संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वैशेषिकदर्शनम्| द्वितीयमाह्निकम् वैशेषिकदर्शनम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथमामह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममह्निकम् द्वितीयमह्निकम् प्रथममाह्निकम् द्वितीयमह्निकम् सप्तमोऽध्यायः - द्वितीयमाह्निकम् वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली. Tags : kanadकणादवैशेषिकदर्शनसंस्कृत द्वितीयमाह्निकम् Translation - भाषांतर ७ - २ - १ रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्।७ - २ - २ तथा पृथक्त्वम्।७ - २ - ३ एतत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्याताः।७ - २ - ४ निःसंख्यात्वात् कर्मगुणानां सर्वैकत्वं न विद्यते।७ - २ - ५ भ्रान्तं तत्।७ - २ - ६ एकत्वाभावाद्भक्तिस्तु न विद्यते।७ - २ - ७ कार्य्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते।७ - २ - ८ एतदनित्ययोर्व्याख्यातम्।७ - २ - ९ अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः।७ - २ - १० एतेन विभागो व्याख्यातः।७ - २ - ११ सयोगविभागयोः संयोगविभागाभावोऽणुमहत्त्वाभ्यां व्याख्याताः।७ - २ - १२ कर्मभिः कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाभ्यामिति।७ - २ - १३ युतसिद्ध्यभावात् कार्य्यकारणयोः संयोगविभागौ न विद्यते।७ - २ - १४ गुणत्वात्।७ - २ - १५ गुणोऽपि विभाव्यते।७ - २ - १६ निष्क्रियत्वात्।७ - २ - १७ असति नास्तीति च प्रयोगात्।७ - २ - १८ शब्दार्थावसम्बन्धौ।७ - २ - १९ संयोगिनो दण्डात् समवायिनो विशेषाच्च।७ - २ - २० सामायिकः शब्दादर्थप्रत्ययः।७ - २ - २१ एकदिक्कालाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परनपरं च।७ - २ - २२ कारणपरत्वात् कारणापरत्वाच्च।७ - २ - २३ परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः।७ - २ - २४ कर्मभिः कर्माणि।७ - २ - २५ गुणैर्गुणाः।७ - २ - २६ इहेदमिति यतः कार्य्यकरणयोः स समवायः।७ - २ - २७ द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः।७ - २ - २८ तत्त्वमभावेन।इति कणादसूत्रपाठे सप्तमोऽध्यायस्य द्वितीयोऽह्निकम्, सप्तमोऽध्यायश्च। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP