संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १६ - २०

देवप्रवाहः - सुभाषित १६ - २०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१६. हरबाणः

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽंशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥७६॥

अमरोः । (अमरु २; सु.र. ४९)

सिन्दूरश्रीर्ललाटे कनकरसमयः कर्णपाशावतंसो
वक्त्रे ताम्बूलरागः पृथुकुचकलसे कुङ्कुमस्यानुलेपः ।
दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मी
रश्रेयांसि क्षिणोतु त्रिपुरहरशरोद्गारजन्मानलो वः ॥७७॥

मङ्गलस्य । (सु.र. ६७)

विष्वग्व्याधूय धूमप्रचययवनिकां स्फायमानस्फुलिङ्ग
व्याजादवकीर्य पुष्पाञ्जलिमुपरि पदं न्यस्यतो मन्दिराणाम् ।
स्वच्छन्दाभोगसीमा महति मयपुरे दत्तरौद्राङ्गराग
व्याप्ताशेषस्य विश्वेश्वरशरशिखिनस्ताण्डवं नः पुनातु ॥७८॥

वैद्यगदाधरस्य ।

बाष्पैर्वीताङ्गरागच्छविषु विरचयन्नच्छधूमच्छटाभिः
कस्तूरीपत्रमायां मयनगरवधूवर्गवक्षोरुहेषु ।
आसाम्लानपुष्पस्तवकनवकलामंशुभिः कुन्तलेषु
व्याकुर्वन्नन्धकारं हरतु हरशरोद्गारजन्मानलो वः ॥७९॥

जलचन्द्रस्य ।

चापं मुष्टिर्भवान्याः सरसिजमुकुलश्रीः कथं वा विधत्ते
प्रत्यालीढं कथं वा रचयतु मणिमन्नूपुरो वामपादः ।
इत्थं यावद्वितर्कं विदधति विबुधास्तावदग्रे य आसीद्
वाणाग्निः प्लुष्टदैत्यो मयपुरमथने धूर्जटेः सोऽवताद्नः ॥८०॥
१७. अष्टमूर्तिः

पयोदानां पन्थाः कवलविषयो वा परिमलं
वहन्बिभ्राणो वा सुहृदपसुहृद्वा जलरुहाम् ।
ददद्गृह्णानो वा हविरिति मुहुर्यस्य विबुधाः
स्तुवन्त्यष्टौ मूर्तीः स जगदवतादन्धकरिपुः ॥८१॥

श्रीहनूमतः ।

दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते
यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत।
यस्तत्पित्तमुषःसु योऽस्य विधये यस्तस्य जीवातवे
वोढा यद्गणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥८२॥

चित्तपस्य । (Kउवल्. १०५६)

मौलिं नेनोक्ति भालं तिलकयति तनोरङ्गरागं विधत्ते
धम्मिल्लं सन्दधाति प्रथयति शिरसि व्यक्तमुत्तंसलक्ष्मीम् ।
सम्प्रीणीते भुजङ्गानपनयति रसं वेत्ति संमोदमुद्रां
याभिः शृङ्गारबन्धस्तनुभिरिव शिवस्ताभिरस्तु श्रिये वः ॥८३॥

जलचन्द्रस्य ।

यां धम्मिल्लपदेऽभिषिञ्चति यया सन्ध्यासु बद्धाञ्जलिर्
यामायम्य यदात्मकानि नयनान्यामील्य यां ध्यायति ।
यां च स्यन्दनतां निनाय सहितस्ताभिः स्वयं मूर्तिभिर्
देवो विश्वतनुः पुनातु स जगच्चन्द्रार्धचूडामणिः ॥८४॥

सुधाकरस्य ।

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविष्यगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥८५॥

कालिदासस्य । (Sःअक्१.१)
१८. भैरवः

खट्वाङ्गीकृतधूमकेतुधटितप्रेताधिराट्पञ्जर
प्रोतब्रह्मशिरः कपालवलयं बिभ्रज्जटामण्डलम् ।
कण्ठे सप्तमहर्षिवक्त्ररचितामेकावलीमुद्वहन्
पायाद्वः सुलभव्रतोपकरणः कल्पान्तकापालिकः ॥८६॥

कस्यचित।

सद्यः प्रध्वस्तदेवासुरसरसशिरःश्रेणिशोणारविन्द
स्रग्दामानद्धमूर्तेर्घनरुधिरकणक्लिन्नचर्मांशुकस्य ।
निष्पर्यायत्रिलोकीभवकवलरसव्यात्तवक्त्रस्य जीयाद्
आनन्दः कालरात्रीकुचकलसपरीरम्भिणो भैरवस्य ॥८७॥

उमापतिधरस्य ।

वैकुण्ठस्य करङ्कमङ्कनिहितं स्रष्टुः कपालं करे
प्रत्यङ्गं च विभूषणं विरचितं नाकौकसां कीकसैः ।
भस्म स्थावरजङ्गमस्य जगतः शुभ्रं तनौ बिभ्रतः
कल्पान्तेषु कपालिनो विजयते रौद्रं कपालव्रतम् ॥८८॥

भवभूतेः ।

एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन्
देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं
कस्त्वं ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ॥८९॥

वैद्यगदाधरस्य ।

कल्पान्ते शयितत्रिविक्रममहाकङ्कालदन्ती स्फुरच्
छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवतानितान्तमुदितौ तौ मत्स्यकूर्मावुभौ
कर्षन्धीवरतां गतोऽस्य तु महामोहं महाभैरवः ॥९०॥

चित्तपस्य । (सूक्तिमुक्तावलि २.२४)
१९. हरनृत्यारम्भः

आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां
स्थाने क्ट्वेन्दुलेखां निविडयति जटापन्नगेन्द्रेण नन्दी ।
कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं
शम्भोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥९१॥

शतानन्दस्य । (सु.र. ७६, सूक्तिमुक्तावलि २.२९)

नन्दिन्खञ्जनमञ्जुनादमुरजं संगृह्य सज्जीभव
कुष्माण्डानय भस्मभाजनमितो लम्बोदरागम्यताम् ।
स्कन्दं नन्दय मन्दिरोदरगतं देवीति रङ्गाङ्गणे
शम्भोस्ताण्डवमण्डनैर्कमनसः संजल्पितं पातु वः ॥९२॥

योगेश्वरस्य ।

भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मन्नुन्नय दूरमात्मसदनं देवस्य नो नृत्यतः
शम्भोः संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥९३॥

तस्यैव । (सु.र. ७४, सूक्तिमुक्तावलि २.३०)

अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर्
गङ्गा गङ्गोरग उरग इत्याकुलाः सम्भ्रमेण ।
भूषादानोपकरणगणप्रापणव्यापृतानां
नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥९४॥

धनपालस्य । (स.क.आ. २.२३५, सूक्तिमुक्तावलि २.२७)

क्षोणि क्षोभं क्षमस्व त्वमपि कुरु महाकूर्म कर्म स्वकीयं
भो भोः कैलासमेरुप्रभृतिकुलधराधारिणो गच्छताधः ।
ब्रह्मन्नुद्गच्छ दूरं कुरुत जलधयः स्थैर्यमित्यष्टमूर्तेर्
भर्तुर्नृत्यावतारे सरभसगदिताः पान्तु वो नन्दिवाचः ॥९५॥

द्वैपायनस्य ।

२०. हरनृत्यं

भ्राम्यद्विश्वंभराणि भ्रमिचलननमत्कूर्मकुम्भीनसानि
त्रुष्ट्यत्ताराणि रिङ्गद्धरिणधरशिरःश्रेणीशीर्यद्दृषन्ति ।
दिक्कीरेओदञ्चदम्पि द्रवदमरचमूचक्रचञ्चद्वियन्ति
व्यस्यन्तु व्यापदं वस्त्रिपुरविजयिनस्ताण्डवारम्भणानि ॥९६॥

राजशेखरस्य ।

हेलापाद्रप्रतापान्नमदवनिभराक्रान्तकूर्मेशशेष
प्रोद्भूतश्वासवातोच्छलदुदधिपयोधौतसूर्येन्दुतारम् ।
भ्राम्यद्दोःसङ्घवेगापतदचलकुलध्वानसंत्रस्तविश्वं
त्रैलोक्यैश्वर्यकारि द्यतु तव दुरितं ताण्डवं चन्द्रमौलेः ॥९७॥

वाच्छोकस्य ।

उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति 
क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास्तौर्यत्रिकानुक्रमात।
कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि 
भ्रान्तौ केवलमग्निहासगरलैर्लेखात्रयं पातु वः ॥९८॥

सागरधरस्य ।

पायाद्वः सुरदीर्घिकाजलरयभ्राम्यज्जटामण्डली
वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलम् ।
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल
ग्रासत्रस्तसुराङ्गनाकलकलक्रीडाविलक्षो हरः ॥९९॥

ब्रह्महरेः । (सु.र. ६८, कर्कराजस्य)

सन्ध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि
व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः ।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम्
उड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकितः ॥१००॥

कस्यचित। (सु.र. ५०, सूक्तिमुक्तावलि २.३१)


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP