TransLiteral Foundation

सूत्रस्थान - अध्याय १३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १३
वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु ।
स्वाद्व्-अम्ल-लवणोष्णानि भोज्यान्य् अभ्यङ्ग-मर्दनम् ॥१॥

वेष्टनं त्रासनं सेको मद्यं पैष्टिक-गौडिकम् ।
स्निग्धोष्णा वस्तयो वस्ति-नियमः सुख-शील-ता ॥२॥

दीपनैः पाचनैः स्निग्धाः स्नेहाश् चानेक-योनयः ।
विशेषान् मेद्य-पिशित-रस-तैलानुवासनम् ॥३॥

पित्तस्य सर्पिषः पानं स्वादु-शीतैर् विरेचनम् ।
स्वादु-तिक्त-कषायाणि भोजनान्य् औषधानि च ॥४॥

सु-गन्धि-शीत-हृद्यानां गन्धानाम् उपसेवनम् ।
कण्ठे-गुणानां हाराणां मणीनाम् उरसा धृतिः ॥५॥

कर्पूर-चन्दनोशीरैर् अनुलेपः क्षणे क्षणे ।
प्रदोषश् चन्द्रमाः सौधं हारि गीतं हिमो ऽनिलः ॥६॥

अ-यन्त्रण-सुखं मित्रं पुत्रः संदिग्ध-मुग्ध-वाक् ।
छन्दानुवर्तिनो दाराः प्रियाः शील-विभूषिताः ॥७॥

१३.७ - अ-यन्त्रण-मुखं मित्रं शीताम्बु-धारा-गर्भाणि गृहाण्य् उद्यान-दीर्घिकाः ।
सु-तीर्थ-विपुल-स्वच्छ-सलिलाशय-सैकते ॥८॥

साम्भो-ज-जल-तीरान्ते कायमाने द्रुमाकुले ।
सौम्या भावाः पयः सर्पिर् विरेकश् च विशेषतः ॥९॥

१३.९ - कायमानं द्रुमाकुले श्लेष्मणो विधिना युक्तं तीक्ष्णं वमन-रेचनम् ।
अन्नं रूक्षाल्प-तीक्ष्णोष्णं कटु-तिक्त-कषायकम् ॥१०॥

दीर्घ-काल-स्थितं मद्यं रति-प्रीतिः प्रजागरः ।
अनेक-रूपो व्यायामश् चिन्ता रूक्षं विमर्दनम् ॥११॥

विशेषाद् वमनं यूषः क्षौद्रं मेदो-घ्नम् औषधम् ।
धूमोपवास-गण्डूषा निः-सुख-त्वं सुखाय च ॥१२॥

उपक्रमः पृथग् दोषान् यो ऽयम् उद्दिश्य कीर्तितः ।
संसर्ग-संनिपातेषु तं यथा-स्वं विकल्पयेत् ॥१३॥

१३.१३ - तं यथा-स्वं प्रकल्पयेत् ग्रैष्मः प्रायो मरुत्-पित्ते वासन्तः कफ-मारुते ।
मरुतो योग-वाहि-त्वात् कफ-पित्ते तु शारदः ॥१४॥

चय एव जयेद् दोषं कुपितं त्व् अ-विरोधयन् ।
सर्व-कोपे बलीयांसं शेष-दोषा-विरोधतः ॥१५॥

प्रयोगः शमयेद् व्याधिम् एकं यो ऽन्यम् उदीरयेत् ।
नासौ विशुद्धः शुद्धस् तु शमयेद् यो न कोपयेत् ॥१६॥

१३.१६ - प्रयोगः शमयेद् व्याधिं १३.१६ - यो ऽन्यम् अन्यम् उदीरयेत् व्यायामाद् ऊष्मणस् तैक्ष्ण्याद् अ-हिताचरणाद् अपि ।
कोष्ठाच् छाखास्थि-मर्माणि द्रुत-त्वान् मारुतस्य च ॥१७॥

दोषा यान्ति तथा तेभ्यः स्रोतो-मुख-विशोधनात् ।
वृद्ध्याभिष्यन्दनात् पाकात् कोष्ठं वायोश् च निग्रहात् ॥१८॥

तत्र-स्थाश् च विलम्बेरन् भूयो हेतु-प्रतीक्षिणः ।
ते कालादि-बलं लब्ध्वा कुप्यन्त्य् अन्याश्रयेष्व् अपि ॥१९॥

तत्रान्य-स्थान-संस्थेषु तदीयाम् अ-बलेषु तु ।
कुर्याच् चिकित्सां स्वाम् एव बलेनान्याभिभाविषु ॥२०॥

आगन्तुं शमयेद् दोषं स्थानिनं प्रतिकृत्य वा ।
प्रायस् तिर्यग्-गता दोषाः क्लेशयन्त्य् आतुरांश् चिरम् ॥२१॥

साधारणं वा कुर्वीत क्रियाम् उभय-योगिनीम् ॥२१.१-१॥

कुर्यान् न तेषु त्वरया देहाग्नि-बल-वित् क्रियाम् ।
शमयेत् तान् प्रयोगेण सुखं वा कोष्ठम् आनयेत् ॥२२॥

ज्ञात्वा कोष्ठ-प्रपन्नांश् च यथासन्नं विनिर्हरेत् ।
स्रोतो-रोध-बल-भ्रंश-गौरवानिल-मूढ-ताः ॥२३॥

१३.२३ - गौरवानिल-मूढ-ता आलस्या-पक्ति-निष्ठीव-मल-सङ्गा-रुचि-क्लमाः ।
लिङ्गं मलानां सामानां निर्-आमाणां विपर्ययः ॥२४॥

विण्-मूत्र-नख-दन्त-त्वक्-चक्षुषां पीत-ता भवेत् ।
रक्त-त्वम् अथ कृष्ण-त्वं पृष्ठास्थि-कटि-संधि-रुक् ॥२४.१-१॥

१३.२४.१-१ - पृष्ठास्थि-कटि-संधिषु शिरो-रुक् जायते तीव्रा निद्रा वि-रस-ता मुखे ।
क्व-चिच् च श्वयथुर् गात्रे ज्वरातीसार-हर्षणम् ॥२४.१-२॥

ऊष्मणो ऽल्प-बल-त्वेन धातुम् आद्यम् अ-पाचितम् ।
दुष्टम् आमाशय-गतं रसम् आमं प्रचक्षते ॥२५॥

अन्ये दोषेभ्य एवाति-दुष्टेभ्यो ऽन्यो-ऽन्य-मूर्छनात् ।
कोद्रवेभ्यो विषस्येव वदन्त्य् आमस्य संभवम् ॥२६॥

आमेन तेन संपृक्ता दोषा दूष्याश् च दूषिताः ।
सामा इत्य् उपदिश्यन्ते ये च रोगास् तद्-उद्भवाः ॥२७॥

वायुः सामो विबन्धाग्नि-साद-स्तम्भान्त्र-कूजनैः ।
वेदना-शोफ-निस्तोदैः क्रम-शो ऽङ्गानि पीडयन् ॥२७-१॥

विचरेद् युग-पच् चापि गृह्णाति कुपितो भृशम् ।
स्नेहाद्यैर् वृद्धिम् आयाति सूर्य-मेघोदये निशि ॥२७-२॥

निर्-आमो विशदो रूक्षो निर्-विबन्धो ऽल्प-वेदनः ।
विपरीत-गुणैः शान्तिं स्निग्धैर् याति विशेषतः ॥२७-३॥

दुर्-गन्धि हरितं श्यावं पित्तम् अम्लं घनं गुरु ।
अम्लीका-कण्ठ-हृद्-दाह-करं सामं विनिर्दिशेत् ॥२७-४॥

आ-ताम्र-पीतम् अत्य्-उष्णं रसे कटुकम् अ-स्थिरम् ।
पक्वं वि-गन्धि विज्ञेयं रुचि-पक्ति-बल-प्रदम् ॥२७-५॥

१३.२७-५ - रुचि-वह्नि-बल-प्रदम् आविलस् तन्तुलः स्त्यानः कण्ठ-देशे ऽवतिष्ठते ।
सामो बलासो दुर्-गन्धिः क्षुद्-उद्गार-विघात-कृत् ॥२७-६॥

फेन-वान् पिण्डितः पाण्दुर् निः-सारो ऽ-गन्ध एव च ।
पक्वः स एव विज्ञेयश् छेद-वान् वक्त्र-शुद्धि-दः ॥२७-७॥

सर्व-देह-प्रविसृतान् सामान् दोषान् न निर्हरेत् ।
लीनान् धातुष्व् अन्-उत्क्लिष्टान् फलाद् आमाद् रसान् इव ॥२८॥

आश्रयस्य हि नाशाय ते स्युर् दुर्-निर्हर-त्वतः ।
पाचनैर् दीपनैः स्नेहैस् तान् स्वेदैश् च परिष्कृतान् ॥२९॥

शोधयेच् छोधनैः काले यथासन्नं यथा-बलम् ।
हन्त्य् आशु युक्तं वक्त्रेण द्रव्यम् आमाशयान् मलान् ॥३०॥

घ्राणेन चोर्ध्व-जत्रूत्थान् पक्वाधानाद् गुदेन च ।
उत्क्लिष्टान् अध ऊर्ध्वं वा न चामान् वहतः स्वयम् ॥३१॥

धारयेद् औषधैर् दोषान् विधृतास् ते हि रोग-दाः ।
प्रवृत्तान् प्राग् अतो दोषान् उपेक्षेत हिताशिनः ॥३२॥

विबद्धान् पाचनैस् तैस् तैः पाचयेन् निर्हरेत वा ।
श्रावणे कार्त्तिके चैत्रे मासि साधारणे क्रमात् ॥३३॥

१३.३३ - पाचयेन् निर्हरेत् तथा प्रावृट्-शरद्-वसन्तेषु मासेष्व् एतेषु शोधयेत् ।
साधारणेषु विधिना त्रि-मासान्तरितान् मलान् ॥३३-१॥

ग्रीष्म-वर्षा-हिम-चितान् वाय्व्-आदीन् आशु निर्हरेत् ।
अत्य्-उष्ण-वर्ष-शीता हि ग्रीष्म-वर्षा-हिमागमाः ॥३४॥

संधौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत् ।
स्वस्थ-वृत्तम् अभिप्रेत्य व्याधौ व्याधि-वशेन तु ॥३५॥

त्रयः साधारणास् तेषाम् अन्तरे प्रावृषादयः ।
प्रावृट् शुचि-नभौ तेषु शरद् ऊर्ज-सहौ स्मृतौ ॥३५.१-१॥

तपस्यो मधु-मासश् च वसन्तः शोधनं प्रति ।
एतान् ऋतून् विकल्प्यैवं दद्यात् संशोधनं भिषक् ॥३५.१-२॥

कृत्वा शीतोष्ण-वृष्टीनां प्रतीकारं यथा-यथम् ।
प्रयोजयेत् क्रियां प्राप्तां क्रिया-कालं न हापयेत् ॥३६॥

युञ्ज्याद् अन्-अन्नम् अन्नादौ मध्ये ऽन्ते कवडान्तरे ।
ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम् ॥३७॥

कफोद्रेके गदे ऽन्-अन्नं बलिनो रोग-रोगिणोः ।
अन्नादौ वि-गुणे ऽपाने समाने मध्य इष्यते ॥३८॥

व्याने ऽन्ते प्रातर्-आशस्य सायम्-आशस्य तूत्तरे ।
ग्रास-ग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि ॥३९॥

मुहुर् मुहुर् विष-च्छर्दि-हिध्मा-तृट्-श्वास-कासिषु ।
योज्यं स-भोज्यं भैषज्यं भोज्यैश् चित्रैर् अ-रोचके ॥४०॥

कम्पाक्षेपक-हिध्मासु सामुद्गं लघु-भोजिनाम् ।
ऊर्ध्व-जत्रु-विकारेषु स्वप्न-काले प्रशस्यते ॥४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:57.4670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ascarodea

  • ऍस्केरिडॉइडिया 
  • त्रिओष्ठ कंकुल 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,450
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 325,879
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.