संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - षष्ठप्रपाठकः| द्वितीया दशतिः छन्द आर्चिकः - षष्ठप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः षष्ठप्रपाठकः - द्वितीया दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीया दशतिः Translation - भाषांतर अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।सं सूर्येण दिद्युते ॥४९७॥आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।पान्तमा पुरुस्पृहं ॥४९८॥अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।पुनीहीन्द्राय पातवे ॥४९९॥तरत्स मन्दी धावति धारा सुतस्यान्धसः ।तरत्स मन्दी धावति ॥५००॥आ पवस्व सहस्रिणं रयिं सोम सुवीर्यं ।अस्मे श्रवांसि धारय ॥५०१॥अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।रुचे जनन्त सूर्यं ॥५०२॥अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।सीदन्योनौ योनेष्वा ॥५०३॥वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।वृषा धर्माणि दध्रिषे ॥५०४॥इषे पवस्व धारया मृज्यमानो मनीषिभिः ।इन्दो रुचाभि गा इहि ॥५०५॥मन्द्रया सोम धारया वृषा पवस्व देवयुः ।अव्यो वारेभिरस्मयुः ॥५०६॥अया सोम सुकृत्यपा महान्त्सन्नभ्यवर्धथाः ।हिन्दान इद्वृषायसे ॥५०७॥अयं विचर्षणिर्हितः पवमानः स चेतति ।हिन्वान आप्यं बृहत् ॥५०८॥प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि ।अभि देवां अयास्यः ॥५०९॥अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।गच्छन्निन्द्रस्य निष्कृतं ॥५१०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP