संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित २८१ - ३०० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित २८१ - ३०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २८१ - ३०० Translation - भाषांतर ५७. वेणुनादःकृष्णः पातु स यस्य संसदि गवां वेणुप्रणादोर्मयोगोपीनामनुवासरं नवनवा घूर्णन्ति कर्णोदरे ।तद्वक्त्रासववासिता इव तदाकूतिप्रपञ्चा इव भ्राम्यत्तत्करपल्लवाङ्गुलिगलल्लावण्यलिप्ता इव ॥२८१॥लक्ष्मीधरस्य ।तिर्यक्कन्धरमंसदेशमिलितश्रोत्रावतंसं स्फुरद्बर्होत्तम्भितकेशपाशमनृजुभ्रूवल्लरीविभ्रमम् ।गुञ्जद्वेणुनिवेशिताधरपुटं साकूतराधाननन्यस्तामीलितदृष्टि गोपवपुषो विष्णोर्मुखं पातु वः ॥२८२॥ लक्ष्मणसेनदेवस्य । (पद्या. २६०)सायं व्यावर्तमानखिलसुरभिकुलाह्वानसंकेतनामान्य्अभीरीवृन्दचेतो हठहरणकलासिद्धमन्त्राक्षराणि ।सौभाग्यं वः समन्ताद्दधतु मधुभिदः केलिगोपालमूर्तेःसानन्दकृष्टवृन्दावनरसिकमृगश्रेणयो वेणुनादाः ॥२८३॥ उमापतिधरस्य । (पद्या. ५)मन्द्रक्वाणितवेणुरह्नि शिथिले व्यावर्तयन्गोकुलंबर्हापीडकमुत्तमाङ्गरचितं गोधूलिधुम्रं दधत।म्लायन्त्या वनमालया परिगतः श्रान्तोऽपि रम्याकृतिर्गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥२८४॥ कस्यचित। (Kव्स्२२, SKं १.५७.४, सु.र. ११०, पद्या. २५६)अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधरद्वन्द्वोदीरितमन्दमन्दपवनप्रारब्धमुग्धध्वनिः ।ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकाननन्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥२८५॥ केशरकीलीयनाथोकस्य । (पद्या. २६१, नाथोकस्य)५८. गीतम्सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तयाकालिन्दीतटवेतसीवनघनच्छायानिषण्णात्मनः ।पायासुः कलकण्ठकूजितकला गोपस्य कंसद्विषोजिह्वावर्जिततालुमूर्च्छितमरुद्विस्फारिता गीतयः ॥२८६॥ कस्यचित। (पद्या. २४०) कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनोराधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नतग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ॥२८७॥उद्भटस्य । देवस्त्वामेकजङ्घावलयितगुडीमूर्ध्नि विन्यस्तबाहुर्गायन्गोयुद्धगीतिरुपरचितशिरःशेखरः प्रग्रहेण ।दर्पस्फूर्जन्महोक्षद्वयसमरकलाबद्धदीर्घानुबन्धःक्रीडागोपालमूर्तिर्मुररिपुरवतादात्तगोरक्षलीलः ॥२८८॥ योगेश्वरस्य । (सु.र. १२९, सोन्नोकस्य; पद्या. १५२) याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानयाकालिन्दीतटकुञ्जवञ्जुललतामालाम्ब्य सोत्कण्ठया ।उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधयायेनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥२८९॥ कस्यचित। (ध्व्, Vअक्२.५९; एत्च्.; पद्या. ३७३ अपराजितस्य, उ.नी. १४.१८८)यानि तच्चरितामृतानि रसनालेह्यानि धन्यात्मनांये वा शैशवचापल्यव्यतिकरा राधावरोधोन्मुखाः ।या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहेधारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥२९०॥कस्यचित। (KKआ १.१०६)५९. कृष्णभुजःभ्राम्यद्भास्वरमन्दराद्रिशिखरव्याघट्टनाद्विस्फुरत्केयूराः पुरुहूतकुञ्जरकरप्राग्भारसंवर्धिनः ।दैत्येन्द्रप्रमदाकपोलविलसत्पत्राङ्कुरच्छेदिनोदोर्दण्डाः कलिल्कालकल्मषमुषः कंसद्विषो पातु वः ॥२९१॥ कस्यचित। (पद्या. ३८६)लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर्उद्वर्णश्रीर्घननिधुवनक्लान्तिनिद्रान्तरेषु ।दोर्दण्डोऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रिग्रावश्रेणिकषमसृणक्षुण्णुकेयूरपत्रः ॥२९२॥भगीरथस्य । (सु.र. १४२)ये गोवर्धनमूलकर्दमरसव्यादष्टबर्हच्छदाये वृन्दावनकुक्षिषु व्रजवधूलीलोपधानानि च ।ये चाभ्यङ्गसुगन्धयः कुवलयापीडस्य दानाम्भसाते वो मङ्गलमादिशन्तु सततं कंसद्विषो बाहवः ॥२९३॥ शुभाङ्कस्य । (पद्या. ४)जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिणःप्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥२९४॥जयदेवस्य । (ङ्ग्११.३५)पान्तु वो जलदश्यामाःशार्ङ्गज्याघातकर्कशाः ।त्रैलोक्यनगरस्तम्भाश्चत्वारो हरिबाहवः ॥२९५॥श्रीव्यासपादानाम् । (शा.प. ११३)६०. गोवर्धनोद्धारः सत्रासर्ति यशोदया प्रियगुणप्रीतेक्षणं राधयालग्नैर्वल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः ।भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः पायाद्वः करपद्मसुस्थितमहाशैलः सलीलो हरिः ॥२९६॥ सोल्लोकस्य । (सु.र. १४० सोन्नोकस्य; पद्या. २६४ सोह्नोकस्य)एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः श्रान्तोऽसि क्षणमास्स्व साम्प्रतममी सर्वे वयं दध्महे ।इत्युल्लासितदोष्णि गोपनिवहे किञ्चिद्भुजाकुञ्चनन्यञ्चच्छैलभरार्दिते विरुवति स्मेरो हरिः पातु वः ॥२९७॥ शरणस्य । (पद्या. २६५)स्नेहादंसतटेऽवलम्ब्य चरणावारोप्य तत्पादयोर्दूरादस्तमहीधरस्य तनुतामाशङ्क्य दोष्णो हरेः ।शैलोद्धारसहायतां जिगमिषोरप्राप्तगोवर्धनाराधायाः सुचिरं जयन्ति गगने बन्ध्याः करभ्रान्तयः ॥२९८॥शतानन्दस्य ॥दूरं दृष्टिपथात्तिरोभव हरेर्गोवर्धनं विभ्रतस्त्वय्यासक्तदृशः कृशोदरि करस्रस्तोऽस्य मा भूदयम् ।गोपीनामिति जल्पितं कलयतो राधानिरोधाश्रयंश्वासाः शैलभरश्रमभ्रमकराः कंसद्विषः पान्तु वः ॥२९९॥ शुभाङ्कस्य । (पद्या. २६७)मुग्धे नाथ किमात्थ तन्वि शिखरिप्राग्भारभुग्नो भुजःसाहाय्यं प्रिय किं भजामि सुभगे दोर्वल्लिमायासय ।इत्युल्लासितबाहुमूलविचलच्चेलाञ्चलव्यक्तयोराधायाः कुचयोर्जयन्ति चलिताः कंसद्विषो दृष्टयः ॥३००॥शङ्करस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP