संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित ३८१ - ४०० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित ३८१ - ४०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ३८१ - ४०० Translation - भाषांतर ७७. चन्द्ररश्मिःये पूर्वं यवशूकसूचिसुहृदो ये केतकाग्रच्छदच्छायाधामभृतो मृणाललतिका लावण्यभाजश्च ये ।ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बररुचो जाताः सुधांशोः कराः ॥३८१॥राजशेखरस्य । (वि.शा.भ. ३.१०, सु.र. ९५३)कपाले मार्जारः पय इति करान्लेढि शशिनः तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति ।रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विह्वलयति ॥३८२॥तस्यैव । (Kप्५४६, स्व. १९९४, स.क.आ. ३.११४, सु.र. ९०५)निद्रानन्दकरीर्नितान्तधवला आमोदिनीरप्यमूःपीयूषं मधु वर्षतीरपि तमोभृङ्गान्निराकुर्वतीः ।आकाशद्रुममञ्जरीरिव विधोर्भासः ककुप्कामिनीलीलोत्तंसरुचः करोति नियतं बाणान्प्रसूनायुधः ॥३८३॥सुरभेः ।एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर्नारीणां नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः ।हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर्वेल्लद्भिर्भुवनं विभूषितमिदं शीतद्युतेरंशुभिः ॥३८४॥तस्यैव ।हारश्रीसुहृदो रथाङ्गरमणीसंन्यासपुण्यापगावन्दीभूतमधुव्रताब्जकलिकाकाराकवाटार्गलाः ।उन्मीलन्ति चकोरदैवतसुधापूर्णाहुतीनां स्रुवोव्योमान्तःपरिमाणसूत्रसरलास्तास्ता हिमांशोः कलाः ॥३८५॥अभिनन्दस्य ।७८. ज्योत्स्नाशीतांशुः शशिकान्तनिर्मलशिला तस्यां प्रसुप्तः सुखंजग्ध्वा ध्वान्ततृणाङ्कुरान्मृगशिशुः खण्डेन्द्रनीलत्विषः ।निद्रामुद्रितलोचनालसतया रोमन्थफेनच्छटांरोदःकन्दरपूरणाय तनुते ज्योत्स्नाच्छलेनामुना ॥३८६॥कापालिकस्य ।संप्रत्याक्रमते पुरन्दरपुरीकासारकह्लारिणीकोषोद्धाटनकुञ्जिकाः प्रकटयन्नारम्भतः कौमुदीः ।पौरस्त्याद्रितटीकुटुम्बि मृगयुव्यापारितास्त्रव्यधव्यङ्गक्रोडकुरङ्गसङ्गलदसृक्संसर्गशोणः शशी ॥३८७॥अपिदेवस्य ।कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव ।स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां कुर्वन्पार्वणशर्वरीपतिरसावुद्दाम विद्योतते ॥३८८॥परमेश्वरस्य । (सु.र. ९३७)सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रतीयेयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत।उन्मेयाकलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैःपातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥३८९॥राजशेखरस्य । (शा.प. ३६३८, सूक्तिमुक्तावलि ७२.१५, सु.र. ९५२)क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत्तत्क्षोभाज्जलबुद्बुदा इव भवन्त्यालोहितास्तारकाः ।चन्द्रः क्षीरमिव क्षरत्यविरतं धारासहस्रोत्करैर्उद्ग्रीवैस्तृषितैरिवाद्य कुमुदैर्ज्योत्स्नापयः पीयते ॥३९०॥विक्रमादित्यचण्डालविद्याकालिदासानाम् । (सु.र. ९२७)७९. कलङ्कःमहानीलश्यामं नरकरिपुवक्षो वियदिदंततांशुश्रेणीकस्तुहिनकिरणः कौस्तुभमणिः ।कलङ्कोऽप्येतस्य प्रमुखनिवसत्तोयाधिसुतास्तनासङ्गस्फूर्जन्मदलिखितपत्रप्रतिकृतिः ॥३९१॥सुरभेः ।किरद्वारां धारा इव किरणधाराः प्रतिदिशंतुषारांशोर्बिम्बं मणिघटितधारागृहमिव ।इहायं कस्तूरीहरिणमदपङ्काङ्किततनुःकलङ्कव्याजेन प्रतिवसति कन्दर्पनृपतिः ॥३९२॥प्रतिनन्दस्य ।शेषस्याहेर्व्रजति तुलनां मण्डलीभूतमूर्तेर्इन्दुः कुन्दस्तवकविशदः पार्वणोऽयं यथैव ।व्योमाभोधौ सजलजलदश्यामरोचिस्तथोच्चैर्अङ्कः शङ्कामयमपि हरेस्तत्र सुप्तस्य धत्ते ॥३९३॥राजशेखरस्य ।स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बमम्बरोद्याने ।किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥३९४॥तस्यैव । (सु.र. ९२८)यथायं भात्यंशून्दिशि दिशि किरन्कुन्दविशदान्शशाङ्कः काश्मीरीकुचकलशशलावण्यघटितः ।तथायं कस्तूरीमसिलिखितमुद्रामतितुलांनवाम्भोदच्छेदच्छविरपि समारोहति मृगः ॥३९५॥शर्वस्य । (सु.र. ९३९)८०. सतमश्चन्द्रः प्रथममरुणच्छायस्तावत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।प्रभवति ततो ध्वान्तध्वंसक्षमः क्षणदामुखेसरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥३९६॥राजशेखरस्य । (Kप्१३९, स्व२००४, सूक्तिमुक्तावलि ७२.४, सु.र. ९२६)निःससार करघातविदीर्णध्वान्तदन्तिरुधिरारुणमूर्तिः ।केशरीव कटकादुदयाद्रेर्अङ्कलीनहरिणो हरिणाङ्कः ॥३९७॥भवभूतेः ।प्रत्यग्रप्रसरे तमिस्रपटले बिम्बैकमात्रोदयारम्भे शीतरुचावकीर्णकिरणे रम्योऽयमेकः क्षणः ।यस्मिन्नीलनिचोलकेन पिहितं कृत्वा तदेकान्ततः सिन्दूरारुणचक्रमुद्रितमिव त्रैलोक्यमालोक्यते ॥३९८॥कस्यचित।अथ जगदवगाढं वासरान्तापचारात्तिमिरपटलवृद्धावप्रतीकारसत्त्वम् ।शशिभिषगनुपूर्वं शीतहस्तोऽभिषज्यन्न्अधिकविशदवक्त्रः स्वैरभावं चकार ॥३९९॥कस्यचित।य एष प्रत्यूषे रविशवरमालोक्य पुरतोनभःपारावारं न्यविशत भयादिन्दुशफरः ।स सायं निःशङ्कं चटुलतरतारार्भकशतैश्चरन्मन्दं मन्दं तिमिरजलनीलीमुदयते ॥४००॥वैद्यगदाधरस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP