संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वैशेषिकदर्शनम्| द्वितीयमाह्निकम् वैशेषिकदर्शनम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथमामह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममह्निकम् द्वितीयमह्निकम् प्रथममाह्निकम् द्वितीयमह्निकम् षष्ठोऽध्यायः - द्वितीयमाह्निकम् वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली. Tags : kanadकणादवैशेषिकदर्शनसंस्कृत द्वितीयमाह्निकम् Translation - भाषांतर ६ - २ - १ दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय।६ - २ - २ अभिषेचनोपवासब्रह्मचर्यगुरूकुलवासवानप्रस्थयज्ञदानप्रक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय।६ - २ - ३ चातुराश्रम्यमुपधा अनुपधाश्च।६ - २ - ४ भावदोष उपधाऽदोषोऽनुपधा।६ - २ - ५ यदिष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि।६ - २ - ६ अशुचीति शुचिप्रतिषेधः।६ - २ - ७ अर्थान्तरं च ।६ - २ - ८ अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वाऽर्थान्तरत्वाद् यमस्य।६ - २ - ९ असति चाभावात्।६ - २ - १० सुखाद्रागः।६ - २ - ११ तन्मयत्वाच्च।६ - २ - १२ अदृष्टाच्च।६ - २ - १३ जातिविशेषाच्च।६ - २ - १४ इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः।६ - २ - १५ ततः संयोगो विभागश्च।६ - २ - १६ आत्मकर्मसु मोक्षो व्याख्यातः।इति कणादसूत्रपाठे षष्ठोऽध्यायस्य द्वितीयमाह्निकम्, षष्ठोऽध्यायश्च। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP