संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १६८१ - १७०० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १६८१ - १७०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १६८१ - १७०० Translation - भाषांतर ९. अगस्त्यहस्ते समुद्रःव्याप्याशाः शयितस्य वीचिवलनैरुल्लिख्य खं प्रेङ्खतःसिन्धोर्लोचनगोचरः स महिमा तेषां तनोत्यद्भुतम् ।संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलिर्नीरवोयैर्नायं करशुक्तिकोदरगतो दृष्टो मुनेरञ्जलौ ॥१६८१॥अभिनन्दस्य । (सु.र. १०५८)उद्दामार्कमरीचिमूर्च्छितदृशां येनाध्वगानामयं वेलालम्बनजागरूकमनसामारम्भि कर्णज्वरः ।क्लेशोच्छृङ्खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर्लीनः कुत्र महार्णवस्य स पुनः कल्लोलकोलाहलः ॥१६८२॥जलचन्द्रस्य ।अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥१६८३॥विद्यापतेः । (Kउवल्, प्. १०८, सूक्तिमुक्तावलि २७.१८, सु.र. १०२५, कविनन्दस्य)अये वारां राशे कतिपयपयोबिन्दुविभवैर्अमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः ।न किं लोपामुद्रासहचरकरक्रोडकुहरे भवान्दृष्टः कष्टं प्रचलजलजन्तुव्यतिकरः ॥१६८४॥विश्वेश्वरस्य ।तावद्वेला विषमसलिलावर्तनाभीनिकुञ्जक्रोडभ्राम्यन्मकरशिखरिग्रावरौद्रः समुद्रः ।दृष्टो यावन्न खलु चुलुकीभूतनिष्पन्दमूर्तिर्लोपामुद्रासहचरकरस्वस्तिकोत्सङ्गवर्ती ॥१६८५॥लोपामुद्राकवेः ।१०. समुद्रोपालम्भःदूरीभूतरतिश्चिरं मरकते मुक्तासु मुक्तस्पृहःसानन्दोऽस्मि न चेन्द्रनीलमणिषु त्यक्तादरो विद्रुमे ।त्वां संसेव्य समुद्र सम्प्रति पुनर्दृष्टस्वभाग्यक्षयक्षीणोऽहं सकलार्थिसार्थसुलभामभ्यर्थये शुक्तिकाम् ॥१६८६॥इन्द्रदेवस्य ।प्रमोदादुद्बाष्पः पुलकपटलैरर्चिततनुःशिरो धूत्वा धूत्वा किमिति जलधेर्गायसि यशः ।किमेतेनास्माकं फणिमकरनक्रप्रणयिनानमस्तेभ्यो लभ्या य इह गुणभाजोऽपि मणयः ॥१६८७॥वैद्यगदाधरस्य । विगर्जामुन्मुञ्च त्यज तरलतामर्णव मनाग्अहंभावः कोऽयं कतिपयमणिग्रावगुडकैः ।दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितोमहामौनः स्थैर्यादथ भुवनमेव द्रढयति ॥१६८८॥शतानन्दस्य । (सु.र. ११२२)अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः परित्राताश्चेन्द्रात्कुलशिखरिणः पूर्वयमुना ।उपेता इत्येवं तव जलनिधे तीरमधुना विगर्जाभिः किं नः श्रुतिपुटमहो जर्जरयसि ॥१६८९॥सरोरुहस्य ।श्रमपरिगतैर्विस्तीर्णश्रीरसीति परं पयःकतिपयमितं त्वत्तोऽस्माभिः समुद्र समीहितम् ।किमसि नितरामुक्त्षुभोर्मिः प्रसीद नमोऽस्तु तेपथि पथि शिवाः सन्त्यस्माकं शतं कमलाकराः ॥१६९०॥कमलगुप्तस्य । (सु.र. १०८१)११. समुद्रनिन्दाग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिकाः शैवालमम्भ सुधा ।तीरे कल्पमहीरुहः किमपरं सर्वत्र नामाम्बुधेर्दूरात्कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥१६९१॥कस्यचित। (स्व८६४, शा.प. १०८४, सूक्तिमुक्तावलि १०४.१)उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वेच्छं विहरथ विनीतक्लमभराः ।इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥१६९२॥पापाकस्य । (स.क.आ. ४.९७, सूक्तिमुक्तावलि ३१.१२, सु.र. १०६९)यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलंरत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् ।धिक्तत्सर्वं तव जलनिधे यद्विमुच्याश्रुधारास्तीरे नीरग्रहणविमुखैरध्वगैरुज्झितोऽसि ॥१६९३॥शुभाङ्करस्य । (शा.प. १०९०, सूक्तिमुक्तावलि २७.१४, सु.र. १०४४)कस्त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस्तीरादहं नीरधेर्लब्धं किंचन, गर्जितैर्बधिरता दृग्व्याहतिः सैकतैः ।मा खेदं कुरु तादृगौर्वदहनज्वालावलीदुःसहं क्षारोदं यदुपास्य जीवसि सखे श्लाघ्यं न तन्मन्यसे ॥१६९४॥कस्यचित।धिगुद्गाम्भीर्यं धिगमृतमयत्वं च जलधेर्धिगेतद्द्राघीयःपृथुलतरकल्लोलभुजताम् ।यदेतस्यैवाग्रे कवलिततनुर्दावदहनैर्न तीरारण्यानी सलिलचुलुकेनाप्युपकृता ॥१६९५॥कपालेश्वरस्य । (सु.र. ११०८)१२. सबाडवसमुद्रःलोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर्माद्यत्यभ्रमु वल्लभोऽपि सततं तत्कालकूटं विषम् ।इत्यन्तःस्वकुटुम्बदुर्नयपरामर्शाग्निना दह्यते गाढं वाडवनामधेयदहनव्याजेन वारां निधिः ॥१६९६॥वाणीकुटिललक्ष्मीधरस्य । (सु.र. १०४५)विस्तारो यदि नेदृशो न यदि तद्गाम्भीर्यमम्भोनिधेर्न स्याद्वा यदि सर्वसत्त्वविषयस्तादृग्दयानुग्रहः ।अन्तः प्रज्वलता पयांसि दहता ज्वालावलीं मुञ्चताके न स्युर्वडवानलेन बलिना भस्मावशेषीकृताः ॥१६९७॥केशटस्य । (सूक्तिमुक्तावलि २७.१७, सु.र. १२१०)धिग्वाडवं दहनमर्थितया विपक्षम्अभ्येति यः स्वजठरप्रतिपूरणाय ।धिग्वारिराशिमपि यो हि तथाविधस्य शत्रोर्जलैरपि न पूरयतेऽभिलाषम् ॥१६९८॥तस्यैव । (स्व९७८)आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्यत्कार्यातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ॥१६९९॥तस्यैव । (स्व८८४, सु.र. ११९८)अयमलघुविसारिस्फारिजिह्वाकलापो ज्वलति यदि न मध्ये वाडवो हव्यवाहः ।मुहुरुपचितसारो वारिभिर्निम्नगानां त्रिभुवनमपि किं न प्लावयत्यम्बुराशिः ॥१७००॥धर्मपालस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP