संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १६६१ - १६८० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १६६१ - १६८० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १६६१ - १६८० Translation - भाषांतर ५. चन्द्रः सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणिर्न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥१६६१॥दङ्कस्य ।अस्मिन्नभ्युदिते जगत्त्रयदिशामुल्लासहेतौ दिशां आस्यम्लानिहरे सुधारसनिधौ देवे निशास्वामिनि ।वक्त्रं मुद्रितमम्बुजन्म भवता चेत्किं ततः शाश्वतं नैतस्येश्वरमौलिमण्डनमणेर्गायन्ति विश्वे यशः ॥१६६२॥वैद्यगदाधरस्य ।अजनि भगवानस्माद्वेधाः शिरःसु सुधाभुजां कृतपदमिदं चैतद्देव्याः श्रियो धृतिमन्दिरम् ।तदिह भुवनाभोगश्लाघ्ये सरोरुहि यच्चिरं शशधर तव द्वेषारम्भः स एष जडग्रहः ॥१६६३॥तस्यैव ।नयनमसि जनार्दनस्य शम्भोर्मुकुटमणिः सुदृशां त्वमादिदेवः ।त्यजसि न मृगमात्रमेतदिन्दोविरमति येन कलङ्ककिंवदन्ती ॥१६६४॥रामदासस्य । (शा.प. ७५५)आशाः प्रसादयतु पुष्यतु वा चकोरान् कामं तनोतु कुमुदेषु मुदं सुधांशुः ।एकः स एव परमुत्कटराहुदन्त पत्रप्रवेशसमदुःखसुखः कुरङ्गः ॥१६६५॥योगेश्वरस्य ।६. चन्द्रसूर्यौ चारित्राणि रवेर्जयन्ति जगतामग्रे तमो दुर्गतिंदृष्टास्तं व्रजतापि येन शशभृत्यारोपिता दीप्तयः ।प्रीताः स्म पुनरस्य सम्प्रति सदाचारेण शीतद्युतेर्यत्तद्बन्धुषु पङ्कजेषु किमपि प्रारम्भि दुर्नाटकम् ॥१६६६॥जलचन्द्रस्य ।दिवसरजनीनाथौ पुंसः परस्य विलोचनेकमलकुमुदानन्दग्रन्थी तमःपरिपन्थिनौ ।तपनशशिनौ सृष्ट्वा राहुग्रहं सृजता त्वया कथं अपयशस्तादृग्धातः स्वहस्तितमात्मनः ॥१६६७॥वैद्यगदाधरस्य ।विरम तिमिर साहसादमुष्माद्दिनमणिरस्तमुपागतस्ततः किम् ।कलयति न पुरोमहो महोर्मिप्लुतवियदभ्युदयत्ययं सुधांशुः ॥१६६८॥श्रीवल्लालसेनदेवपादानाम् । (शा.प. ७६३, सूक्तिमुक्तावलि ११.६)तत्तावदेव शशिनः स्फुरितं महीयोयावन्न तिग्मरुचिमण्डलमभ्युदेति ।अभ्युद्गते सकलधामनिधौ तु तस्मिन्न्इन्दोः सिताभ्रपटलस्य च को विशेषः ॥१६६९॥मधुकूटस्य । (स.क.आ. २.८७, स्व५५५, सु.र. १२०५)विश्वेषां दधता प्रबोधपदवीं येनानुषङ्गात्कृताः स्वेषामम्बुरुहां श्रियः स भगवानुष्णोऽपि सेव्यो रविः ।शीतेनापि किमिन्दुना यदुदये तस्यैव यद्बान्धवैर्उद्बुद्धं कुमुदैरिदं तु शिरसा कृत्स्नं जगद्घूर्णते ॥१६७०॥उमापतिधरस्य ।७. समुद्रः आच्छिद्य लक्ष्मीमित एव पूर्वं अत्रैव विस्रम्भसुखप्रसुप्तः ।एकः परं वेद स कैटभारिर्महाशयत्वं मकरालयस्य ॥१६७१॥दशरथस्य ।यद्यपि स्वच्छभावेन दर्शयत्यम्बुधिर्मणीन।तथापि जानुदध्नोऽयमिति चेतसि मा कृथाः ॥१६७२॥भाष्यकारस्य । (शा.प. १०७९, स्व८५५)उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा लक्ष्मीमस्य निरस्यतो जलनिधेर्जातं किमेतावता ।गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान् मर्यादां किमयं भिनत्ति किमयं न त्रायते पत्रिणः ॥१६७३॥लक्ष्मीधरस्य । (सु.र. १०५५)अये वारां भर्तः कुलिशकरकोपप्रतिभयाद्अयं पक्षप्रेम्णा गिरिपतिसुतस्त्वामुपगतः ।त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥१६७४॥बिभोकस्य ।कियानिन्दुस्तस्मिन्नसति भवतः कैव गणनात्वमेतेनैवेह प्रसभमसि रत्नाकर इति ।दिशो विस्फायन्तां भवतु कृतकृत्यः स्मरहरोहरेरास्तां चक्षुः प्रसरतु यशस्ते दिशि दिशि ॥१६७५॥शुङ्गोकस्य ।८. समुद्रोत्कर्षः मर्यादैकपरायणस्य जलधेर्वेलातटक्ष्मारुहांयल्लक्ष्मीरनपायिनी भगवतो माहात्म्यमस्यैव तत।एतस्मिन्क्षुभिते तु वीचिवलनैर्विश्वं निपीय स्थितेसूर्याचन्द्रमसोरपीह न कथा केऽमी तटान्तद्रुमाः ॥१६७६॥धोतीकस्य ।एकेनैव पयोधिना जलमुचस्ते पूरिताः कोटिशो जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः ।आहो शुष्यति दैवदुर्विलसितैरम्भोभिरम्भोमुचः संभूयापि विधातुमस्य रजसः स्तैमित्यमप्यक्षमाः ॥१६७७॥शब्दार्णवस्य । (सु.र. १०४७)किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयंवाच्यः किं महिमास्य यस्य हि किल द्वीपं महीति श्रुतिः ।त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाःशक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥१६७८॥तस्यैव । (सु.र. ११९६; सूक्तिमुक्तावलि १०४.१०)एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।अस्मान्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥१६७९॥हरेः । (सु.र. ११९७, मुञ्जराजस्य; सूक्तिमुक्तावलि १०४.९, जलमानुषीरुद्रस्य)मर्यादाभङ्गभीतेरमृतमयतया धैर्यगाम्भीर्ययोगान्न क्षुभ्यन्त्येव तावन्नियमितसलिलाः सर्वदैते समुद्राः ।आहो क्षोभं व्रजेयुः क्वचिदपि समये दैवयोगात्तदानींन क्षोणी नाद्रिवर्गो न च रविशशिनौ सर्वमेकार्णवं स्यात॥१६८०॥सुवर्णरेखस्य । (सु.र. १०४८) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP