संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - षष्ठप्रपाठकः| अष्टमी दशतिः छन्द आर्चिकः - षष्ठप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः षष्ठप्रपाठकः - अष्टमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद अष्टमी दशतिः Translation - भाषांतर इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।श्रुष्टे जातास इन्दवः स्वर्विदः ॥५६६॥प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव ।द्युमन्तं शुष्ममा भर स्वर्विदं ॥५६७॥सखाय आ नि षीदत पुनानाय प्र गायत ।शिशुं न यज्ञैः परि भूषत श्रिये ॥५६८॥तं वः सखायो मदाय पुनानमभि गायत ।शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥५६९॥प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।विश्वा परि प्रिया भुवदध द्विता ॥५७०॥पवस्व देववीतय इन्दो धाराभिरोजसा ।आ कलशं मधुमान्त्सोम नः सदः ॥५७१॥सोमः पुनान ऊर्मिणाव्यं वारं वि धावति ।अग्रे वाचः पवमानः कनिक्रदत् ॥५७२॥प्र पुनानाय वेधसे सोमाय वच उच्यते ।भृतिं न भरा मतिभिर्जुजोषते ॥५७३॥गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।शुचिं च वर्णमधि गोषु धार्य ॥५७४॥अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत ।गोभिष्टे वर्णमभि वासयामसि ॥५७५॥पवते हर्यतो हरिरति ह्वरांसि रंह्या ।अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥५७६॥परि कोशं मधुश्चुतं सोमः पुनानो अर्षति ।अभि वाणीरृषीणां सप्ता नूषत ॥५७७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP