संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १८८१ - १९०० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १८८१ - १९०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १८८१ - १९०० Translation - भाषांतर ४९. तरुःशाखानामुपरि स्थितैः शकुनिभिर्दूराद्गृहीता दिशःसद्योमुक्तफलैर्विवृत्य कपिभिः पश्यद्भिरेव स्थितम् ।छायापास्तपरिश्रमैश्च पथिकैरात्मा परं रक्षितोन क्षुद्रैर्निपतन्निशातपरशावात्मार्पितः शाखिनि ॥१८८१॥अभिनन्दस्य ।मूर्धारोपणसत्कृतैर्दिशि दिशि क्षुद्रैर्विहङ्गैर्द्रुतंछायादाननिराकृतश्रमभरैर्नष्टं मृगैर्भीरुभिः ।हा कष्टं फललोलुपैरपसृतं शाखामृगैश्चञ्चलैर्एकेनैव दवानलव्यतिकरः सोढः परं शाखिना ॥१८८२॥कस्यचित। (सु.र. १०२४)सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदंत्वामालोक्य सुभूरुहं खलु वयं मार्गं विहायागताः ।अन्तस्ते यदि कोटरोदरचलद्व्यालावलीविस्फुरद्वक्तोद्वान्तविषानलातिभयदं धन्यस्तदानीं भवान॥१८८३॥विद्यायाः । (सु.र. १०५०)व्याकुर्महे बहु किमस्य तरोः सदैवनैसर्गिको यदुपकाररसः परेषु ।उन्मूलितोऽपि मरुता बत वारिदुर्गेमार्गे यदन्यजनसंक्रमतामुपेतः ॥१८८४॥कस्यचित। (सु.र. १०९०)सोढप्रौढहिमक्लमानि शनकैः पत्राण्यधः सम्भाव्यच्छदवाञ्छयैव तरवः केचित्कृतघ्नव्रताः ।नामन्यन्त तदातनीमपि निजच्छायाक्षितिं तैः पुनस्तेषामेव तले कृतज्ञचरितैः शुष्यद्भिरप्यास्यते ॥१८८५॥अचलसिंहस्य । (सूक्तिमुक्तावलि ३३.८, बिल्हणस्य; सु.र. १०४२)५०. कल्पतरुःसर्वार्थिनामभिमतानि फलन्नपि त्वंकल्पावनीरुह न मानवतामुपास्यः ।यस्मात्त्वया न विहितो विदुषां निःशेषस्तेषामकारि विफलः सफलः प्रयासः ॥१८८६॥नाकोकस्य ।बालवामनवृद्धानां नत्वा यो न फलप्रदः ।तस्मिन्कल्पतरौ स्तब्धे लब्धेनापि फलेन किम् ॥१८८७॥राजकुब्जदेवस्य ।पत्राणि प्रथमं द्रुतानि विकुलैरुत्खातमूलः क्रमात्कीटैः कल्पमहीरुहः स पतितो भग्नाः शतं वल्लयः ।एकेभ्योऽपि पुनः प्ररोहति भृशं तस्याङ्करग्रामणीःपूर्वाशाधिपतिः प्रसीदति स चेद्देवो दयावान्हरिः ॥१८८८॥बलभद्रस्य ।निष्पन्नाः कति नाम नामरपुरोपान्तेषु भूमिरुहःश्लाघ्यस्तत्र स एव कल्पविटपी यत्रासतेऽमी गुणाः ।संकल्पाः फलदोहदानि फलितं रत्नानि वृत्तिर्जगत्क्लेशच्छेदनिदानमुन्नतिरनुल्लङ्घ्या यशो दुर्जयम् ॥१८८९॥शरणस्य ।स्वर्णः स्कन्धपरिग्रहो मरकतैरुन्मीलिताः पल्लवामुक्ताभिस्तवकश्रियो मधुलिहां वृन्दानि नीलोपलैः ।संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलांधिग्जातिं द्रुमसंकथासु यदसौ कल्पद्रुमापि द्रुमः ॥१८९०॥गदाधरनाथस्य । (शा.प. ९८८, सूक्तिमुक्तावलि ३३.११)५१. चन्दनःश्रमच्छित्त्यै छायां भज पथिक हे चन्दनतरोर्इह व्यालव्रातः पुनरिति भयं मा खलु कृथाः ।इदानीमेतस्मिन्कृतवसतयः सन्ति शिखिनः स्वनैर्येषां रम्यैरपि हि फणिनः क्वाप्यपसृताः ॥१८९१॥अचलसिंहस्य ।आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणाःसाक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः ।किं पश्यामः सुभग भवतः क्रीडति क्रोड एवव्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥१८९२॥तस्यैव (शा.प. ९९८, सूक्तिमुक्तावलि ३३.२४, सु.र. १०७८)क्षिप्तश्चेन्मलयाचलेन्द्र भवतः पादोपजीवी निजस्तैरुत्पाट्य निकुञ्जनिर्झरपयःपूरैः पटीरद्रुमः ।तन्निर्यातु जहातु पन्नगकुलं तापं निहन्तु श्रियंधत्तां विन्दतु वन्द्यतां त्रिजगतां त्वत्कीर्तिमुन्मुद्रयन॥१८९३॥साञ्जानन्दिनः ।ककुभि ककुभि भ्रामं भ्रामं विलोक्य विलोकितं मलयजसमो दृष्टोऽस्माभिर्न कोऽपि महीरुहः ।उपचितरसो दाहे च्छेदे शिलातलघर्षणैर्अधिकमधिकं यत्सौरभ्यं तनोति मनोहरम् ॥१८९४॥भामहस्य । (सु.र. १०८२)क्व मलयतटी जन्मस्थानं क्व ते च वनेचराःक्व खलु परशुच्छेदः क्वासौ दिगन्तरसङ्गतिः ।क्व च खरशिलापट्टे घृष्टिः क्व पङ्कसरूपतामलयज सखे मा गाः खेदं गुणास्तव वैरिणः ॥१८९५॥मलयजस्य । (सु.र. १०५३)५२. अश्वत्थःछायामस्य निषेव्य पिप्पलतरोराकृष्य शाखाः शतंभुक्तं प्रागिति लज्जया गजपते किं नात्र विश्रम्यते ।दैवेनेदृशयोग एव घटितो यत्त्वादृशां कोटिभिस्तादृक्तादृगयं कृतः पुनरभूदेतादृशः पल्लवैः ॥१८९६॥ईश्वरभद्रस्य ।सत्यं पिप्पलपादपोत्तम घनच्छायोन्नतेन त्वयासन्मार्गोऽयमलङ्कृतः किमपरं त्वं मूर्तिभेदो हरेः ।किं चान्यत्फलभोगकृष्टमुखरास्त्वामाश्रिताः पत्रिणोयत्पुंस्कोकिलकूजितं विदधते तन्नानुरूपं परम् ॥१८९७॥शालिकनाथस्य । (सु.र. १०६१, कस्यचित्)नोन्मीलन्तु नितम्बिनीकरतलस्पर्धाभृतः पल्लवाःप्रत्युद्यान्तु न वैणनाभिमधुरा मोदाः प्रसूनश्रियः ।नाभुवन्फलसम्पदो मधुरसप्रस्यन्दभाजस्तथाप्य्अश्वत्थस्य गतः सुखेन जगतां वन्द्यस्य जन्मग्रहः ॥१८९८॥उमापतिधरस्य ।साक्षान्नैष करोति कामपि मुदं नादृत्य हन्त्यापदोन प्रीणाति मनीषिणां श्रवणमप्याश्वासनासूक्तिभिः ।तस्याम्भोधिसुतापतेर्भगवतोऽधिष्ठानमात्रादसौदुःस्वप्नान्विनिवेदितानपहरत्यश्वत्थभूमीरुहः ॥१८९९॥तस्यैव ।पत्राणि त्रुटितानि कीटपटलैरामूलमुन्मूलिताः शाखा वन्यमतङ्गजैर्न करभैरास्वाद्य मुक्ता त्वचः ।स्थाणुः केवलमस्ति पिप्पलतरोस्तत्रापि शीतातुरैर्ग्रामीणैः परितः कुठारपतनारम्भः परामृश्यते ॥१९००॥तस्यैव । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP