संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - षष्ठप्रपाठकः| तृतीया दशतिः छन्द आर्चिकः - षष्ठप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः षष्ठप्रपाठकः - तृतीया दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद तृतीया दशतिः Translation - भाषांतर पुनानः सोम धारयापो वसानो अर्षसि ।आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥५११॥परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥५१२॥आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया ।जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥५१३॥प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतं ॥५१४॥सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥५१५॥तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि ॥५१६॥मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि ।रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥५१७॥अभि सोमास आयवः पवन्ते मद्यं मदं ।समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥५१८॥पुनानः सोम जागृविरव्या वारैः परि प्रियः ।त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥५२०॥पवस्व वाजसातमोऽभि विश्वानि वार्या ।त्वं समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः ॥५२१॥पवमाना असृक्षत पवित्रमति धारया ।मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥५२२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP