संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित १८१ - २०० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित १८१ - २०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १८१ - २०० Translation - भाषांतर ३७. हरेर्मत्स्यावतारःमत्स्यः पुनातु जगदोङ्कृतिकुञ्चितास्योब्रह्माद्वयप्रणयपीवरमध्यभागः ।क्रीडन्नसौ जलधिवीचिभिरेव नेतिनेत्यादरादिव विभावितपुच्छकम्पः ॥१८१॥आवन्त्यकृष्णस्य ।देव्याः श्रुतेर्दनुजदुर्णयदूषितायाभूयःसमुद्गमविधाववलम्बभूमिः ।एकार्णवीभवदशेषपयोधिमध्यद्वीपं वपुर्जयति मीनतनोर्मुरारेः ॥१८२॥उमापतिधरस्य ।ब्रह्माण्डोदरदर्पणे भ्रमिरयोत्क्षिप्ताम्बुधिक्षालितेसंक्रान्तामनिमेषलोचनयुगेनोत्पश्यतः स्वां तनुम् ।शौरेर्मीनतनोः कृशानुकपिशं पार्श्वद्वयं प्रोल्लसच्चन्द्रार्काङ्कितकाञ्चनाद्रिशिखराकारं शिरः पातु वः ॥१८३॥वसन्तदेवस्य ।पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिङ्मण्डलोनैकाब्धिस्तिमितोदरः स भगवान्क्रीडाझषः केशवः ।त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डावधेर्यस्योत्फालकुतूहलेन कथमप्यङ्गेषु जीर्णायितम् ॥१८४॥रघुनन्दस्य । (सु.र. १३५)मत्स्यः पुच्छाभिघातेन तुच्छीकृतमहोदधिः ।अपर्याप्तजलक्रीडारसो दिशतु वः शिवम् ॥१८५॥कस्यचित। ३८. कूर्मःपृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।यत्संस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसांयातायातमयन्त्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥१८६॥केशटाचार्यस्य । (भ्P १२.१३.२; सु.र. १०५, वाक्पतिराजस्य; स्व३६)क्षीराब्धौ मथ्यमाने त्रिदशदनुसुतोन्मुक्तकोलाहलौघेब्रह्माण्डकाण्डचण्डस्फुटनगुरुरवभ्रान्तिभाजित्रिलोक्याम् ।सद्यो निर्दावबोधादुपरि रयवशक्षिप्तदीर्घक्षितिधालग्नग्रीवाप्रकाण्डो जयति कमठराट्चण्डविष्कम्भतुल्यः ॥१८७॥वसुसेनस्य ।पायाद्वो मन्दराद्रिभ्रमणनिकषणाकृष्टपृष्ठाग्रकण्डूलीनानिद्रालुरब्धेः क्षुभितमगणयन्नद्भुतः कूर्मराजः ।यस्याङ्गमर्दहेलावशचलितमहाशैलकीला धरित्रीत्वङ्गत्कल्लोलरत्नाकरवलयचलन्मेखला नृत्यतीव ॥१८८॥सूरेः ।पार्श्वास्फालातिवेगाज्झगिति च विरहादुच्छलद्भिः पतद्भिर्भूयो भूयः समुद्रैर्मिहिरमतिरयादापिबद्भिर्वमद्भिः ।कोटीरस्तोयदानां क्षणमिव गगने दर्शयन्वः पुनीताद्प्षद्गात्रावहेलाचलितवसुमतीमण्डलः कूर्मराजः ॥१८९॥धरणीधरस्य ।कुर्मः कूर्माकृतये हरये मुक्तावलम्बनाय नमः ।पृष्ठे यस्य निषण्णं शैवलवल्लीसमं विश्वम् ॥१९०॥भवानन्दस्य ।३९. वराहःदंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदःसिन्धुष्वङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः ।प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्तेयेनोद्धारे धरित्र्याः स जयति विभुताबृंहितेच्छो वराहः ॥१९१॥वराहमिहिरस्य । (सु.र. १३४)अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलीदेवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥१९२॥नग्नस्य । (सु.र. १०४)सेयं चन्द्रकलेति नागवन्तिआनेत्रोत्पलैरर्चितामद्भारापगमक्षमेति फणिना सानन्दमालोकिता ।दिङ्नागैः सरलीकृतायतकरैः स्पृष्टा मृणालाशयाभित्त्वोर्वीमभिनिःसृता मधुरिपोर्दंष्ट्रा चिरं पातु वः ॥१९३॥केशवस्य ।घोणाघोराभिधातोच्छलदुदधिजलासारसिक्ताग्ररोमारोमाग्रप्रोततारानिकर इति सुरैर्धीरमालोकितो वः ।श्वासाकृष्टावकृष्टप्रविशदपसरद्बुध्नबिम्बानुबन्धाद्आविर्नक्तं दिनश्रीः स दिशतु दुरितध्वंसमाद्यो वराहः ॥१९४॥नरसिंहस्य ।येनाधोमुखपद्मिनीदलधिया कूर्मश्चिरं वीक्षितोघ्रातो येन मृणालमुग्धलतिकाबुद्ध्या फणिग्रामणीः ।यः शालूकमिवोद्दधार धरणीबिम्बं पुनीतादसौत्वामेकार्णवपल्वलैकरसिकः क्रीडावराहो हरिः ॥१९५॥कस्यचित।४०. नरसिंहःसोमार्धायितनिष्पिधानदशनः सन्ध्यायितान्तर्मुखोबालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।अन्तर्नादगभीरपल्वलगलत्वग्रूपनिर्यत्तडित्तारस्फारसटावरुद्धगगनः पायान्नृसिंहो जगत॥१९६॥मुरारेः ।चटच्चटिनि चर्मणि च्छमिति चोच्छलच्छोणितेधगद्धगिति मेदसि स्फुटतरोऽस्थिषु ष्ठादिति ।पुनातु भवतो हरेरमरवैरिनाथोरसिक्वणत्करजपञ्जरक्रकचकाषजन्मा रवः ॥१९७॥वाक्पतिराजस्य । (सु.र. ११६, शा.प. १२६, सूक्तिमुक्तावलि २.७७)प्रेङ्खद्भास्वरकेशरौघरचितत्रैलोक्यसन्ध्यातपोब्रह्माण्डोदररोधिघर्घरसघूत्कारप्रचण्डध्वनिः ।स्फूर्जद्वज्रकठोरनखरक्षुण्णासुरोरःस्थलीरक्तास्वादविदीर्णदीर्घरसनः पायान्नृसिंहो जगत॥१९८॥तस्यैव ।चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापयभो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया ।को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपेकेनास्त्रेण नखैरिति प्रवदतः शौरेर्गिरः पान्तु वः ॥१९९॥केशटस्य ।किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतोनैवं धिक्कोऽत्र जीव द्रुतमुपनय तं सोऽपि सम्प्राप्त एव ।चापं चापं न खड्गं झटिति हहहहा कर्कशत्वं नखानाम्इत्येवं दैत्यराजं निजनखकुलिशैर्जघ्निवान्सोऽवताद्वः ॥२००॥श्रीव्यासपादानाम् । (सु.र. १२८, सूक्तिमुक्तावलि २.७६) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP