संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - षष्ठप्रपाठकः| पञ्चमी दशतिः छन्द आर्चिकः - षष्ठप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः षष्ठप्रपाठकः - पञ्चमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद पञ्चमी दशतिः Translation - भाषांतर प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना ।भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥५३३॥प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यं ।पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥५३४॥प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय ।स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः ॥५३५॥प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् ।इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥५३६॥तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके ।आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुं ॥५३७॥साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥५३८॥अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः ।अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥५३९॥इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥५४०॥अया पवा पवस्वैना वसूनि मांश्चत्व इन्द्रो सरसि प्र धन्व ।ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥५४१॥महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥५४२॥असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष ।दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ ॥५४३॥अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ ।नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तं ॥५४४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP