संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित ३२१ - ३४० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित ३२१ - ३४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ३२१ - ३४० Translation - भाषांतर ६५. समुद्रमथने हरिः श्रेयोऽस्याश्चिरमस्तु मन्दरगिरेर्माघानि पाश्र्वैरियमावष्टम्भि महोर्मिभिः फणिपतेर्मालेऽपि लालाविषैः ।इत्याकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतोवाचोन्तःस्फुरिता बहिर्विकृतिभिर्व्यक्ता हरेः पातु वः ॥३२१॥वाक्पतिराजस्य । (सु.र. ११५)पाण्डुलक्ष्मीकुचाभोगे नर्तिता हरिणा दृशः ।औत्सुक्यादिव तेनादौ निहिता वरणस्रजः ॥३२२॥श्रीमत्केशवसेनदेवस्य ।पातु त्रिलोकीं हरिरम्बुराशौप्रमथ्यमाने कमलां विलोक्य ।अज्ञातहस्तच्युतभोगिनेत्रःकुर्वन्वृथा बाहुगतागतानि ॥३२३॥त्रिभुवनसरस्वत्याः ।ग्राव्णा नासि गिरेः क्षता न पयसाप्यार्तासि न म्लापितानिःश्वासैः फणिनोऽसि न त्वानुगा नायासिता कापि न ।स्वं वेश्म प्रतिगच्छतोरितो मुहुः श्रीशार्ङ्गिणोः सस्पृहंसा पर्श्नोत्तरयुग्मपंक्तिरुभयोरत्यायता पातु वः ॥३२४॥कस्यचित। (स.क.आ. १.९६)पाथोधेः पर्मथ्यमानसलिलादर्धोत्थितायाः श्रियःसानन्दोल्लसितभुवः कुटिलया दृष्ट्यैव पीताननः ।अज्ञातस्वकरद्वयीविगलितव्यालोलमन्थोरगः शून्ये बाहुगतागतानि रचयन्नारायणः पातु वः ॥३२५॥सागरस्य ।६६. समुद्रोत्थितलक्ष्मीःसम्पूर्णः पुनरभ्युदेति किरणैरिन्दुस्ततो दन्तिनःकुम्भद्वन्द्वमिदं पुनः सुरतरोरग्रोल्लसन्मञ्जरी ।इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमःक्षीराब्धेर्मथने भवद्दिविषदामलक्ष्मीरसावस्तु वः ॥३२६॥कस्यचित। (सु.र. १२६)सानन्दं त्रिदशैः सविस्मयमविश्वस्तैः सुरद्वेषिभिःसाश्चर्यं सुरसुन्दरीपरिजनैः सेर्ष्यं च रम्भादिभिः ।साकूतं च सकौतुकं च समनोह्लादं च कंसद्विषादृष्टा दुग्धमहोदधिप्रमथने लक्ष्मीः शिवायास्तु वः ॥३२७॥शङ्करसेवस्य । जयति महोदधिमथने मुररिपुपरिरम्भसंभृता लक्ष्मीः ।सत्वरसत्रपसरभससपुलकसोत्कम्पसस्वेदा ॥३२८॥कस्यचित।मन्थानोल्लासलीलाचलचिकुरमिलत्कुण्डलां कर्णपालिंमिथ्यैवोन्मोचयन्त्याः कृतकपटपरावृत्तयस्ते कटाक्षाः ।लक्ष्म्याः पायासुरन्तः स्मरभरविकसत्स्मेरगण्डस्थलायालज्जालोलं वलन्तो मधुरिपुवदनाम्भोजभृङ्गाश्चिरं वः ॥३२९॥भोजदेवस्य ।श्रियः क्षीराम्भोधेर्निजविनयनम्रेण वपुषाशनैरुत्तिष्ठन्त्याः पवनचलितेन्दीवरदृशः ।कटाक्षो मन्दाक्षस्तिमितलुलितभ्रूर्हरिमनुप्रकीर्णः कालिन्दीलघुलहरिवृत्तिर्विजयते ॥३३०॥कस्यचित।६७. लक्ष्मीस्वयंवरःसोद्वेगं करिकृत्तिवाससि भवद्व्रीडान्वितं ब्रह्मणि त्रैलोक्यैकगुआवनादरवलत्तारं शचीभर्तरि ।त्रासामीलितपक्ष्म भास्वति लसत्प्रेमप्रसन्नं हरौक्षीरोदोत्थितया श्रिया विनिहितं चक्ष्ण्डः शिवायास्तु वः ॥३३१॥समुद्रमथनव्यग्रसुरसन्दोहनिस्पृहाः ।लग्नाः कृष्णस्य वक्त्रेन्दौ पान्तु नो दृष्टयः ॥३३२॥उमापतिधरस्य ।सोत्साहं दधति स्वयंवरमहारङ्गे मिथः स्पर्धयानेपथ्यप्रतिपन्नचित्तकलनाश्चर्यं सुराणां गणे ।उद्यान्त्या मकरालयात्कमलया संभावितः केनचिद्दृक्पातेन विरूढगूढहसितानन्दो हरिः पातु वः ॥३३३॥महादेवस्य ।आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता ।पौलोमीपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया पायाद्वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ॥३३४॥क्षेमेश्वरस्य ।मुग्धे मुञ्च विषादमत्र बलभित्कम्पो गुरुस्त्यज्यतांसद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।लक्ष्मीं शिक्षयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छलाद्इत्यन्यप्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥३३५॥ पुण्डरीकस्य । (Sभ्व्८४ दाक्षिणात्यस्य कस्यापि, पद्या. ३८४ कस्यचित्)६८. लक्ष्मीशृङ्गारःशान्तं शेते न शेषः स्थगयति तिमिरं कौस्तुभीर्नापि भासःसाम ब्रह्मापि गीत्वा मुकुलितनयनो निद्रया ध्यायतीव ।लक्ष्म्या कर्णे गदित्वा मृदुकमिति हरेर्व्रीडया हारि हास्यंहस्तो हस्तेन नीवीवसनविघटनाद्वारितो वः पुनातु ॥३३६॥कस्यचित।तिर्यक्त्वादबुधः फणीमणिर्चोऽप्यस्योपधानीकृतैर्मन्दारैः स्थगितांशवः स्तनघनस्वेदास्पदं कौस्तुभः ।नाभीपद्मरजोऽन्ध एव सततं वेधा मुधा लज्जसेलक्ष्मीमित्यवबोधयन्निधुवनारम्भे हरिः पातु वः ॥३३७॥गणपतेः ।मिथ्याकण्डूतिसाचीकृतगलसरणिर्येषु जातो गरुत्मान्ये निद्रां नाटयद्भिः शयनफणिफणैर्लक्षिता न श्रुताश्च ।ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास्ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥३३८ ॥ राजशेखरस्य (सु.र. १३२)उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वाधृत्वा चान्येन वासो विगलितकवरीभारमंशं वहन्त्याः ।भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वःशय्यामालम्ब्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥३३९ ॥ वररुचेः (स.क.आ. २.३३, V १६५, Vस्१.३; सु.र. १२५, स्व७९, शा.प. १३५)कचचिबुक कुचाग्रे पाणिषु व्यापृतेषुप्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि ।ग्रथितनिविडनीवीबन्धनिर्मोचनार्थंचतुरधिककराशः पातु वश्चक्रपाणिः ॥३४०॥दाक्षिणात्यस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP