संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - षष्ठप्रपाठकः| नवमी दशतिः छन्द आर्चिकः - षष्ठप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः षष्ठप्रपाठकः - नवमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद नवमी दशतिः Translation - भाषांतर पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।महि द्युक्षतमो मदः ॥५७८॥अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुं ।वि कोशं मध्यमं युव ॥५७९॥आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरं ।वनप्रक्षमुदप्रुतं ॥५८०॥एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहं ।विश्वा वसूनि बिभ्रतं ॥५८१॥स सुन्वे यो वसूनां यो रायामानेता य इडानां ।सोमो यः सुक्षितीनां ॥५८२॥त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।अमृतत्वाय घोषयन् ॥५८३॥एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः ।क्रीडन्नूर्मिरपामिव ॥५८४॥य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा ।अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ।ॐ वर्मीव धृष्णवा रुज ॥५८५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP