संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वैशेषिकदर्शनम्| प्रथममाह्निकम् वैशेषिकदर्शनम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथमामह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममह्निकम् द्वितीयमह्निकम् प्रथममाह्निकम् द्वितीयमह्निकम् सप्तमोऽध्यायः - प्रथममाह्निकम् वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली. Tags : kanadकणादवैशेषिकदर्शनसंस्कृत प्रथममाह्निकम् Translation - भाषांतर ७ - १ - १ उक्ता गुणाः।७ - १ - २ पृथिव्यादिरूपरसगन्धस्पर्शाद्रव्यानित्यत्वादनित्याश्च।७ - १ - ३ अग्निसंयोगाच्च।७ - १ - ४ गुणान्तरप्रादुर्भावात्।७ - १ - ५ एतेन नित्येषु अनित्यत्वमुक्तम्।७ - १ - ६ अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात्।७ - १ - ७ अनित्येष्वनित्या द्रव्यान्त्यत्वात्।७ - १ - ८ कारणगुणपूर्वकाः पृथिव्यां पाकजाः।७ - १ - ९ एकद्रव्यत्वात्।७ - १ - १० अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते।७ - १ - ११ कारणबहुत्वाच्च।७ - १ - १२ अतो विपरीतमणु।७ - १ - १३ अणु महदिति तस्मिन् विशेषभावात् विशेषाभावाच्च।७ - १ - १४ एककात्वात्।७ - १ - १५ दृष्टान्ताच्च।७ - १ - १६ अणुत्वमह्त्त्वायोरणुत्वमह्त्त्वाभावः कर्मगुणैर्व्याख्यातः।७ - १ - १७ कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः।७ - १ - १८ अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः।७ - १ - १९ एतेन दीर्घत्वह्रस्तवत्वे व्याख्याते।७ - १ - २० अनित्येऽनित्यम्।७ - १ - २१ नित्ये नित्यम्।७ - १ - २२ नित्यं परिमण्डलम्।७ - १ - २३ अविद्या च विद्यालिङ्गम्।७ - १ - २४ विभवान्महानाकाशस्तथा चात्मा।७ - १ - २५ तद्भावादणु मनः।७ - १ - २६ गुणैर्दिग्व्याख्याता।७ - १ - २७ कारणे कालः।इति कणादसूत्रपाठे सप्तमोऽध्यायस्य प्रथममाह्निकम्॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP