पञ्चमोऽध्यायः - द्वितीयमाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


५ - २ - १ नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म।

५ - २ - २ तद्विशेषेणादृष्टकारितम्।

५ - २ - ३ अपां संयोगाभावे गुरुत्वात् पतनम्।

५ - २ - ४ द्रवत्वात् स्यन्दनम्।

५ - २ - ५ नाड्या वायुसंयोगादारोहणम्।

५ - २ - ६ नोदनापीडनात् संयोगाच्च।

५ - २ - ७ वृक्षाभिसर्पणमित्यदृष्टकारितम्।

५ - २ - ८ अपां संघातो विलयनं च तेजःसंयोगात्।

५ - २ - ९ तत्र विस्फूर्जथुर्लिङ्गम्ष

५ - २ - १० वैदिकं च।

५ - २ - ११ अपां संयोगाद्विभाच्च स्तनयित्नोः।

५ - २ - १२ पृथिवीकर्मणा तेजःकर्म च व्याख्याताम्।

५ - २ - १३ अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम्।

५ - २ - १४ हस्तकर्मणा मनसः कर्म व्याख्यातम्।

५ - २ - १५ आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे।

५ - २ - १६ तदनारम्भ आत्मस्थे मनसि सरीरस्य दुःखाभावः स योगः।

५ - २ - १७ अपसर्पणमुपसर्पणशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि।

५ - २ - १८ तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः।

५ - २ - १९ द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः।

५ - २ - २० तेजसो द्रव्यान्तरेणावरणाच्च।

५ - २ - २१ दिक्कालावाकाशं च क्रियावद् वैधर्म्यान्निष्क्रियाणि।

५ - २ - २२ एतेन कर्माणि गुणाश्च व्याख्याताः।

५ - २ - २३ निष्क्रियाणां समवायः कर्मेभ्यो निषिद्धः।

५ - २ - २४ कारणं त्वसमवायिनो गुणाः।

५ - २ - २५ गुणैर्दिग्व्याख्याता।

५ - २ - २६ कारणेन कालः।

इति कणादसूत्रपाठे पञ्चमोऽध्यास्य द्वितीयमाह्निकम्, पञ्चमोऽध्यायश्च॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP