प्रथमोऽध्यायः - द्वितीयमाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


१ - २ - १ कारणाभावात् कार्य्याभावः।

१ - २ - २ न तु कार्य्याभावात् कारणाभावः।

१ - २ - ३ सामान्यं विशेष इति बुद्ध्यपेक्षम्।

१ - २ - ४ भावोऽनुपृत्तेरेव हेतुत्वात् सामानियमेव।

१ - २ - ५ द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च।

१ - २ - ६ अन्यत्रान्त्येभ्यो विशेषेभ्यः।

१ - २ - ७ सदिति यतो द्रव्यगुणकर्मसु सा सत्ता ।

१ - २ - ८ द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता।

१ - २ - ९ गुणकर्मसु च भावान्न कर्म न गुणः।

१ - २ - १० सामान्यविशेषाभावेन च।

१ - २ - ११ अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम्।

१ - २ - १२ सामाल्यविशेषाभावेन च।

१ - २ - १३ तथागुणेषु भावाद् गुणत्वमुक्तम्।

१ - २ - १४ सामान्यविशेषाभावेन च।

१ - २ - १५ कर्मसु भापवात् कर्मत्वमुक्तम्।

१ - २ - १६ सामान्यविशेषाभावेन च।

१ - २ - १७ सदिति लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः।

इति काणादसूत्रपाठे प्रथमोऽध्यास्य द्वितीयमाह्निकम्।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP