संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय २८ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय २८ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २८ Translation - भाषांतर वक्रर्जु-तिर्यग्-ऊर्ध्वाधः शल्यानां पञ्च-धा गतिः ।ध्यामं शोफ-रुजा-वन्तं स्रवन्तं शोणितं मुहुः ॥१॥अभ्युद्गतं बुद्बुद-वत् पिटिकोपचितं व्रणम् ।मृदु-मांसं च जानीयाद् अन्तः-शल्यं समासतः ॥२॥२८.२ - अभ्युन्नतं बुद्बुद-वत् २८.२ - मृदु-मांसं विजानीयाद् विशेषात् त्वग्-गते शल्ये वि-वर्णः कठिनायतः ।शोफो भवति मांस-स्थे चोषः शोफो विवर्धते ॥३॥पीडना-क्षम-ता पाकः शल्य-मार्गो न रोहति ।पेश्य्-अन्तर-गते मांस-प्राप्त-वच् छ्वयथुं विना ॥४॥२८.४ - पीडने ऽ-क्षम-ता पाकः २८.४ - प्राप्त-वच् छ्वयथोर् विना आक्षेपः स्नायु-जालस्य संरम्भ-स्तम्भ-वेदनाः ।स्नायु-गे दुर्-हरं चैतत् सिराध्मानं सिराश्रिते ॥५॥२८.५ - स्नाव-गे दुर्-हरं चैतत् स्व-कर्म-गुण-हानिः स्यात् स्रोतसां स्रोतसि स्थिते ।धमनी-स्थे ऽनिले रक्तं फेन-युक्तम् उदीरयेत् ॥६॥२८.६ - फेन-युक्तम् उदीरयन् निर्याति शब्द-वान् स्याच् च हृल्-लासः साङ्ग-वेदनः ।संघर्षो बल-वान् अस्थि-संधि-प्राप्ते ऽस्थि-पूर्ण-ता ॥७॥२८.७ - संहर्षो बल-वान् अस्थि- नैक-रूपा रुजो ऽस्थि-स्थे शोफस् तद्-वच् च संधि-गे ।चेष्टा-निवृत्तिश् च भवेद् आटोपः कोष्ठ-संश्रिते ॥८॥आनाहो ऽन्न-शकृन्-मूत्र-दर्शनं च व्रणानने ।विद्यान् मर्म-गतं शल्यं मर्म-विद्धोपलक्षणैः ॥९॥यथा-स्वं च परिस्रावैस् त्वग्-आदिषु विभावयेत् ।रुह्यते शुद्ध-देहानाम् अनुलोम-स्थितं तु तत् ॥१०॥२८.१० - यथा-यथं परिस्रावैस् दोष-कोपाभिघातादि-क्षोभाद् भूयो ऽपि बाधते ।त्वङ्-नष्टे यत्र तत्र स्युर् अभ्यङ्ग-स्वेद-मर्दनैः ॥११॥राग-रुग्-दाह-संरम्भा यत्र चाज्यं विलीयते ।आशु शुष्यति लेपो वा तत्-स्थानं शल्य-वद् वदेत् ॥१२॥२८.१२ - यत्र वाज्यं विलीयते २८.१२ - आशुष्यति प्रलेपो वा मांस-प्रणष्टं संशुद्ध्या कर्शनाच् छ्लथ-तां गतम् ।क्षोभाद् रागादिभिः शल्यं लक्षयेत् तद्-वद् एव च ॥१३॥२८.१३ - कर्षणाच् छ्लथ-तां गतम् पेश्य्-अस्थि-संधि-कोष्ठेषु नष्टम् अस्थिषु लक्षयेत् ।अस्थ्नाम् अभ्यञ्जन-स्वेद-बन्ध-पीडन-मर्दनैः ॥१४॥प्रसारणाकुञ्चनतः संधि-नष्टं तथास्थि-वत् ।नष्टे स्नायु-सिरा-स्रोतो-धमनीष्व् अ-समे पथि ॥१५॥अश्व-युक्तं रथं खण्ड-चक्रम् आरोप्य रोगिणम् ।शीघ्रं नयेत् ततस् तस्य संरम्भाच् छल्यम् आदिशेत् ॥१६॥मर्म-नष्टं पृथङ् नोक्तं तेषां मांसादि-संश्रयात् ।सामान्येन स-शल्यं तु क्षोभिण्या क्रियया स-रुक् ॥१७॥वृत्तं पृथु चतुष्-कोणं त्रि-पुटं च समासतः ।अ-दृश्य-शल्य-संस्थानं व्रणाकृत्या विभावयेत् ॥१८॥तेषाम् आहरणोपायौ प्रतिलोमानुलोमकौ ।अर्वाचीन-पराचीने निर्हरेत् तद्-विपर्ययात् ॥१९॥२८.१९ - अवाचीन-पराचीने सुखाहार्यं यतश् छित्त्वा ततस् तिर्यग्-गतं हरेत् ।शल्यं न निर्घात्यम् उरः-कक्षा-वङ्क्षण-पार्श्व-गम् ॥२०॥प्रतिलोमम् अन्-उत्तुण्डं छेद्यं पृथु-मुखं च यत् ।नैवाहरेद् वि-शल्य-घ्नं नष्टं वा निर्-उपद्रवम् ॥२१॥अथाहरेत् कर-प्राप्यं करेणैवेतरत् पुनः ।दृश्यं सिंहाहि-मकर-वर्मि-कर्कटकाननैः ॥२२॥अ-दृश्यं व्रण-संस्थानाद् ग्रहीतुं शक्यते यतः ।कङ्क-भृङ्गाह्व-कुरर-शरारि-वायसाननैः ॥२३॥संदंशाभ्यां त्वग्-आदि-स्थं तालाभ्यां सुषिरं हरेत् ।सुषिर-स्थं तु नलकैः शेषं शेषैर् यथा-यथम् ॥२४॥शस्त्रेण वा विशस्यादौ ततो निर्-लोहितं व्रणम् ।कृत्वा घृतेन संस्वेद्य बद्धाचारिकम् आदिशेत् ॥२५॥२८.२५ - बद्धाचारिकम् आचरेत् सिरा-स्नायु-विलग्नं तु चालयित्वा शलाकया ।हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना ॥२६॥२८.२६ - सिरा-स्नायु-विलग्नं च २८.२६ - सिरा-स्नाव-विलग्नं तु ततः स्थानान्तरं प्राप्तं आहरेत् तद् यथा-यथम् ।यथा-मार्गं दुर्-आकर्षम् अन्यतो ऽप्य् एवम् आहरेत् ॥२७॥अस्थि-दष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत् ।इत्य् अ-शक्ये सु-बलिभिः सु-गृहीतस्य किङ्करैः ॥२८॥२८.२८ - अस्थि-दृष्टे नरं पद्भ्यां २८.२८ - अस्थि-नष्टे नरं पद्भ्यां २८.२८ - अस्थि-लग्नं नरं पद्भ्यां २८.२८ - अस्थि-स्थं न परं पद्भ्यां तथाप्य् अ-शक्ये वारङ्गं वक्री-कृत्य धनुर्-ज्यया ।सु-बद्धं वक्त्र-कटके बध्नीयात् सु-समाहितः ॥२९॥सु-संयतस्य पञ्चाङ्ग्या वाजिनः कशयाथ तम् ।ताडयेद् इति मूर्धानं वेगेनोन्नमयन् यथा ॥३०॥२८.३० - वेगेनोन्नमयेद् यथा उद्धरेच् छल्यम् एवं वा शाखायां कल्पयेत् तरोः ।बद्ध्वा दुर्-बल-वारङ्गं कुशाभिः शल्यम् आहरेत् ॥३१॥श्वयथु-ग्रस्त-वारङ्गं शोफम् उत्पीड्य युक्तितः ।मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत् ॥३२॥तैर् एव चानयेन् मार्गम् अ-मार्गोत्तुण्डितं तु यत् ।मृदित्वा कर्णिनां कर्णं नाड्य्-आस्येन निगृह्य वा ॥३३॥२८.३३ - तेनैव वा नयेन् मार्गम् २८.३३ - अ-मार्गोत्तुण्डितं च यत् अयस्-कान्तेन निष्-कर्णं विवृतास्यम् ऋजु-स्थितम् ।पक्वाशय-गतं शल्यं विरेकेण विनिर्हरेत् ॥३४॥दुष्ट-वात-विष-स्तन्य-रक्त-तोयादि चूषणैः ।कण्ठ-स्रोतो-गते शल्ये सूत्रं कण्ठे प्रवेशयेत् ॥३५॥बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत् ।नाड्याग्नि-तापितां क्षिप्त्वा शलाकाम् अप्-स्थिरी-कृताम् ॥३६॥२८.३६ - जतु-दिग्धम् अ-जातुषम् आनयेज् जातुषं कण्ठाज् जतु-दिग्धाम् अ-जातुषम् ।केशोन्दुकेन पीतेन द्रवैः कण्टकम् आक्षिपेत् ॥३७॥२८.३७ - जतु-दिग्धम् अ-जातुषम् २८.३७ - केशाण्डकेन पीतेन २८.३७ - केशाण्डुकेन पीतेन २८.३७ - केशोण्डुकेन पीतेन सहसा सूत्र-बद्धेन वमतस् तेन चेतरत् ।अ-शक्यं मुख-नासाभ्याम् आहर्तुं परतो नुदेत् ॥३८॥अप्-पान-स्कन्ध-घाताभ्यां ग्रास-शल्यं प्रवेशयेत् ।सूक्ष्माक्षि-व्रण-शल्यानि क्षौम-वाल-जलैर् हरेत् ॥३९॥अपां पूर्णं विधुनुयाद् अवाक्-शिरसम् आयतम् ।वामयेच् चा-मुखं भस्म-राशौ वा निखनेन् नरम् ॥४०॥२८.४० - वामयेद् आ-मुखं भस्म- २८.४० - वामयेद् वा-मुखं भस्म- २८.४० - वामयेद् वा सुखं भस्म- कर्णे ऽम्बु-पूर्णे हस्तेन मथित्वा तैल-वारिणी ।क्षिपेद् अधो-मुखं कर्णं हन्याद् वाचूषयेत वा ॥४१॥२८.४१ - हन्याद् वाचूषयेत् तदा २८.४१ - हन्याद् वाचूषयेत च कीटे स्रोतो-गते कर्णं पूरयेद् लवणाम्बुना ।शुक्तेन वा सुखोष्णेन मृते क्लेद-हरो विधिः ॥४२॥जातुषं हेम-रूप्यादि-धातु-जं च चिर-स्थितम् ।ऊष्मणा प्राय-शः शल्यं देह-जेन विलीयते ॥४३॥मृद्-वेणु-दारु-शृङ्गास्थि-दन्त-वालोपलानि न ।विषाण-वेण्व्-अयस्-ताल-दारु-शल्यं चिराद् अपि ॥४४॥२८.४४ - दन्त-वालोपलादि न प्रायो निर्भुज्यते तद् धि पचत्य् आशु पलासृजी ।शल्ये मांसावगाढे चेत् स देशो न विदह्यते ॥४५॥२८.४५ - शल्ये मांसावगाढे च ततस् तं मर्दन-स्वेद-शुद्धि-कर्षण-बृंहणैः ।तीक्ष्णोपनाह-पानान्न-घन-शस्त्र-पदाङ्कनैः ॥४६॥२८.४६ - शुद्धि-कर्शन-बृंहणैः पाचयित्वा हरेच् छल्यं पाटनैषण-भेदनैः ।शल्य-प्रदेश-यन्त्राणाम् अवेक्ष्य बहु-रूप-ताम् ॥४७॥तैस् तैर् उपायैर् मति-मान् शल्यं विद्यात् तथाहरेत् ॥४७ऊ̆अब् ॥२८.४७ऊ̆ब्व् शल्यं विद्यात् ततो हरेत् N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP