संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - षष्ठप्रपाठकः| प्रथमा दशतिः छन्द आर्चिकः - षष्ठप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः षष्ठप्रपाठकः - प्रथमा दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमा दशतिः Translation - भाषांतर उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।इन्दुं देवा अयासिषुः ॥४८७॥पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।शुम्भन्ति विप्रं धीतिभिः ॥४८८॥आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः ।इन्दुरिन्द्राय धीयते ॥४८९॥असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।कार्ष्मन्वाजी न्यक्रमीत् ॥४९०॥प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।घ्नन्तः कृष्णामप त्वचं ॥४९१॥अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।नुदस्वादेवयुं जनं ॥४९२॥अया पवस्व धारया यया सूर्यमरोचयः ।हिन्वानो मानुषीरपः ॥४९३॥स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।वव्रिवांसं महीरपः ॥४९४॥अया वीती परि स्रव यस्त इन्दो मदेष्वा ।अवाहन्नवतीर्नव ॥४९५॥परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा ।स्वानो अर्ष पवित्र आ ॥४९६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP