संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित ५१ - ५५ देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित ५१ - ५५ सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ५१ - ५५ Translation - भाषांतर ५१. कृष्णशैशवम्कृष्णेनाद्य गतेन रन्तुमनसा मृद्भक्षिता स्वेच्छयासत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगन्माता यस्य जगाम विस्मयपदं पायात्स वः केशव ॥२५१॥कस्यचित। (स.क.आ.व्२३, शा.प. ४०१६)लीलोत्तानशयोऽपि गोपनिवहैरुद्गीयमानेष्वतिप्रौढप्रौढमुरारिविक्रमकथागीतेषु दत्तश्रवाः ।कस्मिंश्चित्क्षुभितः कुतोऽपि चलितः कुत्रापि रोमाञ्चितःक्वापि प्रस्फुरितः कुतोऽपि हसितः प्राप्तो हरिः पातु वः ॥२५२॥महीधरस्य ।न्यञ्चन्नुदञ्चन्बहुशः कथंचिद्उदञ्चितो वेफथुमान्हरिर्वः ।देवोऽसि देवोऽसि सपाणितालंयशोदयोक्तः प्रहसन्पुनातु ॥२५३॥कस्यचित।अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्अलिकमलिके कृत्वा गोपीजनेन ससम्भ्रमम् ।शिशुरिति रुदन्कृष्णो वक्षःस्थले निहितश्चिरान्निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥२५४॥ दिवाकरदत्त्स्य । (पद्या. १३५; बा.रा.क्५.१७५१)ब्रूमस्त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृतेत्वं यादृग्गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् ।इत्युक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वाननेगोपीभिः पुरतः पुनातु जगतीमुत्तानसुप्तो हरिः ॥२५५॥ वनमालिनः । (पद्या. १३५)५२. कृष्णकौमारम्वत्स स्थवरकन्दरेषु विचरन्दूरप्रचारे गवांहिंस्रान्वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद्बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥२५६॥ अभिनन्दस्य । (सु.र. १४४, पद्या. १४९)श्यामोच्चन्द्रा स्वपिति न शिशो नैति मामम्ब निद्रानिद्राहेतोः शृणु कथां कामपूर्वां कुरुष्व ।व्यक्तः स्तम्भान्नरहरिरभूद्दानवं दारयिष्यन्न्इत्युक्तस्य स्मितमुदयते देवकीनन्दनस्य ॥२५७॥ शतानन्दस्य । (सु.र. १२३; Pक्१५१ सर्वानन्दस्य; बा.रा.क्५.१७६१)मा दूरं व्रज वत्स तिष्ठति पुरस्ते लूनकर्णो वृकःपोतानत्ति इति प्रपञ्चचतुरोदारा यशोदागिरः ।आकर्ण्योच्छलदच्छहासविकसद्बिम्बाभदन्तच्छदद्वन्द्वोदीरितदन्तमौक्तिकमणिः कृष्णः स पुष्णातु वः ॥२५८॥कस्यचित। कालिन्दीपुलिने मया न न मया शीलोपशल्ये न नन्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने ।दृष्टः कृष्ण इतीरिते सनियमं गोपैर्यशोदापतेर्विस्मेरस्य पुरो हसन्निजगृहान्निर्यन्हरिः पातु वः ॥२५९॥ उमापतिधरस्य । (पद्या. १४८)मन्थानमुज्झ मथितुं दधि न क्षमस्त्वंबालोऽसि वत्स विरमेति यशोदयोक्तः ।क्षीराब्धिमन्थनविधिस्मृतिजातहासोवाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥कस्यचित।५३. कृष्णस्वप्नायितम्शम्भो स्वागतमास्यतामित इतो वामेन पद्मोद्भवक्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः किं किं बालक जल्पसीत्यनुचितं थूथूत्कृतं पातु वः ॥२६१॥ मयूरस्य (KKआ २.५९, पद्या. १४६; बा.रा.क्५.१७५८)धीरा धरित्रि भाव भारमवेहि शान्तंनन्वेष कंसहतकं विनिपातयामि ।इत्यद्भुतस्तिमितगोपवधूश्रुतानिस्वप्नायितानि वसुदेवशिशोर्जयन्ति ॥२६२॥ अभिनन्दस्य । (पद्या. १४७)एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदामर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२६३॥ शुभाङ्कस्य । (KK २.६९(७०); सु.र. १३१, पद्या. २५२)कालिन्दीपुलिनान्तवञ्जुललता कुञ्ज कुतश्चित्क्रमात्सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिकामण्डले ।वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषोहुं हुं वत्स धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥२६४॥विरिञ्चेः ।निर्मग्नेन मयाम्भसि स्मरभयादाली समालिङ्गिताकेनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।इत्थं स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥२६५॥ कस्यचित। (द.रू. उन्देर्४.६०, पद्या. ३७२)५४. कृष्णयौवनम्सोत्तापं जरतीत्भिरफुटरसं बालाभिरुन्मीलितश्वासं वेश्म सुवासिनीभिरधिकाकृतं भुजिष्याजनैः ।प्रत्यग्रप्रकटीकृतार्ति कुलटासार्थेन दृष्टं हरेर्अव्याद्वो नवयौवनोत्सवदशानिर्व्याजमुग्धं वपुः ॥२६६॥भट्टशालीयपीताम्बरस्य ।राधायामनुबद्धनर्मनिभृताकारं यशोदाभयाद्अभ्यर्णेष्वतिनिर्जनेषु यमुनारोधोलतावेश्मसु ।मन्दाक्षश्लथवल्लवानुकरणक्रीडस्य कंसद्विषोलब्धं यौवनमात्रया विजयते गम्भीरशोभं वपुः ॥२६७॥अभिनन्दस्य ।वत्स त्वं नवयौवनोऽसि चपलाः प्रायेण गोपस्त्रियःकंसो भूपतिरब्जनालभिदुरग्रीवा वयं गोदुहः ।सैषानर्थपरम्परेति भगवत्याशङ्क्तातिक्रमेकृष्णे तद्विनयाय नन्दगृहिणीशिक्षोक्तयः पान्तु वः ॥२६८॥वर्धमानस्य ।आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस्तत्तत्तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः ।वेगादुच्छलितास्फुटाक्षरदशा गर्भास्त्रपागौरवात्प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥२६९॥चक्रपाणेः ।आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागताक्षीवः प्रेष्यजनः कथं कुलवधूरेकाकिनी यास्यति ।वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरोराधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥२७०॥ श्रीमत्केशवसेनदेवस्य । (पद्या. २०६)५५. हरिक्रीडाइह निचुलनिकुञ्जे मध्यमध्यास्य रन्तुर्विजनमजनि शय्या कस्य बालप्रवालैः ।इति निगदति वृन्दे योषितां पान्तु युष्मान्स्मितशवलितराधामाधवालोकितानि ॥२७१॥(पद्या. २०१)कृष्ण त्वद्वनमालया सह कृतं केनापि कुञ्जान्तरेगोपीकुन्तलबर्हदाम तदिदं प्राप्तं मया गृह्यताम् ।इत्थं दुग्धमुखेन गोपशिशुनाख्याने त्रपानम्रयोराधामाधवयोर्जयन्ति बलितस्मेरालसा दृष्टयः ॥२७२॥ लक्ष्मणसेनदेवस्य । (पद्या. २०२)भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मितज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधाननेसातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२७३॥ उमापतिधरस्य । (पद्या. २५९, ऱ्Kआद्१२९)व्यालाः सन्ति तमालवल्लिषु वृतं वृन्दावनं वानरैर्उन्नक्रं यमुनाम्बु घोरवदनव्याघ्रा गिरेः सन्धयः ।इत्थं गोपकुमारकेषु वदतः कृष्णस्य तृष्णोत्तरस्मेराभीरवधूनिडेधिनयनस्याकुञ्चनं पातु वः ॥२७४॥आचार्यगोपीकस्य ।सङ्केतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतोद्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः ।केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनोराधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥२७५॥ आचार्य गोपीकस्य (पद्या. २०५; बा.रा.क्५.११५९) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP