१ - १९४० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १९२१ - १९४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १९२१ - १९४० Translation - भाषांतर ५७. मरुतरुः फणी मूलश्वभ्रे वपुरविरलं कीटपटलैःशिरो गृध्रश्रेणीविधुरितमधः कण्ठकचितम् ।इतीदं जानीमश्चिरमपथभाजस्तव तरोतथाप्यस्यामक्ष्मारुहि भुवि भवानेव शरणम् ॥१९२१॥वैद्यगदाधरस्य ।प्रथममेव गुरु क्व मरुद्रुमेतरुणितापकृतापदि पल्लवम् ।यदपि किं क्वचिदुञ्च्तमाशु तत्कवलितं करभैरतिभैरवैः ॥१९२२॥चपलदेवस्य ।आश्यानैर्गलितं दलैर्बत कथाशेषाः प्रसूनश्रियोनोद्भेदोऽपि फलं प्रति प्रतिदिशं याता निराशाः खगाः ।आपातालविशुष्कमूलकुहरोन्मीलज्जटासंततिस्तूष्णीमस्ति तथाप्यकालजलदं ध्यायन्मरुक्ष्मारुहः ॥१९२३॥भट्टशालीयपीताम्बरस्य ।नासाग्रे पवनः परं नयनयोरापः क्र्या चेतसिस्थैर्यं दाहभरेषु किं नु विदिता नैता मरुक्षोणयः ।यत्राशाशतसम्भ्रमेण पथिकैर्लब्धोऽपि भूमीरुहस्तेषामेव निदाघबिन्दुनिचयैः सेकस्थितिं वाञ्छति ॥१९२४॥सोढगोविन्दस्य ।कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल्लूत्वा वृक्षानहह दहसि म्रातरङ्गारकार ।किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानाम्अध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥१९२५॥गदाधरस्य । (शा.प. ११८३, सूक्तिमुक्तावलि ३३.६, सु.र. १०३९)५८. नानातरवःन्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यतेबीजान्यङ्कुरगोचराणि कतिचित्सिध्यन्ति तस्मिन्नपि ।एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नतिंयामध्यन्यजनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥१९२६॥शालिकस्य । (सु.र. १०६२, शालिकनाथस्य)केनात्र चम्पकतरो बत रोपितोऽसिकुग्रामपामरजनान्तिकबाटिकायाम् ।यत्र प्ररूढनवशाकविवृद्धलोभगोभग्नबाटघटनोचितपल्लवोऽसि ॥१९२७॥वीरस्य ।फलानां सम्भारैरधरय तरूनुन्नततया स्पृशाकाशं सर्वाः स्थगय परिणाहैरपि दिशः ।तथापि ध्वाङ्क्षेभ्यो न पुनरितरः कोऽपि विहगःफलार्थी निम्ब त्वां प्रकृतिविरसं धावति मुदा ॥१९२८॥विश्वेश्वरस्य ।पृथुत्वात्सौरभ्यान्मधुरतरभावाच्च पतितैः क्षुधोत्तप्तैः कुक्षिंभरिभिरिह सेवा तव कृताः ।तदात्वव्यामुग्धैरनुदिवसमस्वास्थ्यजननीन दृष्टा तेऽस्माभिः पनस परिणामे विरसता ॥१९२९॥उमापतिधरस्य ।परार्थे यः पीडामनुभवति निर्व्याजमधुरोयदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।न सम्प्राप्तो वृद्धिं सपदि हतदैवात्समुचितांकिमिक्षोर्दोषोऽयं स पुनरगुणाया मरुभुवः ॥१९३०॥वाक्पतेः । (स्व. ९४७, शा.प. १०५२, सूक्तिमुक्तावलि ३५.५)५९. मरुःशमीषण्डस्तावत्खदिरवनमस्माच्च परतस्ततो वध्वोलीनामपि गहनमुत्कीटविरुतम् ।इतः कर्कन्धूनां वनमनु यवासस्थलमिदंक्व कल्याणः पन्थाः पथिक हतदेशो मरुरयम् ॥१९३१॥कस्यचित।हे धाराधर विश्वमेव भवता साधारणं सिञ्चताक्ÿप्ताकस्मिकदुर्दिनेन समये को नाम नासादितः ।एतस्यैव मरोर्मरालललनालीलानभिज्ञैस्तटैर्आपातालविशुष्कसैकतभुवस्तापोऽपि नापोहितः ॥१९३२॥कस्यचित।भ्रामं भ्राममनङ्गभूपरिसरे सारङ्ग निश्चापलंवास्तव्यो भव मा पुनर्मरुपथप्रस्थानवाञ्छां कृथाः ।यत्रादुर्बलदोर्बलैर्गुणगणव्यासक्तपात्रान्तरैर्लभ्यन्ते पुरुषैः परं कतिपयैः कौपाः पयोबिन्दवः ॥१९३३॥उमापतिधरस्य ।भ्रातः पान्थ मरीचिकामयमृषावाःपूरपूर्णामिमाम्उद्दिश्य प्रबलप्रसृत्वरतृषाक्लेशान्ध किं धावसि ।नन्वेते मरुमेदिनीपरिसरा यैरस्ति गोपायितंक्रूरैर्न स्वपरोपकारि सकलं प्¸अतालमूले पयः ॥१९३४॥तस्यैव ।पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गंभूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि ।एषां शेषश्रमशमपटुदुःखिताध्वन्यबन्धुःसिन्धुर्दूरीभवति पुरतो मारवः पान्थ पन्थाः ॥१९३५॥धनपालस्य । (शा.प. ११५१, सूक्तिमुक्तावलि ३०.३)६०. मेघःअभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि त्वामर्थयन्ति विहगास्तृषितास्तथैते ।कालः पयोधर परोपकृतेस्तवायं चण्डानिलव्यतिकरे क्व भवान्क्व ते वा ॥१९३६॥वाञ्छोकस्य ।अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस्त्यजैतां सीमानं वसति मुनिरस्यां कलशभूः ।उदञ्चत्कोपेऽस्मिन्स जलधिरपि स्थास्यति न ते यतः पायं पायं सलिलमिह शौर्यं प्रथयसि ॥१९३७॥वैद्यगदाधरस्य ।आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्य्अम्भोधौ कलयत्यगाधजठरे कस्तावकीनं श्रमम् ।अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत्किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥१९३८॥वासुदेवस्य ।एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानलज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।तानेतानवधीर्य खिन्नवपुषो दुःशीलझञ्झानिलक्रीडाभिर्न पयोद गन्तुमुचितं वेलाभिषिक्तद्रुमान॥१९३९॥योगेश्वरस्य ।अये पश्यावस्थामकरुणसमीरव्यतिकरस्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ।अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झटिति झात्कारि सलिलम् ॥१९४०॥अचलसिंहस्य । (सु.र. १०२९) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP