संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - षष्ठप्रपाठकः| चतुर्थी दशतिः छन्द आर्चिकः - षष्ठप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः षष्ठप्रपाठकः - चतुर्थी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद चतुर्थी दशतिः Translation - भाषांतर प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥५२३॥प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥५२४॥तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां ।गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥५२५॥अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसं ।सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥५२६॥सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥५२७॥अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः ।वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥५२८॥अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥५२९॥कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः ।नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥५३०॥एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः ।सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥५३१॥पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये ।अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः ॥५३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP