संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित ३०१ - ३२० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित ३०१ - ३२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ३०१ - ३२० Translation - भाषांतर ६१. उत्कण्ठारत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकायारुक्मिण्यापि प्रबलपुलकोद्भेदमालिङ्गितस्य ।विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जेराधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥३०१॥ उमापतिधरस्य । (पद्या. ३७१, उ.नी. १४.१८४; Jईव अन्द्VCःत्तो भ.र.सि. २.४.१७८)कलिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरात।राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन्न्अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥३०२॥ शरणस्य । (पद्या. ३६९)कामं कामयते न केलिनलिनीं नामोदते कौमुदीनिस्यन्दैर्न समीहते मृगदृशामालापलीलामपि ।सीदन्नेष निशासु निःसहतनुर्भोगाभिलाषालसैर्अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ॥३०३॥ तस्यैव । (पद्या. ३७०)प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मांमा गोत्रस्खलितादुपैतु च दिवा राधेति भीरोरति ।रात्रावस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतोराधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ॥३०४॥कस्यचित। (स.क.आ.व्४४८)तल्पीकृतस्य भुजगाधिपतेः फणायांरत्नेषु संवलितबिम्बतस्याचलायाः ।कृष्णावतारकृतगोपवधूसहस्रसङ्गस्मृतिर्जयति सोत्कलिकस्य विष्णोः ॥३०५॥कस्यचित।६२. गोपीसन्देशःते गोवर्धनकन्दराः स यमुनाकच्छः स चेष्टारसोभाण्डीरः स वमस्पतिः सहचरास्ते तच्च गोष्ठाङ्गनम् ।किं द्वारवतीभुजङ्ग हृदयं नायाति दोषैरपीत्य्अव्याद्वो हृदि दुःसहं व्रजवधूसन्देशशल्यं हरेः ॥३०६॥ नीलस्य । (पद्या. ३७५)पान्थ द्वारवतीं प्रयासि यदि हे तद्देवकीनन्दनोवक्तव्यः स्मरमोहमन्त्रविवशो गोप्योऽपि नामोज्झिताः ।एताः केलिकदम्बधूलिपटलैरालोकशून्या दिशः कालिन्दीतटभूमयो भवतो नायान्ति चित्तास्पदम् ॥३०७॥ गोवर्धनाचार्यस्य । (पद्या. ३७४; Sःऋङ्गारप्रकाश, छेच्क्सु.र.)उपनय मसिं पत्रं चेदं लिखामि किमत्र वात्वमिति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः ।सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता कथमिति ततः सन्देष्टव्यो मया यदुनन्दनः ॥३०८॥पुंसोकस्य ॥कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः ।सन्दिष्टं व्रजयोषितामिति हरेः संशृण्वतोऽन्तःपुरे निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥३०९॥ पञ्चतन्त्रकृतः । (पद्या. ३७६, उ.नी. १५.१६४)मथुरापथिक मुरारेर्उपगेयं द्वारि वल्लवीवचनम् ।पुनरपि यमुनासलिले कालियगरलानलो ज्वलति ॥३१०॥ वीरसरस्वत्याः । (पद्या. ३६८; उ.नी. १०.९८)६३. सामान्यहरिः सेयं द्योस्तदिदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस्तत्पातालतलं त एव गिरयस्तेऽम्भोधरास्ता दिशः ।इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसायस्यान्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात्स वः ॥३११॥वाक्पतिराजस्य । (सु.र.. १३७)लक्ष्मीं यत्परिचारिकेति नयनं यस्येति यासां पतिंयत्पादार्धभवेति नाकसरितं येनोद्धृतेति श्रुतिम् ।ईशं यत्तनुभागभागिति जनः शुश्रूषते सादरंभूयाद्विश्वनमस्यमानमहिमा भूत्यै स वः केशवः ॥३१२॥समन्तभद्रस्य ।संसारार्तिपरिश्रमाध्वविटपी क्षीरोदवापीपयःक्रीडानाटकनायको विजयते सत्कर्मबीजाङ्कुरः ।दैत्यस्त्रीस्तनपालिपाणिजपदव्यालोपिशिल्पीत्तरीदेवः श्रीवदनेन्दुबिम्बलडहज्योत्स्नाचकोरो हरिः ॥३१३॥भानीः ॥बीजं ब्रह्मैव देवो मधुजलनिधयः कर्णिका स्वर्णशैलःकन्दो नागाधिराजो वियदपि विपुलः पत्रकोशावकाशः ।द्वीपाः पत्राणि मेघा मधुपकुलमभूत्तारकागर्भधूलिर्यस्यैतन्नाभिपद्मं भुवनमिति स वः शर्म देवो दधातु ॥३१४॥हलायुधस्य । (सु.र. १४६)यं लक्ष्मीरुपजीवति स्म भजते यं भारती सम्भ्रमादेतस्मै किमु कीयतां कथमसावस्मादृशैः स्तूयताम् ।सेव्यो वा कथमेष यस्य शिरसा धत्ते पदार्घ्यं शिवस्तस्मात्कृत्यमजानतो मम मनोवृत्तेः प्रमाणं हरिः ॥३१५॥तिलचन्द्रस्य । ६४. हरिभक्तिःबद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैःकण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥३१६॥ श्रीकुलशेखरस्य । (ंउकुन्दमाला २५)नास्था धर्मे न वसुनिचये नैव कामोपभोगेयद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपित्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥३१७॥ तस्यैव । (ंउकुन्दमाला ७)मज्जन्मनः फलमिदं मधुकैतभारेमत्प्रार्थनीयमदनुग्रह एष एव ।त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३१८॥ तस्यैव । (ंउकुन्दमाला ३२)नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोःकुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।रम्यारामामृदुतनुलता नन्दने नापि रन्तुंभावे भावे हृदयभवने भावयेयं भवन्तम् ॥३१९॥ तस्यैव । (ंउकुन्दमाला ६)मुकुन्द मूर्ध्ना प्रणिपत्य याचेभवन्तमेकान्तमियन्तमर्थम् ।अविस्मृतिस्त्वच्चरणारविन्देभवे भवे मेऽस्तु भवत्प्रसादात॥३२०॥ तस्यैव । (ंउकुन्दमाला ४) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP