संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित २०१ - २२० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित २०१ - २२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २०१ - २२० Translation - भाषांतर ४१. नरसिंहनखाःदंष्ट्रासङ्कटवक्त्रघर्घरललज्जिह्वाभृतो हव्यभुग्ज्वालाभास्वरभूरिकेशरसटाभारस्य दैत्यद्रुहः ।व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटनस्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥२०१॥दक्षस्य । (सु.र. १४१)ये बालेन्दुकलार्धविभ्रमभृतो मायानृसिंहाकृतेर्निर्याता इव ये सिरासरणिभिर्नाभ्यब्जकन्दाङ्कुराः ।ते वक्षःस्थलदारितासुरसरित्कीलालधारारुणाःपायासुर्नवकिंशुकाम्रमुकुलश्रीसाक्षिणः पाणिजाः ॥२०२॥वराहस्य ।अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्क्ते लुठन्तःस्थूलास्थिभङ्गैर्धवलविसलताग्रासमाकल्पयन्तः ।मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजःपायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥२०३॥मयूरस्य ।पुनन्तु भुवनत्रयं दलितदैत्यवक्षःस्थलप्रसर्पिरुधिरच्छटाच्छुरणबालसूर्यत्विषः ।दृढास्थिचयचूर्णनाघटितशब्दसारा हरेर्नृसिंहवपुषश्चिरं पिशितपिण्डगर्भा नखाः ॥२०४॥धूर्जटिराजस्य ।जयन्ति निर्दारितदैत्यवक्षसोनृसिंहरूपस्य हरेर्नखाङ्कुराः ।विचिन्त्य येषां चरितं सुरारयः प्रियानखेभ्योऽपि रतेषु बिभ्यति ॥२०५॥ कस्यचित्(सु.र. १३०)४२. शृङ्गारिनरसिंहःलक्ष्मीमुरःपरिसरे वहतः सलीलंयोगासनं च चरतो नृहरेर्जयन्ति ।एकक्षणोपनतमान्मथभावमुग्धस्वात्मावबोधमसृणानि विलोकितानि ॥२०६॥कस्यचित।न्यञ्चत्केसरमुत्तरङ्गपुलकस्रङ्नद्धमर्धस्खलद्द्वन्द्वालापमपास्तगर्जनमटद्भ्रूभङ्गमार्द्रेक्षणम् ।स्विद्यत्पाणि विनीतदृप्तिकरजं पायान्नृसिंहाकृतेर्देवस्य श्रियमङ्कसीम्नि दधतो विश्रान्तरौद्रं वपुः ॥२०७॥वैद्यगदाधरस्य ।स्वच्छन्दं वैरिवक्षःस्थलकुलिशभिदो वीक्ष्य कन्दर्पचापक्रीडाभाजो नखाग्रान्समसमयभयानन्दलोलायताक्ष्याः ।लक्ष्म्या वक्षोजकुम्भं करिकलभशिरःशङ्कया वीक्ष्यमाणःस्वैरं शान्ताक्षिरागो जयति नरहरिर्जातचित्तानुरागः ॥२०८॥जलचन्द्रस्य ।अव्याद्वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्रप्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ॥२०९॥प्रजापतेः ।आनन्दमुग्धनयनां श्रियमङ्कभित्तौ बिभ्रत्पुनातु भवतो भगवान्नृसिंहः ।यस्यावलोकनविलासवशादिवासीद्उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥२१०॥उमापतिधरस्य ।४३. वामनःइदं प्रायो लोके न परिचितपूर्वं नयनयोर्न याच्ञा यत्पुंसः सुगुणपरिमाणं लघयति ।विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृतेत्रपालीनैरङ्गैर्यदयमभवद्वामनतनुः ॥२११॥वङ्कस्य ।अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूभृतो नमत ।वामनहरिलघुतुन्दे जगतीकलहः स वः पातु ॥२१२॥भवानन्दस्य ।कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित्किमिच्छसि पदत्रयं ननु भुवा किमित्यल्पया ।द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयोहरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥२१३॥वाक्पतेः । (सु.र. ११४)पूज्यो ब्रह्मविदां त्वमेव विमलज्ञानैकपात्रं भवान्मद्भाग्येन गतोऽतिथित्वमधुना किं ते त्रिभिर्भूपदैः ।त्रैलोक्यं भवतं स्वमित्युपगतो दैत्येश्वरेणादराज्ज्ञातोऽस्मीति सलज्जनम्रवदनः पायाज्जगद्वामनः ॥२१४॥वसुसेनस्य ।लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥२१५॥गणाध्यक्षस्य । (शा.प. २७८)४४. त्रिविक्रमःकिं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वाचक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्बलिध्वंसि देहे ।ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टंपायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥२१६॥श्रीहनूमतः ।ज्योतिश्चक्राक्षदण्डः क्षरदमरसरित्पट्टिका केतुदण्डःक्षोणीनौकूपदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः ।ब्रह्माण्डच्छत्र दण्डस्त्रिभुवनस्तम्भदण्डोङ्घ्रिदण्डःश्रेयस्त्रिविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥२१७॥दण्डिनः ।चञ्चत्पादनखाग्रमण्डलरुचिप्रस्यनिगङ्गाजलोविस्फूर्जद्बलिराज्यनाशपिशुनोत्पाताम्बुवाहद्युतिः ।पातु त्वां चरणो हरेः क्रमविधौ यस्याधिकं द्योततेदूरादङ्गुलिमुद्रिकामणिरिव स्फाराङ्कुशजालो रविः ॥२१८॥विक्रमादित्यस्य ।यत्काण्डं गगनद्रुमस्य यदपि क्षोणीतडागोदरेदेवस्यैव यशोऽम्बुशोभिनि महायष्टिः प्रतिष्ठाकरी ।तद्विष्णोः पदमन्तरालजलधेराधारतो भूतलात्पारं द्यामुपगन्तुमुद्यमवतां सेतूभवत्पातु वः ॥२१९॥चक्रपाणेः ।खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभंनिर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामएध्वनि ।पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितंपायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥२२०॥वाक्पतिराजस्य । (सु.र. १२४) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP