अपदेशप्रवाहवीचयः - सुभाषित १९०१ - १९२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


५३. चूतः

तैस्तैर्जन्मप्रभृति विदितैर्दोहदैः प्राक्प्रयत्नात्
सिक्त्वा सिक्त्वा कथमपि घटीयन्त्रमुक्तैः पयोभिः ।
नीत्वा चूतं फलसमुदयावाप्तियोग्यामवस्थां
तत्र स्नेहं त्यजसि किमिवोद्यानपाल क्षणेन ॥१९०१॥

कस्यचित।

दग्धाः केऽपि दवानलेन कतिचिद्बात्यारयान्दोलनैर्
व्यापन्नाः कुल्तिशाभिघातरुजया केचिद्विसृष्टासवः ।
एकः क्लान्तजनाश्रयो विजयसे चूत त्वमुर्वीरुहां
धिग्दैवं भवतोऽपि कीटपटलैरन्तः प्रवेशः कृतः ॥१९०२॥

वैद्यगदाधरस्य ।

हे चूतद्रुम किं मुधैव मधुपान्प्रीणासि किं कोकिलान्
जल्पन्तो मधुराणि नित्यमलिना नैते चिरस्थायिनः ।
तानुल्लासय पल्लवाननुदिनं यैराहितामुन्नतिं
बिभ्राणः प्रतिपर्वनिर्भरफलैरुत्तुङ्गतां यास्यसि ॥१९०३॥

वैद्यत्रिविक्रमस्य ।

यो दृष्टः स्फुटदस्थिसम्पुटमुखान्निर्यत्प्रवालाङ्कुरो
लब्धः स द्विदलादिकक्रमवशादारूढशाकाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः
सोत्कर्षं फलितो भृशं च विनतः कोऽप्येष चूतद्रुमः ॥१९०४॥

कस्यचित। (शा.प. १०१९, हेतुकस्य; सूक्तिमुक्तावलि ३३.१७, हर्षस्य; सु.र. ११०४)

सुगन्धिः कोऽपि स्यात्कुसुमसमये कोऽपि विटपी
शलाटौ सामोदः फलपरिणतु कापि सुरभिः ।
प्रसूनप्रारम्भात्प्रभृति फलपाकावधि पुनर्
जगत्येकत्रैव स्फुरति सहकारे परिमलः ॥१९०५॥

उमापतिधरस्य ।
५४. अशोकः

छायातिसान्द्रशिशिरा नवपल्लवानि
स्निग्धानि मुग्धसुरभिः स्तवकप्रबन्धः ।
स्थित्वा फलानि सदृशानि विधेहि मा वा
दृष्ट्वैव ते मुखमशोक वयं विशोकाः ॥१९०६॥

नाकोकस्य ।

सन्तु स्वादुफलाः शतं परिमलश्लाघ्यप्रसूनावली
संबाधाश्च शतं वसन्तसमये वैशेषिकाः शाखिनः ।
उत्फुल्लस्तवकस्रगुज्ज्वलनवप्रोत्खेलवल्लिर्यथा
कङ्केल्लिः श्रियमस्य पुष्यति तथा कः प्रेक्षणीयोपरः ॥१९०७॥

तस्यैव ।

कियन्तः सन्त्येते जगति तरवः कोऽपि न पुनः
प्रसूनार्थं नारीचरणपरिचर्या गतिरभूत।
प्रमोदादन्तश्चेद्वलति फलवाञ्छा तव तदा
वदाशोक श्लाघ्यो भवतु कतरो दोहदविधिः ॥१९०८॥

जलचन्द्रस्य ।

केषांचित्कुसुमोदयादनु विना तेनापि केषांचन
स्फायन्ते धरणीरुहामिह दिनैर्द्वित्रैः फलश्रेणयः ।
पुष्पश्रेणिषु पद्मरागपदवीपत्रेषु कान्ताकर
श्रीरित्येव फलादृते बत गतः कङ्केल्लिजन्मग्रहः ॥१९०९॥

उमापतिधरस्य ।

किं ते नम्रतया किमुन्नततया किं ते घनच्छायया
किं ते पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।
यत्त्वन्मूलनिषण्णस्विन्नपथिकस्तोमः स्तुवन्नन्वहं
न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥१९१०॥

कविराजश्रीनारायणस्य । (शा.प. १००४, सूक्तिमुक्तावलि ३३.३२, श्रीभोजदेवस्य; सु.र. १०३८, कस्यचित्)
५५. शाल्मलिः

पुष्पं रक्षतु कण्टकैः परिमलेनानन्दयन्केतकीः
किं चासौ पनसः सुधासहचरस्वादातिहृद्यं फलम् ।
नामोदः कुसुमे फलेषु न रसस्तत्किं मुधा शाल्मले
काण्डं निर्भरमावृणोषि विषमैरामूलतः कण्टकैः ॥१९११॥

नाकोकस्य ।

मूलं कण्ठककर्परैरुपचितं निःसारमन्तर्वपुर्
निर्गन्धं कुसुमं फलं क्षुधि मुधा पत्रैर्न हृद्यं क्वचित।
वृद्धिर्गृध्रपरिग्रहाय तदहो वक्तव्यमन्यत्परं
भ्रातः शाल्मलिवृक्ष नास्ति भवतः किंचिन्महत्त्वोचितम् ॥१९१२॥

कस्यचित।

आहूतः परितो दिगन्तगतिभिः शाखाभराडम्बरैः
किं रे जाल्म जवेन शाल्मलिफलप्रत्याशया धावसि ।
तस्मिन्नेकपदे भिदेलिमफलव्यालोलतूलोत्करैर्
अध्वानोऽपि निमीलिताक्षमटता न प्रेक्षणीयाः पुरः ॥१९१३॥

जलचन्द्रस्य ।

प्रसारः शाखानां स्थगितगगनाभोगमहिमा
समृद्धिः शोणाम्भोरुहवनसमाना सुमनसाम् ।
प्रकाण्डश्रीर्वाचामपि न विषयः शाल्मलितरोस्
तथाप्यंशुश्रेणीमयमनुपभोग्यं बत फलम् ॥१९१४॥

उमापतिधरस्य ।

एतस्मिन्कुसुमे स्वभावमहति प्रायो महीयः फलं
रम्यं स्वादु सुगन्धि शीतलमलं प्राप्तव्यमित्याशया ।
शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो
यावत्तत्पुटसन्धिनिर्गतपतत्तूलं फलात्पश्यति ॥१९१५॥

शालिकनाथस्य । (सु.र. १०६३)

५६. मार्गतरुः

यच्छायामतनुं तनोषि मधुरैः प्रीणासि यत्त्वं फलैर्
यन्नम्नोऽसि यदुन्नतोऽसि चतुरे यद्वर्तसे वर्त्मनि ।
यत्पान्थैरपरैरपि प्रतिपथं प्रस्तूयसे प्रायशस्
तन्नाथ क्षितिज त्वमेव पथिकैर्विश्रान्तये चिन्त्यसे ॥१९१६॥

कस्यचित।

उपरि मिहिरः क्रूरः क्रूरास्तलेऽचलभूमयो
वहति पवनः पांशूत्कर्षी कृशः सरसो रसः ।
अहह न जहत्येते प्राणांस्तदैव किमध्वगा
यदि न भवतः पत्रच्छत्रं विशन्ति महीरुहः ॥१९१७॥

पुरुसेनस्य ।

आसीद्यस्तव पुत्रकस्त्रिचतुरैः पत्राङ्कुरैरावृतो
मेघोन्मुक्तजलैकजीवनविधिः सन्मार्गलब्धास्पदः ।
सोऽयं संप्रति वासरैः कतिपयैरध्वन्यपुण्योच्चयैः
संपन्नः फलनम्रपल्लवततिच्छायोपलिप्तावनिः ॥१९१८॥

सुरभेः ।

ये पूर्वं परिपालिताः फलदलच्छायादिभिः पत्रिणो
विश्रामद्रुमं कथ्यतां तव विपत्काले क्व ते साम्प्रतम् ।
एताः संनिधिमात्रदर्शितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥१९१९॥

वित्तोकस्य । (शा.प. ९८५, सु.र. १०९९)

किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया
युक्तश्चेत्फलितोऽसि किं फलभरैराढ्योऽसि कस्मान्नतः ।
हे सद्वृक्ष सहस्व सम्प्रति शिखाशाख्याशताकर्षण
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥१९२०॥

कस्यचित। (स.क.आ. ४.९३, शा.प. ९७१, सूक्तिमुक्तावलि ३३.४)

N/A


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.