संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित २४१ -२६० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित २४१ -२६० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २४१ -२६० Translation - भाषांतर ४९. बुद्धःकामक्रोधौ द्वयमपि यदि प्रत्यनीकं प्रसिद्धंहत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेन ।यस्तु क्षान्त्या शमयति शतं मन्मथादीनरातीन्कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥२४१॥सङ्घश्रियः । (सु.र. ४) पादाम्भोजसमीपसन्निपतितस्वर्णाथदेहस्फुरन्नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्प्रभापल्लवप्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥२४२॥वसुकल्पस्य । (सु.र. १५)कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिकग्रीवालङ्करणश्रियः शमसरित्पूरोच्छलच्छीकराः ।ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचितस्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥२४३॥श्रीधरनन्दिनः । (सु.र. ७)शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।देयात्तुभ्यमवार्थवीर्यविटपः क्षान्तिप्रसूनोद्गमःसुच्छायः षडभिज्ञकल्पविटपीसम्बोधबीजं फलम् ॥२४४॥तस्यैव । (सु.र. ८)यदाख्यानासङ्गादुषसि पुनते वाचं ऋषयोयदीयः सङ्कल्पो हृदि सुकृतिनामेव रमते ।स सार्वः सर्वज्ञः पथि निरपवादे कृतपदोजिनो जन्तूनुच्चैर्दमयतु भवावर्तपतितान॥२४५॥मङ्गलस्य ।५०. कल्कीभ्रान्त्वा महीं तत इतस्तुरगाधिरूढोवेदद्विषो विदलयन्दलिताखिलाशः ।देवो निवर्तितकलिः कृतमार्गदर्शीकल्कं स ते हरतु कल्किकुले भविष्यन॥२४६॥कस्यचित।वामनादणुतमादनु जीयास्त्वं त्रिविक्रम तनूभृतदिक्कः ।वीतहिंसनपथादथ बुद्धात्कल्किताहतसमस्त नमस्ते ॥२४७॥श्रीहर्षस्य । (ण्च्२१.९६)कल्की कल्कं हरतु जगतः स्फूर्जदूर्जस्वितेजावेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।येनोत्क्षिप्य क्षणमसिलतां धूमवत्कल्मषेच्छान्म्लेच्छान्हत्वा दलितकलिनाकारि सत्यावतारः ॥२४८॥जयदेवस्य । आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बनश्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः ।मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यःशीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ॥२४९॥कुलदेवस्य । तीर्थानां शतमस्ति किन्तु फलति श्रद्धाभरादित्यसेर्धारातीर्ह्तमपूर्वमेव कलयन्कल्की शिवायास्तु वः ।यत्प्राप्याखिलवेदभेदकधियः श्रद्धातिरस्कारिणःशक्रस्यातिथयो भवन्ति भवएन्ष्वेनस्विनो जन्तवः ॥२५०॥कस्यचित।५१. कृष्णशैशवम्कृष्णेनाद्य गतेन रन्तुमनसा मृद्भक्षिता स्वेच्छयासत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगन्माता यस्य जगाम विस्मयपदं पायात्स वः केशव ॥२५१॥कस्यचित। (स.क.आ.व्२३, शा.प. ४०१६)लीलोत्तानशयोऽपि गोपनिवहैरुद्गीयमानेष्वतिप्रौढप्रौढमुरारिविक्रमकथागीतेषु दत्तश्रवाः ।कस्मिंश्चित्क्षुभितः कुतोऽपि चलितः कुत्रापि रोमाञ्चितःक्वापि प्रस्फुरितः कुतोऽपि हसितः प्राप्तो हरिः पातु वः ॥२५२॥महीधरस्य ।न्यञ्चन्नुदञ्चन्बहुशः कथंचिद्उदञ्चितो वेफथुमान्हरिर्वः ।देवोऽसि देवोऽसि सपाणितालंयशोदयोक्तः प्रहसन्पुनातु ॥२५३॥कस्यचित।अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्अलिकमलिके कृत्वा गोपीजनेन ससम्भ्रमम् ।शिशुरिति रुदन्कृष्णो वक्षःस्थले निहितश्चिरान्निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥२५४॥ दिवाकरदत्त्स्य । (पद्या. १३५; बा.रा.क्५.१७५१)ब्रूमस्त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृतेत्वं यादृग्गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् ।इत्युक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वाननेगोपीभिः पुरतः पुनातु जगतीमुत्तानसुप्तो हरिः ॥२५५॥ वनमालिनः । (पद्या. १३५)५२. कृष्णकौमारम्वत्स स्थवरकन्दरेषु विचरन्दूरप्रचारे गवांहिंस्रान्वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद्बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥२५६॥ अभिनन्दस्य । (सु.र. १४४, पद्या. १४९)श्यामोच्चन्द्रा स्वपिति न शिशो नैति मामम्ब निद्रानिद्राहेतोः शृणु कथां कामपूर्वां कुरुष्व ।व्यक्तः स्तम्भान्नरहरिरभूद्दानवं दारयिष्यन्न्इत्युक्तस्य स्मितमुदयते देवकीनन्दनस्य ॥२५७॥ शतानन्दस्य । (सु.र. १२३; Pक्१५१ सर्वानन्दस्य; बा.रा.क्५.१७६१)मा दूरं व्रज वत्स तिष्ठति पुरस्ते लूनकर्णो वृकःपोतानत्ति इति प्रपञ्चचतुरोदारा यशोदागिरः ।आकर्ण्योच्छलदच्छहासविकसद्बिम्बाभदन्तच्छदद्वन्द्वोदीरितदन्तमौक्तिकमणिः कृष्णः स पुष्णातु वः ॥२५८॥कस्यचित। कालिन्दीपुलिने मया न न मया शीलोपशल्ये न नन्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने ।दृष्टः कृष्ण इतीरिते सनियमं गोपैर्यशोदापतेर्विस्मेरस्य पुरो हसन्निजगृहान्निर्यन्हरिः पातु वः ॥२५९॥ उमापतिधरस्य । (पद्या. १४८)मन्थानमुज्झ मथितुं दधि न क्षमस्त्वंबालोऽसि वत्स विरमेति यशोदयोक्तः ।क्षीराब्धिमन्थनविधिस्मृतिजातहासोवाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥कस्यचित। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP